Thursday, 1 September 2022

सरदार वल्लभभाई पटेल पर संस्कृत निबंध (Essay on Sardar Vallabhbhai Patel in Sanskrit)

सरदार वल्लभभाई पटेल पर संस्कृत निबंध (Essay on Sardar Vallabhbhai Patel in Sanskrit)

सरदार वल्लभभाई पटेल पर संस्कृत निबंधसरदार वल्लभभाई पटेल भारतस्य एकतायाः सूत्रधारः। लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः। सरदार वल्लभभाई पटेल महोदस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत्। तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति।किंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन्। सरदार वल्लभस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत्। सरदार वल्लभस्य जन्मतिथिविषये निश्चितता तु नास्ति। परन्तु शाला-तः १८७५ तमस्य वर्षस्य 'अक्तूबर्'-मासस्य एकत्रिंशत् (३१) दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं ३१/१० दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः। लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म। बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म। तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत्।

सरदार वल्लभभाई पटेल पर संस्कृत निबंध (Essay on Sardar Vallabhbhai Patel in Sanskrit)

पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म। पितुः कथायां विप्लवविफलतायाः कारणीभूतः भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म। तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः। गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म। लोहपुरुषः कथयति स्म यत्, "मम पितरौ मां कृषिक्षेत्रम् अनयेताम्। तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम्" इति। धर्मशिक्षणमपि बालवल्लभेन परम्परया प्राप्तमासीत्। तस्य गृहजनाः धार्मिककर्मकाण्डादीनां पालनं दृढतया कुर्वन्ति स्म। पितरौ भगवतः स्वामिनारायणस्य भक्तौ आस्ताम्। प्रतिपूर्णिमायां तौ वडताल-ग्रामे स्थितं स्वामिनारायणमन्दिरं बालवल्लभं नयतः स्म। पितृभ्यां सह बालवल्लभः अपि एकादश्याः उपवासम् आचरति स्म।

करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः “માંય-માંય ભણો...(मांय-मांय भणो)” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म। शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः। स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत्। प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्, “मया तु अधिकाधिकं धनार्जनं करणीयम्” इति। अतः स्वस्य आङ्ग्लपठनस्य ईप्सां सः पितरौ अकथयत्। बालवल्लभस्य ज्येष्ठभ्राता विठ्ठलभाई नडियाद-नगरे मातुलस्य गृहे स्थित्वा आङ्ग्लशालायां पठन् आसीत्।

द्वितीयबालोऽपि तत्र न गच्छेत् इति पित्रोः इच्छा आसीत्। किङ्कर्तव्यमूढौ पितरौ षण्मासं यावत् चिन्तनम् अकुरुताम्। तदा तृतीयकक्षापर्यन्तम् अनुमतिं प्रप्तायाः कस्याश्चित् आङ्ग्लशालायाः प्रारम्भः करमसद-ग्रामेऽभूत्। सामान्यतः चतुर्थकक्षां पठित्वा आङ्ग्लशालायां तृतीयकक्षायां प्रवेशो भवति स्म। परन्तु बालवल्लभस्तु सप्तमकक्षां समाप्य षण्मासं यावत् गृहे स्थित्वा ततः आङ्ग्लशालायाः प्रथमकक्षां प्रविष्टवान् । तदा बालवल्लभस्य वयः चतुर्दशवर्षमासीत्। तत्र तृतीयकक्षासमाप्त्यनन्तरं पुनः अग्रे पठनाय समस्या उद्भूता। पूर्वानुभवेन सः शीघ्रं पेटलाद-ग्रामे स्थिते विद्यालये पठनाय निर्णयमकरोत्। सः विद्यालयः षोडश कि.मी. दूरे, पञ्चमकक्षापर्यन्तं चासीत्। प्रातः षड्वादने उत्थाय षोडश कि.मी. चलित्वा निश्चितसमये शालां प्राप्नोति स्म बालवल्लभः। कालान्तरे पेटलाद-ग्रामे एव गृहं भाटके नीत्वा मित्रैः सह न्यवसत् सः।

१९०० तमे वर्षे लोहपुरुषः 'डिस्ट्रिक्ट् प्लीडर'-परीक्षायाम् उत्तीर्णः अभूत्। तस्मिन् एव वर्षे सः वाक्कीलत्वेन धनार्जनस्य प्रारम्भमकरोत् । स्वतन्त्रस्वभावी युववल्लभः गोधरा-नगरे स्वस्य कार्यं प्रारभत । १९०२ तमे वर्षे सः बोरसद-ग्रामं गत्वा कार्यम् अकरोत्। कारणं बोरसद-ग्रामे स्थानिकजनैः सह स्वस्य भ्रातुः विठ्ठलस्य विवादः आसीत्। समयान्तरे तस्य विवादस्य निराकरणमभूत् । परन्तु विवादे निर्गते सत्यपि युववल्लभः भ्रात्रा सह कार्यं न कृतवान्। सः तत्रापि स्वतन्त्रेण कार्यमकरोत्। अमुकवारं तु उभौ भ्रातरौ पक्षापक्षयोः अभियोगे तर्कं यच्छन्तौ आस्ताम् । भ्रात्रोः मध्ये कोऽपि विवादः नासीत्। परन्तु स्वतन्त्रस्वभावी युववल्लभः स्वतन्त्रमेव कार्यं करोति स्म। स्वस्य कुशलतया, वाग्चातुर्येण, तर्केण च सः उत्तमवाक्कीलेषु अन्यतमः अभूत्।

१८९३ तमे वर्षे युववल्लभः झवेरबा-नामिकया कन्यया सह विवाहं कृतवानासीत्। तयोः एका पुत्री, एकः पुत्रश्चासीत्। पुत्र्याः जन्म १९०३ तमे वर्षस्य 'एप्रिल'-मासे अभूत्। पुत्रस्य जन्म १९०५ तमस्य वर्षस्य 'नवम्बर्'-मासस्य अष्टाविंशतितमे दिनाङ्केऽभूत्। पुत्र्याः नाम मणीबेन, पुत्रस्य नाम डाह्याभाई आसीत्।

लोहपुरुषस्य पत्न्याः उदरे ग्रन्थिः (Tumor) आसीत्। ग्रन्थिनिष्कासनाय उपचारः मुम्बई-महानगरे स्थिते कामा-नामके चिकित्सालये चलन् आसीत्। वैद्यः चिकित्सासमये उक्तावान् यत्, "अहं पञ्चदशदिनपश्चात् शल्यक्रियां (Operation) करिष्ये" इति। अतः युववल्लभः अभियोगाय न्यायालयं गतवान् आसीत्। परन्त्वत्र तस्य पत्न्याः स्वास्थ्ये शिथिले जाते सति, वैद्यः तत्कालमेव शल्यक्रियामकरोत्। शल्यक्रियापश्चात् युववल्लभस्य पत्न्याः स्वास्थ्यं सम्यक् आसीत्। परन्तु द्वितीये दिने तस्याः तस्याः मृत्युः अभूत्। पत्न्याः मृत्युः अभूत् इति दूरलेखः (telegram) युववल्लभेन न्यायालये अभियोगकाले एव प्राप्तः। दूरलेखं पठित्वा यद्यपि विचलितः अभवत्, तथापि स्वकर्तव्यं स्मृत्वा मानसिकदृढतां प्राप्य सः पुनः अभियुक्तस्य रक्षण-तर्कान् प्रास्थापयत्। अभियोगस्य समाप्त्यनन्तरं सः मित्राणि दूरलेखं प्रादर्शयत्, उक्तवाञ्च, “अहं मनसा किञ्चिदपि शिथिलः अभविष्यं चेत्, अभियुक्तस्य मृत्योः आदेशोऽपि अभविष्यत्"। अत्र युववल्लभस्य मानसिकदृढतायाः दर्शनं भवति। १९०९ तमस्य वर्षस्य 'जनवरी'-मास्य एकादशे दिनाङ्के युववल्लभस्य पत्न्याः यदा मृत्युः अभूत्, तदा तस्य वयः चतुस्त्रिंशत् वर्षमासीत्। कुटुम्बजनाः, मित्राणि च पुनर्विवाहार्थं बहु उक्तवन्तः। परन्तु युववल्लभः पुनर्विवाहं नाङ्गीकतवान्।

लोहपुरुषस्य जीवनस्य अन्तिमानि दिनानि अतिकष्टकराणि आसन्। यतो हि एकत्र देशस्य चिन्ता आसीत्, अपरत्र अस्वस्थता पीडयति स्म। तथापि सः देशाय अविरतं कार्यं करोति स्म। १९४९ तमस्य वर्षस्य मार्च-मासस्य एकोनविंशतितमे (१९/०३/१९४९) दिनाङ्के लोहपुरुषः तस्य पुत्री मणिबेन च विमानयानेन यात्रां कुरुतः आस्ताम्। विमानस्य यन्त्रे समस्या समुद्भूता अतः विमानचालकेन राजस्थानस्य रणे आकस्मिकम् अवतरणं कृतम् । एवं लोहपुरुषस्य जीवनस्य रक्षणम् अभूत्। सः पद्भ्यां समीपस्थं ग्रामम् अगच्छत्, ततश्च देहली-महानगरं प्रापत्। यदा सः देहली-महानगरं प्रापत्, तदा सहस्राधिकाः जनाः तस्य स्वागतार्थं, तस्य कृते प्रार्थनां च कर्तुम् उपस्थिताः आसन्। ततः संसदि अपि यदा सः प्रविष्टः, तदा संसत्सभ्यैः करध्वनिना सः अभिवादितः। तस्य अभिवादनस्य कालः एतावान् लम्बमानः आसीत् यत्, संसदि लोकसभाध्यक्षेण अर्धघण्टां यावत् अवकाशस्य घोषणा कृता। १९५० तमे वर्षे ग्रीष्मकाले प्रप्रथमं लोहपुरुषस्य अस्वस्थतायाः चक्रम् आरब्धम्। ततः जीवनान्तं सः रुग्णः एव आसीत्। कासस्य आधिक्येन तस्य अस्वस्थतायाः आरम्भः अभवत्। ततः कासे रक्तस्रावः, मूर्छा इत्यादयः रोगाः समुद्भूताः। पश्चिमवङ्गप्रदेशस्य राज्यपालस्य उपस्थितौ यदा लोहपुरुषः वैद्येन (बिधान रोय) सह चर्चां कुर्वन् आसीत्, तदा सः अवदत्, "अहम् अधिकं न जीविष्यामि" इति। नवम्बर-मासादारभ्यः तु मूर्छायाः आघाताः अपि तस्य भवन्ति स्म। अतः लोहपुरुषस्य जीवनं पर्यङ्के सीमितम् अभवत्। दिसम्बर-मासस्य द्वादशे दिनाङ्के यदा लोहपुरुषः विमानयानेन स्वपुत्रस्य (डाह्याभाई) गृहम् अगच्छत्, तदा सः अस्वस्थः आसीत्। अतः पण्डित नेहरू, राज गोपोलाचारी च विमानस्थानके उपस्थितौ आस्ताम्। १९५० तमस्य वर्षस्य दिसम्बर-मासस्य पञ्चदशे (१५/१२/१९५०) दिनाङ्के हृदयाघातेन लोहपुरुषस्य मृत्युः अभवत्। सः द्वितीयः हृदयाघातः आसीत्। सः आघातः एतावान् तीव्रः आसीत् यत्, लोहपुरुषस्य मृत्युः अभवत्।

भारतस्य महान् देशभक्तः, स्वतन्त्रतासेनानी, अखण्डभारतस्य सूत्रधारः लोहपुरुषः अमरः अभवत्। लोहपुरुषस्य अन्तिमसंस्कारः मुम्बई-महानगरस्य सोनपुरे अभवत्। तस्य अन्तिमयात्रायां लक्षशः जनाः सम्मिलाताः। नेहरू, राज गोपालाचारी, डॉ. राजेन्द्र प्रसाद इत्यादयः राष्ट्रियनेतारः अपि तत्र उपस्थिताः आसन्।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: