उद्यानम् पर संस्कृत भाषा में निबंध लिखिए। Write Essay on Udayanam / Gardan in Sanskrit Language Sanskrit Essay on Udayanam / Gardan, "...
उद्यानम् पर संस्कृत भाषा में निबंध लिखिए। WriteEssay on Udayanam / Gardan in Sanskrit Language
Sanskrit Essay on Udayanam / Gardan, "उद्यानम् पर संस्कृत निबंध" for Class 5, 6, 7, 8, 9 & 10
उद्यानम् संस्कृत निबंध :
'उद्यानम्' इत्यनेन शब्देन कस्य मन: आह्लादं न अनुभवति। यतोहि अनेन शब्देन ता: मधुर-क्षणानां स्मृतयः स्मृतिपथे आयान्ति,यानि बाल्यकाले स्वमित्रैः सह उद्याने क्रीडता अस्माभि: व्यतीतानि सन्ति। अस्माकं समाजे सर्वे खलु जना: उद्यानानां महत्त्वं जानन्ति,तदैव नगरेषु,ग्रामेषु,महानगरेषु च सर्वत्रैव उद्यानानि अनेकानि भवन्ति।
उद्याने बहवः वृक्षा: भवन्ति , तेषु केचन फलान्विता: ,केचन च केवलं पुष्पान्विताः । केषुचित् स्थलेषु उद्यानं परित: परिखा एका निर्मीयते । अनया पशव: उद्याने प्रविष्टा: न भवन्ति । उद्यानेऽस्मिन् पक्षिण: वृक्षेषु मधुरं कलरवं कुर्वन्ति । भ्रमरा: पुष्पेषु गुञ्जन्ति स्व प्रियया सह प्रात:काले ,यदा अस्मिन् पुष्पाणि विकसन्ति तेषु मधुपानं च कुर्वन्ति।
बहवः जना: अस्मिन्नेव समये सायंकाले च स्वास्थ्य-लाभाय उद्यानमध्ये भ्रमणार्थं आगच्छन्ति। केचित् आध्यात्मिका: जना: अत्र आगत्य एकान्ते भगवत् ध्यानं कुर्वन्ति । अत्र अनेकेषां वृक्षाणां छाया अतीव सघना वर्तते ,अनेन सा ग्रीष्मकाले रम्या सुखदायिनी च भवति। बहवः पथिका: अस्मिन् उद्याने मध्याह्नकाले विश्राममपि कुर्वन्ति।
अस्माकं नगरमध्येऽपि एकम् उद्यानम् अस्ति । तस्य उद्यानस्य नाम 'उपाध्याय उद्यानम्' वर्तते । तस्मिन् जम्बीर-आम्र-द्राक्षा-अमृतफल-निम्बादीनां विविधश्रेणीनां वृक्षा:सन्ति । तत्र एकं जलयन्त्रमपि विद्यते । तस्मात् जलयन्त्रात् जलधारा: निरन्तरेण प्रवहन्ति। दृश्योऽयं अतीव मनोरम: प्रतीयते। ग्रीष्मकाले अस्य परित: अनेके जना: स्थित्वा शीतलतां आह्लादकताम् अनुभवन्ति।
अस्मिन् उद्याने स्थाने-स्थाने कोमलानि शष्पाणि विस्तृतानि । अस्योपरि स्थित्वा जना: परमसुखम् अनुभवन्ति। उद्यानेऽस्मिन् एक: कूपोऽपि वर्तते। तस्मादेव कूपात् अस्मिन् सर्वेभ्य: वृक्षेभ्य: जलसेचनं क्रियते । अस्य उद्यानस्य रक्षणाय एक: मालाकारोऽपि अत्र नियुक्तोऽस्ति । सः खलु अस्य परिरक्षणं,संरक्षणं च करोति । सः प्रात:कालाद् रात्रिपर्यन्तं अस्मिन् कार्यं करोति। स: कमपि जनं अस्माद् उद्यानात् पुष्पचयनार्थं अनुमति: न ददाति। अस्य उद्यानस्य एकः एव प्रवेशद्वारः वर्तते । वस्तुत: उद्यानमेतत् अस्माकं नगरस्य शोभा अस्ति ।
प्राचीनकालेऽपि राजान: स्वप्रसादेषु उद्यानं नियोजयन्ति स्म ।तत्र ते स्व परिजनै: सह मनोरंजनं कुर्वन्ति स्म। एतत्राजोद्यानम् कथ्यते स्म। सर्वेषां जनानां प्रवेश: अत्र निषिद्धिः आसीत् । यतोहि तानि सार्वजनिकानि उद्यानानि न भवन्ति स्म।
एतै: उद्यानै: अस्मत्कृते बहवः लाभा: सन्ति । सर्वप्रथमं तु एतानि अस्मत्कृते परिशुद्धं वायुं ददति। अनेन एतेषां उद्यानानां पर्यावरणस्य शुद्धयर्थं महत्त्वपूर्ण योगदानं वर्तते। एतेभ्यः वृक्षेभ्य: दैन्योपयोगिनी काष्ठानि फलानि च प्राप्यन्ते । पूजनकार्येषु पुष्पाणि उपलभ्यन्ते । फलानि खलु वयं प्रीतिपूर्वकं एतेषां खादामः , छायायां च परमशान्तिम् अनुभवामः।
किं बहुना एतानि उद्यानानि सर्वप्रकारेण खलु अस्मत्कृते लाभाय एव भवन्ति । अनेनैव केनचित् कविना एतेषां उद्यानानां प्रशंसा विषये मनोरमं पद्यमेतत् विरचितम्
वहन्ति वाता: सुमनोज्ञगन्धा:,
पिबन्ति पुष्पेषु मधुद्विरेफा:।
खादन्ति वृक्षेषु खगा: फलानि
छायासु पान्थाः अपि संविशन्ति।।
COMMENTS