चलचित्र पर निबंध संस्कृत में || Essay on Cinema In Sanskrit Essay on Cinema In Sanskrit : आर्टिकल में हम संस्कृत भाषा में चलचित्र का निबंध ...
चलचित्र पर निबंध संस्कृत में || Essay on Cinema In Sanskrit
Essay on Cinema In Sanskrit : आर्टिकल में हम संस्कृत भाषा में चलचित्र का निबंध शेयर कर रहे हैं, जो इस प्रकार है।
चलचित्र पर निबंध संस्कृत में (Essay on Cinema In Sanskrit)अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकेन सर्वश्रेष्ठत्वं भजते । ये जना: विवेकिन: सन्ति,श्रमाते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति । ईशानां तेषां जनानाम् आवश्यकतांपूर्त्यर्थं वैज्ञानिकै: अनेके आविष्काराः कृता: वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एक: उत्कृष्ट: आविष्कारोऽस्ति । अनेन जनाः विश्रान्तिकाले मनोरञ्जनं कुर्वन्ति । अनेनाविष्कारेण शिक्षापि दीयते। प्राचीनकाले भगवता ब्रह्मणा भरताचार्य प्रति मानवानां मनोरंजनार्थं श्रवणसुखदस्य नयनाभिरामस्य नाटकस्य उपदेश: प्रदत्तः । अनेनैव नाट्यशास्त्रे लिखितम् आचार्यभरतेन अस्मिन् विषये दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रामजननं लोके नाट्यमेतद् भविष्यति ।। प्रारम्भिके समये नाट्यस्य अस्य अभिनेय:जनै: अनेकै: मञ्चे क्रियतेस्म समाजे,किन्तु वैज्ञानिके युगेऽस्मिन् अस्य खलु नाटकस्य अभिनय: चलचित्रमाध्यमेन क्रियते । विधिरेषा अतीव लोकप्रिया अपि सजाता। नाट्यगृहे मञ्चनापेक्षया चलचित्रमाध्यमेन नाटकानांतेषां प्रदर्शनं सौख्यकरं उत्कृष्टं मनोरञ्जनकरं च वर्तते। यदि वयं चलचित्रस्य आविष्कारविषये दृष्टिर्निक्षेपं कुर्मः ,तर्हि ज्ञायते यत् सर्वप्रथम १८८९ ईस्वीये वर्षे श्रीमता एडसिसमहाभागेन अमेरिकादेशे मूकचलचित्रस्य आविष्कार: कृतः आसीत् । तदानीं चित्रेषु वाण्याभावो दृश्यते स्म,केवलं सङ्केतेनैव सर्वाणि पात्राणि स्व अभिप्रायं प्रकटयन्ति स्म। १९१२ ईस्वीये वर्षे भारतेऽपि मूकचलचित्रस्य निर्माणं सञ्जातं सफलतया । तदनन्तरं अनेकेषां वैज्ञानिकानां प्रयासेन मूकचलचित्रे ध्वनिरपि संयोजिता। ध्वनिसंयुक्तस्य चलचित्रस्यापि आविष्कारः अमेरिकानगरे अभवत् सर्वप्रथमम्, किन्तु भारतवर्षे एतत् १९२३ ईस्वीये वर्षे विनिर्मितम् आसीत्। अस्माकं देशे प्राय: सर्वेषु नगरेषु ग्रामेषु च चलचित्रगृहाणां स्थिति: प्रतीयते । तत्र बहवः नागरिका: चलचित्रं प्रतिदिनं पश्यन्ति । एकस्मिन् दिवसे प्राय: चतु:बार चलचित्रं चाल्यते चलचित्रगृहे । अनेन प्रकारेण अतीव लोकप्रियम् एतत् सञ्जातम् भारते मनोरंजनसाधनम् । अस्य कारणमिदं यत् चलचित्रेषु सर्वेषु नृत्य-गीत-वाद्य-हास्यअभिनय-सग्रामादय: सर्वेऽपि क्रियाकलापा: यथार्थरूपेण प्रदर्श्यन्ते। अनेनैव अद्यत्वे एतत् मनोरंजनसाधनेषु महत्त्वपूर्ण सञ्जातम् । अस्य आविष्कारस्यानन्तरं नाट्यगृहेषु नाटकानां अभिनयं प्रति जानानां अरुचि: सञ्जाता । चलचित्रमिदं न केवलं मनोरञ्जनाय,अपितु शिक्षायाः प्रचाराय प्रसाराय चापि कल्पते। अधुना सर्वकारेण अनेन माध्यमेन शिक्षाया: प्रसारः क्रियते। एवमेव सूचनाविभागेषु सूचनाया: प्रसारणार्थम् अपि अस्य साधनस्य उपयोगो भवति। स्वास्थ्यविभागोऽपि अस्मिन् विषये विशेष-प्रयत्नवान् दृश्यते। एतदतिरिक्तं अस्य चलचित्रस्य उपयोगिता महती वर्तते,बालानां कृते तु। यतोहि ते अपरिपक्वबुद्धय: भवन्ति । अत: माध्यमेन अनेन अध्ययनविषये तेषां रुचिं अधिकां उत्पादने समर्था: भवितुं शक्नुम: वयं । अद्यत्वे समाजेऽस्माकं प्रौढशिक्षाया: प्रचार: अधिकः क्रियते। अत: अल्पधिया: ग्रामवासिनः अनेन माध्यमेन सहजतया शिक्षां अपेक्षितां गृहीतुं सक्षमा: सन्ति। अनेन प्रकारेण चलचित्रेण खलु सर्वेषां जनानां महान लाभो भवति। किन्तु प्रसंगेऽस्मिन् चिन्ताया: एक: विषयोऽस्ति। यत् केचित् जना: अधिकंधनार्जनं करणाय चलचित्रगृहेषु अश्लीलचित्राणां प्रदर्शनं कुर्वन्ति । तेषु चित्रेषु बहूनि तु नग्नानि एव भवन्ति । ईदृशानि लज्जाकराणि चित्राणि अवलोक्य अस्माकं देशस्य निर्मातार: युवका: कुमार्गगामिन: भवन्ति । ईदृशान् दृश्यान् विलोक्य अल्पमतिबालका: चरित्रभ्रष्टा: जायन्ते। तेषां चरित्रस्य संरक्षणम् अस्माकं महत् कर्तव्यम्। अत: सर्वकारेण प्रयत्नो विधेयः यत् , अस्मिन् विषये अश्लीलचित्राणां प्रदर्शनं केनापि प्रकारेण चलचित्रगृहेषु, चलचित्रेषु वा न स्यात्। तदैव अस्य आविष्कारस्य सम्यक्रुपेण लाभ: भविष्यति। |
COMMENTS