आदि शंकराचार्य पर संस्कृत निबंध लिखिए। Write Essay on Shankaracharya in Sanskrit Language Sanskrit Essay on Shankaracharya, "आदि शंकर...
आदि शंकराचार्य पर संस्कृत निबंध लिखिए। Write Essay on Shankaracharya in Sanskrit Language
Sanskrit Essay on Shankaracharya, "आदि शंकराचार्य पर संस्कृत निबंध" for Class 5, 6, 7, 8, 9 & 10
'अम्ब ! अहं संन्यासं ग्रहीतुंवाञ्छामि', एतानिशब्दानि विश्वविश्रुतस्य श्रीमत्छंकराचार्यस्य बाल्यकाले सप्तवर्षीय अवस्थायां स्वमातरं प्रति आसन् । अस्य विदुषः जन्म भारतवर्षस्य दक्षिणप्रान्ते 'कालटी'नामके ग्रामे अभवत् । अस्य मातु: नाम 'सुभद्रा',पितु: नाम शिवगुरुः आसीत् । जनै: कथ्यते यत् शंकराचार्यस्य जन्म अस्य पित्रो: वृद्धावस्थायां भगवान् शङ्करस्य कृपया अभवत्। यदा एषः त्रिवर्षीय: आसीत् , तदैव पिता अस्य पञ्चतत्त्वं गतवान्।
जनन्या सुभद्रया पञ्चमे वर्षे अस्य बालकशङ्करस्य यज्ञोपवीत: कारित: । तदनन्तरं अनेन सकला- वेदविद्या अधीता,विदुषांमध्ये परमप्रसिद्धिः च प्राप्ता। वस्तुत: बाल्यकालादेव बालोऽयं तीक्ष्णबुद्धिः आसीत्। अनेनैव एकवर्षीय: एष: बालकः स्पष्टरूपेण मातृभाषां वदति स्म। द्विवर्षीय: अयं मातृकथितां पुराणानां कथानां सर्वासां सम्यक्रूपेण स्मरणं अकरोत्।
सप्तवर्षीयेण अनेन संन्यासग्रहणाय स्वमातरं प्रति अनुमति: याचिता, किन्तु ममत्वप्रतिमूर्त्या तया संन्यास-आश्रयणाय स्वीयां स्वीकृति: न प्रदत्ता । एकदा सः मात्रा सह नद्याम् एकस्यां स्नानम् करोति स्म । तदैव ग्राहेण एकेन तस्य पाद: ग्रस्तः । शङ्करः स्वमातरं प्रति अवोचत् -
'अम्ब ! यदि त्वं मह्यं संन्यासग्रहणाय अनुमतिं दास्यसि,तर्हि ग्राहोऽयं मां त्यक्ष्यति।" विवशया मात्रा स्वपुत्रस्य प्राणत्राणाय संन्यासस्य आज्ञा प्रदत्ता ,किन्तु मात्रा कथितम् – 'मम मृत्युकाले आगन्तव्यं त्वया मत्समीपम् 'इति।
मातु: आज्ञां प्राप्य स: नर्मदाया: तीरं गत्वा श्रीमत्गोविन्दपादाचार्यं गुरुं विधाय अष्टवर्षीयाम् अवस्थायां संन्यासं गृहीतवान् । बाल्यकाले अस्य नाम शङ्करः आसीत् । संन्यासानन्तरं गुरुणा अस्य 'भगवत्पूज्यपादाचार्यः'नाम कृतम्। अत्रैव अनेन श्रुतिशासितं अद्वैतमतं वर्षत्रयं यावत् अधीतम्।।
पश्चात् गुरो: आज्ञया श्रीविश्वनाथस्य वाराणसी नगरी समधिगत्य ब्रह्मसूत्रश्रीमद्भगवद्गीतोपनिषत्सु प्रामाणिकं भाष्यं विरचितम् । तत्रैव भगवत: वेदव्यासस्य कृपया पुन: षोडषवर्षात्मकं कालं प्राप्य तस्य आज्ञया वेदान्तप्रचारे सनातनधर्मस्य च प्रतिष्ठार्थं संलग्नो जात:। अस्मिन् काले अनेन काशी-कुरुक्षेत्र-बदरिकाश्रमत: दक्षिणे भारते रामेश्वरं यावत् यात्रा कृता प्रचारार्थमेव।
प्रयागे त्रिवेण्या: तटे अयं मीमांसकाचार्येण कु मारिलभट्टेन सह शास्त्रार्थमपि गतवान्,किन्तु तदानीं स: अन्तिमाम् अवस्थायाम् आसीत् । अत: तस्य आज्ञया एष: मण्डनमिश्रेण सह शास्त्रार्थाय माहिष्मती नगरी अगच्छत् । तत्र मीमांसाशास्त्रेषु निपुणस्य मण्डनमिश्रस्य विदुषीं पत्नी माध्यस्थरूपेण निधाय तं विजितवान्।
किन्तु तस्मिन् एव समये अर्धाङ्गरूपया पत्न्या कामशास्त्रीयप्रश्नेषु पृष्टेषु ब्रह्मचर्यवशात् मौनं स्वीकृतवान् खलु सः। पुन: पाण्मासिकं अवधे: अनुमतिं गृहीत्वा अनेन योगबलेन दिवङ्गतस्य अमरुकभूपते: मृते शरीरे प्रविश्य काम-कला कौशलं प्राप्तम्। अस्मिन् काले शङ्कराचार्येण 'अमरुकशतकम्'नाम शृङ्गारिकस्य मुक्तककाव्यस्य संरचना कृता आसीत्।
अनन्तरं शास्त्रार्थे पराजिते स: मण्डनमिश्रस्य धर्मपत्नीं भारती,आचार्यमण्डनमिश्र च शिष्यरूपेण गृहीतवान् ,अस्य नाम शङ्कराचार्येण सुरेश्वराचार्यः इति कृतः । एतदभिधानं गृहीत्वा स: तेन सह वैदिकस्य मतस्य प्रचारार्थे भारतभुव: भ्रमणम् अकरोत्।
स्वजीवनकाले श्रीमताशङ्कराचार्येण बहूनां ग्रन्थानां संरचना कृता । तेषु ब्रह्मसूत्रगीतोपनिषदानां भाष्यानि महत्त्वपूर्ण स्थानं भजन्ते। आचार्यप्रवरेण पुरी-द्वारिका-शृङ्गेरीज्योतिर्मठ-इत्यादिषु स्थलेषु पीठानां स्थापना कृता , एकैक: शिष्य: च तेषु पीठेषु धर्मरक्षणाय नियुक्ती कृतः।
केदारनाथस्य निकटे द्वाविंशति-अवस्थायां काश्मीरक्षेत्रे शारदामन्दिरे स: अमुं भौतिकशरीरं परित्यक्तवान्। तस्य प्रधानशिष्येषु पद्मपादाचार्यः, सुरेश्वराचार्य: च मुख्यतां भजेते । अल्पीयस्याम् अवस्थायां श्रीमता शङ्कराचार्येण बहूनि कार्याणि कृतानि । अत: अस्माभिः तस्य नाम श्रद्धया ग्रहणीयम् ।
COMMENTS