Sanskrit Essay on Maharana Pratap, "महाराणा प्रताप पर संस्कृत निबंध" for Class 5, 6, 7, 8, 9 & 10

Admin
0

महाराणा प्रताप पर संस्कृत निबंध लिखिये। Write Essay on Maharana Pratap in Sanskrit Language. Paragraph on Maharana Pratap in Sanskrit.

Sanskrit Essay on Maharana Pratap, "महाराणा प्रताप पर संस्कृत निबंध" for Class 5, 6, 7, 8, 9 & 10

सिसोदिया कुलभूषणस्य परमदेशभक्तस्य महाराणाप्रतापस्य नाम को न जानाति अस्मिन् जगति । अनेन परमवीरेण स्वजन्मभूमिं पारतन्त्र्य-पाशेभ्य: मोक्तुं प्राणपणेन प्रयत्नानि कृतानि।

महाराणाप्रतापस्य पिता उदयसिंह : आसीत्। अस्य मातुः नाम जयवन्तीबाई आसीत्। राणा संग्रामस्य पौत्रोऽयं बाल्यकालादेव निर्भीक: साहसी च आसीत् । अस्य पिता उदयसिंह: अतीव भीरू: आसीत् । तदैव अनेन मुगलशासकस्य अकबरस्य आक्रमणस्य अवसरे चित्तौड़गढ राज्यस्य रक्षणार्थं पत्ताजयमलयो: नियुक्तिं कृत्वा पलायनं कृतम्।

परिणामस्वरूपं चितौड़राज्ये अकबरस्य शासनं सञ्जातम् । अस्मिन् समये संघर्षोपरान्ते महाराणाप्रतापेन वनं पलायनं कृतम् । तस्य प्रतिज्ञा एषा आसीत् , यद् अहं चित्तौड़राज्यं मुगलशासकात् अकबरात् यावत् न ग्रहीष्यामि,तावत् प्रासादेषु न निवसिष्यामि , सुवर्ण-रजतपात्रेषु भोजनं न गृहिष्यामि ,पर्यंकेषु शयनं न करिष्यामि।

स्व अन्तिमं क्षणं यावत् तेन प्रतिज्ञा एषा धारिता पालिता च । अस्मिन् काले स: एकस्मात् वनात् अन्यं वनं अभ्रमत् । वने च तेन घासस्य रोटिका: अपि खादिताः, किन्तु मुगलशासकस्य अकबरस्य समक्षे स्वशिर: नमनं न कृतम्। वस्तुत: स: दृढव्रती,धैर्यशाली, बलशाली,नीतिज्ञश्च आसीत् । स्वमातृभूमिं प्रति तस्य अगाधश्रद्धा आसीत्। अनेनैव तेन आजीवनं वनेषु निवसिते अपि मुगलशासकेन अकबरेण सह युद्धः कृतः।

तेन संकटकालेऽपि स्वकर्त्तव्यस्य पालनं कृतम् । क्षुधापीडितं स्वपरिवारजनान् दृष्ट्वा अपि सः स्वमातृभूरक्षाव्रतं अपालयत्। कदापि कस्मिन्नपि क्षणे स: धैर्यस्य परित्याग: न कृतवान् , अपितु साहसपूर्वकं प्रबलपराक्रमेण कर्तव्यमार्गे खलु अतिष्ठत्।

सम्राट अकबरोऽपि तस्य युद्धकौशलेन,पौरुषेण,साहसेन,धैर्येण च प्रभावित: आसीत् । अनेन सः तस्य नाम अतीव आदरेण गृह्णाति स्म । महाराणाप्रतापस्य समीपे 'चेतक' नामक: एक: स्वामीभक्त: अश्वः आसीत्। तस्य वेग: वायु:इव अतितीव्रः अभवत्। अस्य साहसस्यापि गाथा अस्माकं इतिहासग्रन्थेषु प्राप्यते। एकेन हिन्दी कविना तस्य वेगस्य प्रशंसा एवं कृता

रणबीच चौकड़ी भर-भरकर,चेतक बन गया निराला था, 

राणा प्रताप के घोड़े से,पड़ गया हवा का पाला था। ।

अनेन 'चेतक'नामअश्वेन महाराणाप्रतापस्य स्वजीवनस्य अन्तिमं क्षणं यावत् सहाय्यं कृतम्। वस्तुत: स: उत्कृष्टः स्वामीभक्त: आसीत् तदैव तेन महाराणाप्रतापस्य प्राणान् स्वजीवनमपि दत्त्वा रक्षिताः।

एकदा महाराणाप्रताप: वने स्वपरिवारस्य सदस्यैः सह भोजनं करोति स्म । भोजने घासस्य रोटिका: आसन्,तस्य बालक: तां रोटिकां खादति स्म। तदैव तत्र कापि मार्जारिका आगता । तस्य बालकस्य च हस्तात् रोटिकां गृहीत्वा पलायिता । बालक: रोदितवान् उच्चस्वरेण । एतत् दृष्ट्वा प्रतापस्य हृदयं विदीर्णं जातम् । तेन संन्ध्यर्थं अकबरं प्रति पत्रमेकं प्रेषितम्।

किन्तु सम्राट् अकबरस्य सभायां एकः सभासद: प्रतापं प्रति अतीव श्रद्धावान् आसीत् । तेन प्रतापस्य पत्रस्य व्याख्या सभायां अन्यरूपेण कृत्वा महाराणा प्रतापस्य हृदयपरिवर्तनपि कृतम्। परिणामे च तेन पुन: सम्राजा अकबरेण सह मृत्युपर्यन्तं युद्धस्य प्रतिज्ञा कृता । मृत्युसमये तस्य मनसि आसीत्-काश ! मम वंशजा: अपि अस्य देशस्य रक्षा कुर्युः । वस्तुत: तस्य देशभक्तस्य देशभक्ति: अस्मान् सर्वान् भारतीयान् अद्यापि प्रेरिका वर्तते। 

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !