Wednesday, 17 October 2018

वसंत ऋतुः संस्कृत निबंध। Basant Ritu Long Essay in Sanskrit

वसंत ऋतुः संस्कृत निबंध। Basant Ritu Long Essay in Sanskrit

वसंत ऋतुः संस्कृत निबंध। Basant Ritu Long Essay in Sanskrit

Basant Ritu Long Essay in Sanskrit
एकस्मिन् वर्षे षड् ऋतवः आगच्छन्ति। हेमन्तः, शिशिर: वसंत: ग्रीष्मः वषों, शरद् च इति। एतेषां मध्ये वसन्तऋतु: अति मनोहरः अस्ति। सः ऋतुराज; उच्यते। अयं च मधुमास: इत्याभिधानेनापि ज्ञायते। वसन्तः चैत्रवैशाखमासयोः अस्ति। अस्मिन् ऋतो वातावरणं शोभनम् अस्ति, न अधिक शीतलं न चाधिकः घर्मः। न वृष्टिपात: अस्ति, न च हिमपातः भवति। मन्दः शीतलः पवनः वहति। नवानि कुसुमानि विकसन्ति, अमराः कुसुमे गुंजारवं कुवन्ति। अस्मिन् ऋतौ वसुन्धरा मनोहारी रूप धारयति। पक्षिण: मधुरं कलरव कुवन्ति। आम्रवृक्षा: मंजर्यं धारयन्ति। तदा आम्रवृक्षस्य शोभा अपूर्वा वर्तते। तस्य शाखासु पिकाः: कूजनं कुर्वन्ति वसन्तागमनं सूचयन्ति च। अस्मिन् ऋतौ सूर्यस्य आतप: अपि सुखदः भवति। दिवसाः नातिउष्णाः वर्तणी, वसंन्तपचमी उत्सवः अस्मिन्नेव ऋतौ भवति। जनाः वसंतपंचमी दिने पीतवस्त्राणि धारयन्ति, पीतवर्णेन रञ्जितानि मिष्टान्नानि वितरति खादन्ति च। होलिकोत्सवः अपि वसन्तर्तो एव भवति। एष उत्सवः स्नेहवर्धक प्रीतिकारकः च अस्ति। जना: इममुत्सव सोल्लासेन सर्वत्र मानयन्ति।

यथा प्रकृति सर्वत्र रमणीया प्रफुल्लिता भवति तथा मानवशरीरे अपि परिवर्तनं भवति। मनसि आनन्दस्य, उल्लासस्य संचारो भवति। वसन्ते भ्रमणं स्वास्थ्य हितकरं भवति।

कवीनामपि वसन्तऋतु: प्रियः अस्ति। कविकुलगुरुकालिदासेन ‘ऋतुसंहार’ नामकाव्ये वसन्तस्य यथार्थं वर्णनं कृतम्। ईश्वरः अपि अस्मिन् ऋतौ आत्मान प्रकटयति। श्री मद्भगवद्गीतायां श्रीकृष्णः कथयति, 'अहंऋतूनां कुसुमाकर अस्मि।

एवं वसन्त स्वसुषमया सौंदर्येण च सर्वान् आकर्षयति, सर्वान् प्रीणयति च। 

Tuesday, 16 October 2018

 संस्कृत भाषा का महत्व Essay in Sanskrit

संस्कृत भाषा का महत्व Essay in Sanskrit

संस्कृत भाषा का महत्व Essay in Sanskrit


सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति। इयं भाषा देववाणी गीर्वाणवाणी, सुखाणीइत्यादिनामभि: सुविख्याता। इयं भाषा अतीव रमणीया मधुरा च अस्ति। सा न कठिना, अपितु सरला सरसा एव। पुरा इयं भाषा व्यावहारिकी भाषा आसीत्। अद्यापि आंध्रप्रदेशे एकस्मिन् ग्रामे जना: संस्कृतभाषामेव वार्तालापं कुर्वन्ति। रामायण महाभारतकाले संस्कृतभाषा एव प्रचलिता आसीत्। इयं भाषा अस्माकम् अमूल्य: निधि: एव। अस्यां भाषायां विपुलं साहित्यं वर्तते। चत्वारो वेदा: उपनिषदाः गीर्वाणभाषायामेव सन्ति। जना: वेदान् न केवलम् अस्माकं देशे, अपितु विदेशे अपि पठन्ति। मनुस्मृति: याज्ञवलक्यस्मृति: एतौ द्वौ ग्रन्थौ विख्यातौ स्तः। लौकिक-साहित्य नाट्यसाहित्य, काव्यसाहित्य, कथासाहित्यमपि विद्यते। महाकवेः कालिदासस्य साहित्य विदेश अपि सुविख्यातम्।

संस्कृतभाषैव आधुनिक प्रांतीयभाषाणां जननी। अस्याः व्याकरणं सर्वाङ्ग परिपूर्णमस्ति। संस्कृतभाषायाम् एकस्य शब्दस्य अनेके पर्यायशब्दाः सन्ति। अतः इयं भाषा सम्पन्ना अस्ति। उचितं कथ्यते, अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।

संस्कृतभाषा अस्माकं सांस्कृतिकी भाषा अस्ति, यतः अस्माकं सर्वे धार्मिक-संस्काराः अस्यां भाषायामेव विद्यन्ते। संस्कृतभाषायाम् अनेकानि सुवचनानि सुभाषितानि च सन्ति यानि बालकेभ्यो, युवकेभ्यः च प्रेरणां यच्छन्ति। अस्यां भाषाया मानवीय गुणानां विवेचनं प्राप्यते। अध्यात्मिक शान्तये इयं भाषा सर्वे: पठनीयाः खलु। अस्यां भाषायाम् एव सर्वेषां कल्याणेच्छा दृश्यते 'यथा' सर्वे भवन्तु सुखिनः सन्तः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खमाप्नुयात्। एवं संस्कतभाषायाः महत्त्वं विज्ञाय सर्वे: एषा भाषा पठनीया, सर्वत्र च प्रसार; करणीयाः।
अनुशासनम् संस्कृत निबंध। Essay on Anushasan in Sanskrit

अनुशासनम् संस्कृत निबंध। Essay on Anushasan in Sanskrit

अनुशासनम् संस्कृत निबंध। Essay on Anushasan in Sanskrit
Essay on Anushasan in Sanskrit
नियमं समुदायस्य पालनम् 'अनुशासनम्' कथ्यते। परिवारस्य, विद्यालयस्य नगरस्य समाजस्य देशस्य वा ये ये नियमाः भवन्ति, तेषां पालनमेव अनुशासनमस्ति। नियमानुसारम् आचरणमपि आवश्यकं। सर्वेषु स्थानेषु अनुशासनस्य नियमाः सन्ति। गृहे पितरौ मुख्यौ भवतः। तयोः आदेशानां पालनं बालकानां परमं कर्तव्यमस्ति। एतदेव अनुशासनं कथ्यते। यस्मिन् गृहे अनुशासनं नास्ति तत्र कदापि शान्तिर्नास्ति। विद्यालये तु अनुशासनमनिर्वायम् एव। यथासमयम् आगमनम् गुरुणाम् आज्ञापालनम्। सावधानेन पठनम् अतीवाश्यकम्। अनुशासनाभावे छात्रा: सफलतां न प्राप्नुवन्ति। महाविद्यालये अपि अनुशासन परमावश्यकम्। अनुशासनहीनाः छात्राः बहुमूल्य समय विनाशयन्ति। अनुशासनहीनानि विद्यामन्दिराणि कलह-सदनानि जायन्ते।

एवमेव सार्वजनिक संस्थासु, शासने सेनायाञ्च अनुशासनेनैव कार्यं प्रचलति। यत्र अनुशासननियमाः सुनिश्चिताः भवन्ति, तेषां पालनेन एव समाज: सुस्थितिम् याति। शासनस्य कृते अनुशासनं परमावश्यकमस्ति। यः देशः अधिकम् अनुशासन परिपालयति सः एव देशः उन्नतिपथं गच्छति। अनुशासनं हि कस्यापि देशस्य महत्वपूर्ण बलं वर्तते।

अनुशासने पालिते सर्वत्र सुव्यवस्था भवति, अन्य अभावे सर्वदा अव्यवस्था प्रसरति, तथा अनेकाविधा हानिरपि संभवति। अनुशासन समाजस्य कल्याणाय, उन्नत्यै च आवश्यकं, किन्तु सम्प्रति अस्माकं देशे अस्य पालनं न भवति। प्रायः छात्रेषु, नागरिकेषु अनुशासनहीनत्वं दृश्यते। छात्राः मर्यादामुल्लंघ्य नियमान् न पालयन्ति, आन्दोलनानि च कुर्वन्ति। तस्मात् ते स्वहानि कुर्वन्ति, देशस्य सम्पति च विनाशयन्ति। ये जीवने अनुशासनं पालयन्ति ते एव सफलता प्राप्नुवन्ति। अतएव अनुशासनमत्यावश्यकं, सर्वेश्च परिपालनीयम्।
संस्कृत निबंध जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

संस्कृत निबंध जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

संस्कृत निबंध जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
मातृभूमिं अयोध्यामभिलक्ष्य प्रभुरामचन्द्रः स्वर्णमयीं लंकामपि निराकरोति, लक्ष्मणं कथयति च हे लक्ष्मण, महा स्वर्णमयी लंङ्का अपि न रोचते, जननी जन्मभिश्च स्वर्गादपि गरीयसी पुत्रं जनयति, महता कष्टेन तस्य पालन करोति, तं ‘साक्षरं करोति' सुसंस्कारान् ददाति च। जननी जन्मभूमिरपि जनान् धारयति, शस्यादिभिः पालयति, पोषयति च। मातुः समीपे बालः स्वर्गादपि अधिकं सुखम अनुभवति, अत: माता स्वर्गादपि श्रेष्ठा अस्ति। जन्मभूमिः अस्माकं मातृभूमिरास्ति। बालकं प्रति मातु: स्वाभाविकं, निरपेक्षं च प्रेम भवति, न तादृशं क्वापि दृश्यते। सा सदैव बालकस्य कल्याणं, सुखं च चिन्तयति। पुत्रस्य, पुत्र्याः वा जननी प्रति प्रेम नैसर्गिकम् अस्ति। मातुऋणभारवतारणं कदापि न शक्यम्। अतः उपनिषत्सु । कथितम् ‘मातृदेवो भव'। जननीगौरवपरं अनेकानि प्रामाणिक-वाक्यानि सन्ति। यथा-नास्ति मातृसमो गुरुः माता परं दैवतम्। मानवः स्वमातरं कदाचिदपि न विस्मरति। 
जन्मभूमिरपि जनजीवन अस्मान् रक्षति। सा अस्माकं पालनं अन्नेन, जलेन, फलश्च करोति। अस्यां पृथिव्यामेव वयं गृहाणि निर्माय सुखेनैव वसामः। अतः जन्मभूमि: मातुरपि अधिकम् उपकरोति। माता तु कानिचित् वर्षाणि एव बालक पालयति परन्तु मातृभूमि: आजीवन अस्माकं रक्षणं करोति। अतः सा स्वर्गादपि। गरीयसी, नास्त्यत्र कोऽपि विसंवादः। 
भारतभूमिः अस्माकं मातृभूमिः। अस्याः रक्षेण वयं अहर्निशं प्रयतामहे। इस अस्माभिः पूजनीया खलु। विदेशान् गताः जनाः अपि स्वमातृभूमिं-भारतभूमिं न विस्मरन्ति। मातृभूमेः हेतोः कृताना बलिदानानां कथा: वयं सदैव स्मरामः। वयमपि मातभूमेः उन्नत्यर्थं तत्परा: भवेम। तर्हि वयं तस्याः ऋणात् मुक्ता: भवितुं शक्नुमः।

Monday, 15 October 2018

जवाहरलाल नेहरु पर संस्कृत निबंध। Essay on Jawaharlal Nehru in Sanskrit

जवाहरलाल नेहरु पर संस्कृत निबंध। Essay on Jawaharlal Nehru in Sanskrit

जवाहरलाल नेहरु पर संस्कृत निबंध। Essay on Jawaharlal Nehru in Sanskrit

Essay on Jawaharlal Nehru in Sanskrit
भारतवर्षे अनेके महापुरुषाः जाताः। तेषु महापुरुषेषु श्रीजवाहर लाल नेहरू महाभागस्य नाम को न जानाति? स: स्वतंत्रभारतस्य प्रथम प्रधानमंत्री आसीत्। अस्य जन्म इलाहाबाद नगरे आनन्दभवन नामके गृहे नवम्बरमासस्य चतुर्दशतारिकायात् भवन्। अस्य अयं जन्मदिवसः एव अद्यपि ‘बालदिवस' रूपेण सर्वे भारतीयाः मानयन्ति। अयं काश्मीर ब्राह्मणकुलोत्पन्नः आसीत्। अस्य पितुः नाम श्री मोती लाल नेहरू, तथा मातु: नाम श्रीमती स्वरूपरानी आसीत्। मातास्य अतीव शालीना, धार्मिका च आसीत्। पिता मोतीलाल महोदयः प्रयागस्थ प्रसिद्ध वाक्कील: आसीत्। श्रीमती कमला अस्याः धर्मपत्नी, इन्दिरा चैका पुत्री आसीत्। अस्य पञ्चदशवर्ष पर्यन्त शिक्षणं गृहे अभवत्। सः हिन्दी-उर्दू-आंग्लभाषा: पठितवान्। विदेशात् ‘बैरिस्टर' इत्युपाधिं प्राप्य स्वदेशं भारतं प्रत्यागच्छत्। अस्य सम्पूर्ण परिवार देशसेवातत्परः आसीत्।' राष्ट्रसेवा' अस्य परमो धर्मः आसीत्। कांग्रेससंस्थायाम्-प्रविश्य देशस्य स्वतंत्रतायै संघर्षमकरोत्। बहुवारं कारागृह यात्रामपि अकरोत्। अयं महान् वक्ता, महान लेखकः अपि आसीत्।  

स्वतंत्र भातस्य प्रथमप्रधानमंत्री अयं स्वराज्यस्थ रक्षकः आसीत्। अस्य विज्ञाने, साहित्ये, कलाक्षेत्रे रुचिः आसीत्। अस्य डिस्कवरी ऑफ इंडिया' इति पुस्तक अतीव लोकप्रियमस्ति।

1964 तमे वर्षे हदयगति अवरोधेन अस्य मृत्यु जातः। विश्व शान्तिदूत: अयं नेता सर्वाधिकलोकप्रियः आसीत्। अस्य हृदये भारतीयानां प्रति अपरिमित प्रेम आसीत्। प्रधानमंत्री पदे स्थितेन अनेन बहुविधा राष्ट्रसेवा कृता। अस्य चरितं सर्वे भारतीयैः आचरणीम्। अस्य व्यक्तित्वं सौम्यं प्रभावशाली, आकर्षकमासीत्। अतएव सः सर्वेषा भारतीयानां प्रिय नेता अभवत्।
नारी शिक्षा पर संस्कृत निबंध। Nari Shiksha Essay in Sanskrit

नारी शिक्षा पर संस्कृत निबंध। Nari Shiksha Essay in Sanskrit

नारी शिक्षा पर संस्कृत निबंध। Nari Shiksha Essay in Sanskrit

Nari Shiksha Essay in Sanskrit
अस्माकं समाजः न केवल पुरुषाणां, किन्तु नारीणामपि अस्ति। अतः सुसंस्कृते समाजे पुरुषाणां शिक्षा आवश्यकी अस्ति तथा स्त्रीणामपि। स्त्रीणाम् समाजे स्थान समानरूपेणास्ति। समाजस्थस्य द्वे चक्रे स्तः। यथा एकेन चक्रेण रथस्य गतिः असंभवा, तथा जीवनस्य गति नारिणा विना असंभवा। अशिक्षिता नारी संसाररथ कथं चालयति। अतः स्त्रीशिक्षा अतीवावश्यकी।  

प्राचीनकालेऽपि स्त्रीशिक्षा अनिवार्या आसीत्। वैदिककाले नार्यः अधिकशिक्षिताः आसन्। गार्गी मैत्रेयी आद्याः विदुष्यः वेदशास्त्रार्थनिपुणाः आसन्। कालिदासस्य पत्नी विद्योत्तमा महती विदुषी आसीत्। आधुनिककाले स्त्रियः शिक्षणमनिवार्यम्। यदि माता सुशिक्षिता भवेत् तर्हि सा स्वपुत्राणां पालनं शिक्षणमं च सुचारुरूपेण कर्तुं शक्नोति। यदि सा अशिक्षिता, तर्हि तस्याः सन्तानमपि विद्याहीना, संस्कारहीना-च भविष्यति। शिक्षिता नारी अधिकयोग्यता गृहकार्यसंचालने समर्था भवति।  

अद्य एकमपि क्षेत्रं नास्ति, यत्र नार्या: प्रभावं नास्ति। विद्यालयेषु, महाविद्यालयेषु, कार्यालयेषु, सर्वत्र नार्यः कार्यरताः सन्ति। किंबहुना अनेकाः नार्यः संसदसदस्याः सन्ति। नगरपालिकासु, विधानसभासु, लोकसभासु अपि सदस्याः सन्ति, ताः सुचारुरूपेण कार्यं कुवन्ति च। श्रीमती इन्दिरागाँधी महोदया अस्माकं देशस्य प्रधानमंत्रिपदम् अलंकृता। श्रीमती सोनिया गाँधी महोदया अपि राजनीत्यां कार्यरता अस्ति।

कुलस्य तथा समाजस्य उन्नत्यर्थं स्त्रीशिक्षा अनिवार्या खलु। यत: शिक्षिता नारी न केवलं स्वजीवनं सफलीकरोति, किन्तु सा परिवारस्य राष्ट्रस्यापि अभ्युदयं करोति। सुशिक्षिता नारी सर्वत्र पूज्यते। उचितमिदं कथितं यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवताः।

Sunday, 14 October 2018

पुराणं पंचलक्षणम् संस्कृत निबंध

पुराणं पंचलक्षणम् संस्कृत निबंध

पुराणं पंचलक्षणम् संस्कृत निबंध

puran-panch-lakshanam
पुराणानां स्वरूपम्- पुराणानि भारतीय संस्कृतेः पुरातनं स्वरूपं प्रकाशयन्ति, वेदार्थ च कथा-आख्यानादिरूपेण विशदयन्ति, प्राचीनम् इतिहासम् अज्ञातं चापि ऐतिह्यं प्रकाशताम् आपादयन्ति। एवं भारतीयैतिह्य-ज्ञानाय, भारतीय संस्कृते: ज्ञानाय, प्राचीनाचार-विचार-परिज्ञानाय, प्राचीन-भौगोलिकविवरण-ज्ञानाय, विविध-शास्त्राणां च सारज्ञानाय पुराणानां महत्त्वं न केनापि निराकर्तुं शक्यते।

पुराणं पञ्चलक्षणम्- विष्णुपुराणादिषु प्रतिपाद्य-विषयम् आश्रित्य पुराणानां लक्षणं निरूप्यते यत्-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
पुराणेषु मुख्यतः पञ्चतत्त्वानां समावेशः स्वीक्रियते । लक्षणेष्वेतेषु कस्यचित् तत्त्वस्य कस्मिश्चित् पुराणे वैशिष्ट्यं निरूप्यते, अन्यस्मिश्च कस्यचिदन्यस्य तत्त्वस्य। एवं प्रतिपुराणं लक्षणानाम् एषां न्यूनाधिक्यम् अवलोक्यते। एवं क्वचित् पञ्चानामपि लक्षणानां समावेश उपलभ्यते, अन्यत्र च कस्यचिद् एकस्य यस्य वा तत्त्वस्य समुपलब्धिर्भवति। सन्ति च कानिचित् पुराणानि येषु अन्येषामेव विषयाणां वैशिष्ट्येन प्रतिपादनं वर्तते। तथापि तेषां गणना पुराणेषु स्वीक्रियते।

पुराणं दशलक्षणम्-श्रीमद्भागवतपुराणानुसारं पुराणानां दश लक्षणानि सन्ति। क्वचित् पञ्च लक्षणानि, क्वचित् दश लक्षणानि, इति मतभेदस्य किं कारणमिति जिज्ञासायां तदुत्तरं भागवतकृता स्वयमेव व्यादिश्यते, यत् महापुराणेषु दश लक्षणानि प्राप्यन्ते, लघुषु च पुराणेषु केवलं पञ्चानामेव लक्षणानां प्राप्तिर्भवति। एवं महल्लघुभेदेन दश-पञ्च-लक्षणानां संगतियवस्थाप्या।
दशभिलक्षणैर्युक्तं पुराणं तद्विदो विदुः ।
केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ।।
सामान्यतः स्वीकृतानां पञ्चानां लक्षणानां प्राग् विवृतिः प्रस्तूयते।

सर्ग:- श्रीमद्भागवतपुराणे पञ्चानामपि लक्षणानां विवरण प्राप्यते। तत्र च सर्गस्य स्वरूपं निरूप्यते यत्-
अव्याकृत-गुणक्षोभान्महतस्त्रिवृतोऽहमः ।
भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ।।
सर्ग-शब्देन सृष्ट्युत्पत्तेः वर्णनम् अभिप्रेतमस्ति। भागवतानुसारं सर्गशब्देन सांख्याभिमता सृष्टि-प्रक्रिया स्वीक्रियते। साम्यावस्थाम् आपन्नायां मूलप्रकृतौ यदा गुणक्षोभ आपद्यते, तदा महत्-तत्त्वम् उत्पद्यते, ततश्च अहंकारस्योद्भवो भवति, गुणत्रयम् आश्रित्य त्रिविधाद् अहंकारात् पञ्चतन्मात्राणाम् एकादशेन्द्रियाणां चोत्पत्तिर्भवति। पञ्चतन्मात्राभ्यश्च पञ्चमहाभूतानाम् उद्भवो जायते।

प्रतिसर्गः- प्रतिसर्ग-शब्देन प्रलयस्य सृष्टे: पुनरुद्भवस्य च वर्णनम् अभीष्यते। भागवतानुसार प्रतिसरी-लक्षणम् अस्ति-
पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥
इदं सकलं चराचरात्मकं जगत् स्व-वासनामयैः संस्कारैः पुनः पुनः सृष्टिरचनायां जनम् आपद्यते। यथा बीजानि वृक्षादिरूपेण समुद्भूतानि प्रलये बीजरूप प्राप्तान्यपि पुनः वृक्षादिरूपेण आविर्भवन्ति, तथैव स्थावरं जङ्गमं च जगत् स्वसंस्कारवशात् पुनर्जायते। एतस्यैव वर्णनं प्रतिसर्ग-शब्देन अभीष्यते।  

वंशः- वंश-शब्देन राज्ञाम् ऋषीणां च वंशावल्या वर्णनम् इष्टमस्ति। वंश-लक्षणं भागवतानुसारमस्ति
राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः।
ब्रह्मणः समुद्भूतानां नृपाणां त्रिकालमाश्रित्य वंशावल्या वर्णनं वंशशब्दस्याभिप्रायः। वंश-शब्देन न केवलं नृपाणामेव, अपि तु ऋषीणां देवादीनां चापि वंशावलिः संग्राह्या। रामायण-महाभारतादिषु कस्यचिदेकस्य वंशस्य वर्णनमाप्यते, परं पुराणेषु सामान्यरूपेण अतीत-वर्तमान-अनागतानां च नृपादीनां वंशावलिर्वण्र्यते। इदं चात्रावधेयं यत् पुराणानि सांस्कृतिकदृष्ट्या ऐतिहासिक-दृष्ट्या चातीव महत्त्वपूर्णानि रत्नानि सन्ति। सृष्टे: प्रारम्भादारभ्य विविधानां नृपवंशावलीनां वर्णनं यथा व्यवस्थितरूपेण पुराणेषुपलभ्यते, न तथान्यत्र। बहूनि चात्र वर्णितानि तथ्यानि प्राप्तेभ्यः शिलालेखादिभ्यः पुष्टिमुपयान्ति। सूर्यवंश-चन्द्रवंशादीनां प्रथितानां वंशानां विविधवृत्त-समन्वितं वर्णन पुराणेषु साधूपलभ्यते। एवं वंशवर्णनम् ऐतिह्य-दृष्ट्या नितान्तं महत्त्वपूर्ण सिध्यति।

मन्वन्तरम्- मन्वन्तर-शब्देन प्रत्येकस्य मनोः कालः, तदानीन्तनानां विविधानां वृत्तानो सुव्यवस्थितम् उल्लेखो वर्णनं च मन्वन्तर-शब्देनाभीष्टं वर्तते। भागवतानुसार मन्वन्तरस्य लक्षणं विद्यते-
मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वरः ।
ऋषयोऽशावतारश्च हरेः षड्विधमुच्यते ॥
मन्वन्तर शब्देन मनोः देवानां मनुपुत्राणाम् इन्द्रस्य सप्तर्षीणां विष्णो: अंशावताराणां च वर्णनं तत्सम्बद्धं च विविधं वृत्तं संग्राह्यम्। प्रतिकल्पं चतुर्दश मनवो भवन्ति। प्रतिमन्वन्तर के राजानोऽभवन्, तत्र के ऋषयो महर्षयश्चाभवन्, तैः किं विशिष्ट कृत्यजाते व्यधायि, तस्मिन् काले किं किं विशिष्टं वृत्तं वा घटितम्, इत्यादि सर्वमपि मन्वन्तर-वर्णने वर्ण्यते। ऐतिह्यस्य याथातथ्यतोऽवबोधाय मन्वन्तरस्य ज्ञानमपि नितराम् आवश्यकम्।

वंशानुचरितम्- वंशानुचरिते विशिष्टवंशोत्पन्नानां नृपादीनां विशिष्टं चरितं विशदतया वण्यते। भागवतानुसारं तल्लक्षणं विद्यते-
वंशानुचरितं तेषां वृत्तं वंशधराश्च ये।।
वंशानुचरिते सूर्य-चन्द्रादि-वंशजानां नृपाणां तवंशधराणां च जीवनचरितं सविस्तर प्रतिपाद्यते। वंशानुचरितस्य पुराणेषु महती आवश्यकता वर्तते। ये केचन तत्र राजर्षयो महात्मानः पुण्यात्मानश्चाभवन्, तेषां सविशदं चरितम् अनुश्रुत्यैव परवर्तिनः सामान्या नराः स्वजीवनं पावयन्ति, तथाविधकर्मानुष्ठानेन विपत्पारावारे समुत्तितीर्षन्ति, स्वजन्म सफलं चिकीर्षन्ति, लौकिकं पारलौकिकं च पुण्यं चिचीषन्ति । यद्येव विचार्यते चेत् तर्हि वंशानुचरित-वर्णनस्यापि महती आवश्यकता उपयोगिता चास्ति।

पुराण दशलक्षणम्-श्रीमद्भागवत पुराण पुराणं दशलक्षणमिति निरूप्यते। भागवतकृता चैवं तद्वर्णनं निर्दिश्यते-
पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् ।
शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥8॥
सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥9॥
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।।
केचित् पञ्चविधं ब्रह्मन् महदल्यव्यवस्थया ॥ 10 ॥
एषा दशलक्षणानां पञ्चकं प्रार् निरूपितमेव। अवशिष्टं पंचकं संक्षेपतो निरूप्यते।

वृत्तिः- अत्र वृत्तिशब्देन जीवानां भोजनाच्छादनादिकं तेषां जीविका निर्वाहोपायाः, कृत्याकृत्यादिवर्णनम्, हेयोपादेयादिकं च निरूप्यन्ते। उच्यते च-
वृत्तिभूतानि भूतानां चराणामचराणि च ।  
कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ।।
तत्र काचिद् वृत्तिः स्वेच्छया स्वीक्रियते, काचिच्च शास्त्रानुसारतो जीविका निर्वाहार्थं वा।

रक्षा-अत्र वेदादीनां वैदिकधर्मिणां च रक्षार्थ विष्णोः अवतारस्य वर्णनं भवति। अवतारं प्राप्तस्य विष्णोर्वेदविरोधिनां संहारस्य पुण्यात्मनां रक्षायाश्च वर्णनं भवति। उच्यते च-
रक्षाच्युतावतारेही विश्वस्यानु युगे युगे ।
तिर्यमत्यषिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ।।
संस्था- संस्थासंस्थाशब्देन सर्गस्यास्य प्रलयस्य वनम् अभीष्टमस्ति। प्रलयश्च चतुर्विधो भवति-नैमित्तिक, प्राकृतिक, नित्यः, आत्यन्तिकश्च।

हेतुः- हेतु-शब्देन जीवस्य ग्रहणं भवति। स एव अविद्यावशगो भूत्वा जायते म्रियते च। अत्र जाग्रत्-स्वप्न-सुषुप्ति-दशानां वर्णनं भवति।

अपाश्रयःअपाश्रयशब्देन तुरीयतत्त्वस्य ब्रह्मणो वर्णनम् अभीष्टमस्ति।
व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु ।
मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्चयः ।।

एवं पंचलक्षणेन दशलक्षणेन च पुराणानां महत्वं वैशिष्ट्यं च प्रतिपाद्यते।
पुराणानां महत्वं संस्कृत निबंध

पुराणानां महत्वं संस्कृत निबंध

पुराणानां महत्वं संस्कृत निबंध

puran-ka-mahatva-sanskrit-nibandh

पुराण-शब्दार्थः- किं तावत् पुराणमिति जिज्ञासायां पुराण-शब्दार्थो बहुधा निरुच्यते। काश्चन निरुक्तयोऽन्न समासतो निर्दिश्यन्ते। (1) पुराणम् आख्यानं पुराणम् इति, अर्थात् प्राचीनानि आख्यानानि पुराणानीति। (2) यस्मात् पुरा हि अनति इदं पुराणम् (वायुपुराण), यत् पुरा सजीवम् आसीत् तत् पुराणम्। (3) जगतः प्रागवस्थाम्। अनुक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम् (सायण, ऐ० ब्रा०, भूमिका), संसारोत्पत्तेः विकासक्रमस्य च बोधकं पुराणम्। (4) पुरार्थेषु आनयतीति पुराणम् (पद्मपुराण), पुरुष-प्रकृत्यादि-पूर्वतत्त्वचिन्तनपरं पुराणमिति । (5) पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम् (वायुपुराण), प्राचीन-परम्परा-प्रतिपादका ग्रन्थाः पुराणमिति। (6) विश्वसृष्टेरितिहासः पुराणम् (मधुसूदन-सरस्वती)। विश्वरचनाया ऐतिह्यमेव पुराणशब्दाभिमतम्। 18 पुराणानि, 18 उपपुराणानि च पुराणनाम्ना व्यवह्नियन्ते।

पुराणं पञ्चलक्षणम्- प्रतिपाद्यविषयम् आश्रित्य पुराणानां पञ्च लक्षणानि निर्दिश्यन्ते-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराण पक्षलक्षणम् ।। (विष्णुपुराण)
पुराणेषु पञ्चतत्त्वानां समावेशोऽपेक्ष्यते। (1) सर्ग:-सृष्ट्युत्पत्ति-वर्णनम् (2) प्रतिसर्ग:-प्रलयस्य, सृष्टेः पुनरुद्भवस्य च वर्णनम्। (3) वंश:-देवानाम् ऋषीणां च वंशावल्या वर्णनम्। (4) मन्वन्तराणि-प्रत्येकस्य मनोः कालः, तत्काल-घटिताना वृत्ताना च वर्णनम्। (5) वंशानुचरितम्-सूर्य-चन्द्रादि वंशजानां नृपाणाम् इतिवृत्तात्मक वर्णनम्। पञ्चलक्षणमिति सामान्यो निर्देशः। नैतेन सर्वविषय-संग्राहकत्वम्। विषयान्तराणामपि पुराणेषु सद्भावात्, पञ्चलक्षणस्य च क्वचित् परिहारात्।

पुराणानां रचनाकालः- पुराणानां रचनाकालः 600 ईसवीयपूर्वादारभ्य 500 ईसवीयसंवत्सरं यावत् स्वीक्रियते।

पुराणेषु प्रतिपाद्या विषयाः-पुराणेषु मुख्यतो निम्नाङ्कितानां तथ्यानां वर्णनम् अवाप्यते। (1) कस्यचिद् देवस्य कस्याश्चिद् देव्या वोपासना। तस्यैव देवस्य सर्वोत्कृष्टता प्रतिपादनं च। (2) ब्रह्म-विष्णु-महेशेषु कस्याप्येकस्य इष्टदेवत्वेन वर्णनम्। (3) सृष्टेरुत्पत्तेः स्थिते: प्रलयस्य च वर्णनम्। (4) देवानाम् ऋषीणां च वंशावलिः, तज्जीवनवृत्त च। (5) मनोः मन्वन्तरस्य च वर्णनम्। (6) नन्द-मौर्य-शुङ्ग-आन्ध्र-गुप्तादिवंशजाना नृपाणां भूपतीनां च इतिवृत्त-वर्णनम्। (7) तीर्थानां प्रथितभौगोलिकस्थानानां तीर्थयात्रादीनां च वर्णनम्। (8) व्रत-जप-उपवास-प्रार्थनादीनां सानुष्ठान वर्णनम्। (9) अवतारवादस्य मूर्तिपूजाया विविधदेवोपासनायाश्च संस्थापना। (10) सगुणोपासनाया भक्तिमार्गस्य च प्राधान्येन प्रतिपादनम्। (11) दार्शनिक-धार्मिक-राजनीतिक-आचारशास्त्रादि-महत्त्वभाजा विषयाणां विवेचनं विश्लेषणं च। (12) व्याकरण-काव्यशास्त्र-ज्योति:शास्त्रशरीरविज्ञान-आयुर्वेदादि शास्त्रीयाणां वैज्ञानिकानां च विषयाणां तथ्यसंकलनम्।

पुराणानां महत्त्वम्- भारतीयायाः संस्कृतेः सभ्यतायाश्च यथायथम् अवगमाय पुराणानां नितरां महत्त्वमस्ति। पुराणानि विहाय न क्वचिदन्यत्र विपुलेऽपि वाङ्मये प्राचीनसंस्कृतेः सविस्तर वर्णनम् उपलभ्यते। अतएव वायुपुराणे तन्महत्वम् उद्घोष्यते। यत् चतुर्वेदविदपि पुराणज्ञानविहीनो न विचक्षणपदवीम् आरोढुं शक्नोति। उक्तम् च-
यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
न चेत् पुराणं स विद्यात् नैव स स्याद् विचक्षणः ॥ (वायुपुराण)
पुराणानां धर्मार्थकाममोक्षात्मक-चतुर्वर्ग-साधनाद् वेदत्वं प्रतिपाद्यते। पुराणं पञ्चमी वेद इत्याद्रियते। उक्तम् च भागवते-
इतिहासपुराणं च पञ्चमो वेद उच्यते ।
सर्वजनहिताय सर्वजनबोधाय च प्रसादगुणोपेतायाः पद्धत्याः समाश्रयेण पुराणानां महत्वं प्रतिपदम् आलक्ष्यते। आबालवृद्धं पुराणानां प्रियच न कस्यचिट विप्रतिपत्तेविषयः। कथाख्यानाश्रयेण निगूढतत्त्वनिरूपणं सरलतया तदभिव्यक्तिश्च पुराणानां महत्त्वम् एधयति। पुराणानां तादृशी मनोहरा शैली भावाभिव्यक्ति-प्रक्रिया च यथा ज्ञानलव-दुर्विदग्धोऽपि मानवो विविधविषयावगाह ज्ञानं सरलतया अवाप्नोति। पुराणेषु क्वचित् काव्यच्छटा, क्वचित् प्रकृतिवर्णनम्, क्वचित् तीर्थादिवर्णनम्, क्वचित् सृष्टिस्थिति-प्रलयवर्णनम्, क्वचिद् भावोत्कर्षः, क्वचिद् ज्ञानस्योदयः, क्वचित् तत्त्वार्थचिन्ता, क्वचित् कर्तव्योद्बोधनम्, क्वचित् ज्ञानमीमांसा च ऐन्द्रधनुषीम् आभां विस्तारयति।

पुराणानां तादृशं महत्त्वम् यथा भिन्नरुचिर्हि लोकः' स्वरुचिम् अनुसृत्य प्रवृत्तोऽपि स्वेष्टे प्रतिगृह्णाति। विदुषे तत्त्वज्ञानविषयाः, बालिशाय शृङ्गाररसरुचिराणि आख्यानानि, नीतिज्ञाय नीतितत्त्वानि, राजे राजकमणि, व्यवहारिणे अर्थागमसाधनानि, अध्यात्मदृशे ब्रह्मतत्त्वमीमांसा, वनिताभ्यो भक्तिमार्गः, जिज्ञासवे भूगोल-ऐतिह्यादि-सम्बद्धा विषयाः, यथायथं तच्चित्तावर्जकत्वेन प्रवर्तन्ते।

इतिहासपुराणाभ्यां वेदं समुपबृहयेत्- महाभारतकृता वेदार्थस्य विशदीकरणं पुराणानां महत्त्वरूपेण प्रतिपाद्यते। वेदेषु यानि तत्त्वानि यत्र तत्र वर्ण्यन्ते तेषां विशदीकरणं पुषु आख्यानरूपेण प्राप्यते। वेदार्थविशदीकरणेन पुराणानि वेदार्थावगमे साहाय्यम् आचरन्ति।
पुराणानां धार्मिक महत्त्वं कस्य न विपश्चितो विदितम्। पुराणानि भारतीय संस्कृतेः सनातनधर्मस्य च प्राणभूतानि सन्ति। एतेषामपि श्रुतितुल्यं प्रामाण्यं गृह्यते। विष्णु-शिवादि-देवानाम् उपासनापद्धते: सविस्तरो बोध: पुराणैरेव संजायते।
ऐतिह्यदृष्ट्याऽपि पुराणानाम् अतुलं महत्त्वम्। भारतीयैतिह्यस्य अज्ञात इतिहासो राजानं परीक्षितम् आरम्भ पद्मनन्दं यावत् पुराणेष्वेवोपलभ्यते। विष्णुपुराणे मौर्यवंशावलिः, मत्स्यपुराणे आन्ध्रवंशावलिः, वायुपुराणे गुप्तवंशावलिः च साम्प्रतं पुरातत्त्वविद्भिः प्रामाण्यरूपेण उररीक्रियते। पुराणेषु प्राप्या आभीर-शक-यवन-तुषार-हूणादि-राजवंशाना वंशावली ऐतिह्यविदां कृते बहुमूल्यस्वरूपा।
पुराणानां भौगोलिकमपि महत्त्वं वर्तते। एषु चतुद्वीपाया वसुमत्याः, सप्तद्वीपाया वसुमत्याः, 18 दीपानाम्, 14 भुवनानाम्, क्षीरसागरादीनां वर्णनम्, भूविभाजनम्, तीर्थानाम्, सागराणाम्, सरिताम्, गिरीणाम्, भौगोलिकमहत्त्वभाजाम् अन्येषां च स्थानानां। यत्र तत्र वर्णनं भूगोल-खगोलविदां कृते विशिष्टं महत्त्वम् आधत्ते।
पुराणानां सामाजिकमपि महत्त्वम् अवर्णनीयम्। पुराणेषु वर्णाश्रमव्यवस्थाम्। आश्रित्य गुणानां कर्मणां च वर्णनम्, विविधसंस्काराणां विवरणम्, पारिवारिक सम्बन्धस्य विस्तरशो विवेचनम्, गुरुशिष्यसम्बन्धस्य वैशिष्ट्येन समुपस्थापनम्, राजधर्मादिवर्णनं च तेषां समाजशास्त्रीय महत्त्वम् उपस्थापयति।
पुराणेषु विविधा विद्या यथास्थानं वण्र्यन्ते। क्वचिद् व्याकरणम्, क्वचित् छन्दः, क्वचिद् ज्योतिषम्, क्वचिद् धर्मशास्त्रम्, क्वचिद् आयुर्वेदः, क्वचिद् शरीरविज्ञानादिकं च तेषां शास्त्रीयं वैज्ञानिकं च महत्त्वं समर्थयन्ते। पुराणेषु अग्निपुराणं विविधशास्त्रीयज्ञान समन्वितत्वाद् विश्वकोशः स्वीक्रियते। एवं पुराणानां महत्त्व सर्वथा प्रसिध्यति। उक्तं च नारदीयपुराणे-
वेदार्थादधिकं मन्ये पुराणार्थं वरानने।

वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः।।
Mahabharat Long Essay in Sanskrit - महाभारत पर संस्कृत निबंध

Mahabharat Long Essay in Sanskrit - महाभारत पर संस्कृत निबंध

Mahabharat Long Essay in Sanskrit - महाभारत पर संस्कृत निबंध

Mahabharat Long Essay in Sanskrit
महाभारतस्य कर्तृत्वं विवरणं च- महाभारतस्य कर्तृत्वविषये प्रचुरो विवादः। अस्य परिमाणविषयेऽपि नैकमत्यं विदुषाम्। महाभारते क्वचिद् ग्रन्थोऽयं जयनाम्ना, क्वचिद् भारत-नाम्ना, क्वचिच्च महाभारत-नाम्नोल्लिख्यते। सूक्ष्मेक्षिकयाऽवलोकनेन विज्ञायते यदु महाभारतस्य प्रगते: चरणत्रयं वर्तते। प्रथम चरणे जयनामकं काव्यमेतत् 8800 श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य वैशम्पायनाय श्रावितमभूत्। द्वितीयचरो भारतनामक महाकाव्यमेतद् वैशम्पायनकृतं 24 सहस्रश्लोकपरिमितं जनमेजयस्य नागयज्ञे जनमेजयाय श्रावितमभूत्। तृतीयचरणे महाभारतनामकं महाकाव्यमेतत् सौतिकृतम् एकलक्षश्लोकपरिमितं नैमिषारण्ये यज्ञकाले शौनकादिभ्य ऋषिभ्यः श्रावितमभवत्। अत्र प्रधानतः कौरव-पाण्डवानाम् इतिवृत्तं विवादो गीतोपदेशो महाभारतय पाण्डवानां विजयावाप्तिश्च वर्ण्यन्ते।
अस्य कर्तृत्वरूपेण व्यासो वेदव्यासो वा प्राधान्येन प्रकीते। व्यासस्य जन्मादिविषये बहविधा किंवदन्ती श्रूयते। परं वेदानां यथायथं विभाजनाद् वेदव्यास: समासतो व्यास इति नामान्तर संगच्छते।
ब्रहाणो ब्रह्मणानां च तथानुग्रहकाङ्क्षया ।
विव्यास वेदान यस्मात् स तस्माद् व्यास इति स्मृतः ।।
व्यासो वर्षत्रयेण महाकाव्यमेतत् प्रणिनायेति तद्वचनादेव विज्ञायते।
त्रिभिर्वर्षेः सदोत्थाय कृष्णद्वैपायनो मुनिः ।
महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥
लक्षश्लोकपरिमितत्वादेव गुप्तकालीनशिलालेखेषु शतसाहस्री संहिता' इति नाम्ना ग्रन्थोऽयं निर्दिश्यते। अत्र कथाविभागम् आश्रित्य 18 पर्वाणि सन्ति।।

महाभारतस्य वैशिष्ट्यम्- महाभारतमिदं न केवलम् आख्यानम्, अपितु समग्रस्यापि संस्कृतवाङ्मयस्य सारभूतम्। सर्वलोकप्रियत्वाय निखिलमपि वैदिक लौकिकं च तथ्यम्, दर्शनम्, शास्त्रसारम्, आख्यानम्, नीतिशास्त्रम्, आचारशास्त्रम्, अन्यच्चापि लोकोपयोगि तत्त्वम् अत्र संगृह्य प्रस्तूयते।
महाभारतकृतोऽवर्तत महत्त्वाकाङ्क्षेयं यद् धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रावाप्येत। न च किंचिद् उच्छिष्येत। अतएवोच्यते-
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥

महत्त्वाद् भारवत्चाच्च०महाभारतस्य विशालं परिमाणमपि विलोक्यास्य महत्त्वविषये प्रोच्यते यद् महनीयोऽयं ग्रन्थो यथैव वपुषा विशालस्तथैव भावगाम्भीर्येण अर्थगौरवेण च। ज्ञानाग्निसमेधितत्वाच्च एतस्य महत्त्वं न कथंचिदपि अपलपितु पार्यते। अतएव महत्त्वमेतस्य उद्गायता प्रोच्यते-
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते।

भारतं पञ्चमो वेदः-वेदानां धर्मप्रधानत्वाद् यज्ञादिकर्मकाण्डसमन्वितत्वाद् अध्यात्मभावप्रवणत्वाच्च न समेषां प्रियत्वम्। अतएव लोकाख्यानसमन्वितं नीतिदीक्षाविशिष्टं राजनीतिशिक्षासंजुष्टम् आचारशिक्षासंपुष्टं च कामिनीवचोमधुरं काव्यमिदं व्यासोपदिष्टम्। सर्वमनोमोहनत्वाच्चैतद् न केवलं भारतवर्षे अपितु यव-सुवणादिपूर्वीयद्वीपेषु अन्येषु च वैदेशिकेषु प्रदेशेषु नितरां प्रसिद्धि लेभे। एतदेवोद्दिश्य भागवते प्रोच्यते-
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥
वेदचतुष्टय्यां द्विजानामेव विशिष्टा गतिः धमत्वेनाभिरुचिश्च, पर महाभारत समेषामपि वर्णानां सामान्याभिरुचिः प्रीतिगतिश्च। अस्य पावनत्वम् उत्कटच सर्वार्थसाधकत्वं च प्रेक्ष्य 'पञ्चमोऽयं वेदः' इति विपश्चिदभि: साहलादम् उद्घोष्यते।

यदिहास्ति तदन्यत्रo-समन्वयात्मकमिदं महाकाव्यम् अत्र सर्वविषयसंकलनात सकलशास्त्रीयतत्त्वसारग्रहणाद विश्वकोशत्वेन गणना महाभारतस्यास्य गौरवं विवृणते। तदानीन्तनः समग्रोऽपि वैदिको लौकिकरच प्रथितो विषयो महाभारते संलक्ष्यते। महाभारतेऽस्मिन् काव्यम दर्शनम्, अध्यात्मम्, वैदिक तत्त्वम्, ऐतिह्यम्, आख्यानम्, नीतितत्वम् राजनीतिसार अन्यच्चापि लोकोपयुक्तं तत्त्वज्ञात सुमधुरया शैल्या संगोपस्थाप्यते। अतएव ग्रन्थकर्तुः इयम् उद्घोषणा न विप्रतिपत्तिम् आश्रयते यद्-
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ।।
अतएव महाभारतस्य गणगौरवं समीक्ष्य वेणीसंहारे भट्टनारायण व्यासवचन सुधामधुरमिति संस्तवीति-
अवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः ।
तमहमरागमकृष्णां कृष्णद्वैपायनं वन्दे ।।
स्वगुणगौरवादेव व्यास: त्रिदेववद् आद्रियते संमान्यते च। उक्तं च-
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अभाललोचनः शम्भुर्भगवान् बादरायणः ।।
महाभारतस्य विविधविषयावसाहिज्ञानम् अर्थगौरवं भावगाम्भीर्यं च प्रदर्शयितं कतिपयानि सुभाषितानि दिमात्रमत्र उपस्थाप्यन्ते।
(क) दार्शनिकभावोपेतानि सूक्तानि-
नवहारमिदं वेश्म त्रिस्थूण पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठित विद्वान् यो वेद स परः कविः ।।
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा, लिङ्गस्य योगेन च याति नित्यम्।
तमीशमीयमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥
(ख) नीतिशिक्षाविषयकाणि सुभाषितानि। यथा-
यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिन् तथा वर्तितव्यं स धर्मः ।
मावाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ।।
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ।।
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि दहत्यनि-विषमल्प हिनस्ति च ।।
(ग) अर्थशास्त्रीयाः सूक्तयो यथा-
धनमाहुः परं धर्म धने सर्व प्रतिष्ठितम् ।
जीवन्ति भनिनो लोके मृता ये त्वधना नराः ॥
धनात् कुले प्रभवति धनाद् धर्मः प्रवर्धते ।
नाधनस्यात्ययं लोको न परः पुरुषोत्तम ॥
(घ) राजनीतिविषयकाणि सूक्तानि यथा-
राजा प्रजानां प्रथमं शरीर प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न भवन्ति देशा देशैविहीना न नृपा भवन्ति ।।
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते ।
यद् यदाचरते राजा तत् प्रजानां स्म रोचते ॥

एवं विज्ञायते यद् महाभारतं गुणगौरवात्, सर्वविषयावगाहित्वात्, आचारशिक्षणात्, पावनत्वाच्च पञ्चमो वेद इति ।
रामायण संस्कृत निबंध - रम्या रामायणी कथा

रामायण संस्कृत निबंध - रम्या रामायणी कथा

रामायण संस्कृत निबंध - रम्या रामायणी कथा

ramayan sanskrit essay
वाल्मीकरादिकवित्वम्- इह सुविपुले वाङ्मये महाकवेर्वाल्मीकेनम वियति तरणिरिव विद्योततेतमाम्। कविरयं वैदिकवाङ्मयानन्तरं सरसलौकिककाव्योपज्ञो रसभावनिष्णातो धर्मार्थकाममोक्षात्मक-चतुर्वर्गोपदेष्टा जीवनोन्नायक आदर्शसंस्थापको धर्मकामः मृदुलसरसपदपरिपूतो माधुर्य-मृद्धीका-रसमनोहर: प्रसादाच्छच्छायासमलंकृतः कस्य न सचेतसः चेतः आह्लादयति। वाल्मीकिपूर्ववर्ति समग्रमपि वाङ्मयं धर्मप्रवणत्वाद् धार्मिकम् आध्यात्मिक चाभवत्। वाल्मीकिरेव तादृशः प्रगतिशीलो लोकभावाभिज्ञः सरसभावानुविद्धो मानव-मनोविज्ञान-विदग्धः कविरासीद् यो रामचरितम् आश्रित्य लौकिकभावमयं रस-भाव-भाषालंकारालंकृतं सर्वजनग्राह्य महाकाव्यं प्रणिनाय। अतएवायम्'आदिकविः' इत्युपाधिना विभूष्यते। रामायणेऽप्येतत् तथ्यं कविना उल्लिख्यते-
आदिकाव्यमिदं चार्ष पुरा वाल्मीकिना कृतम्।
(रामायण का महत्व निबंध पढने के लिए नीचे स्क्रॉल करें। )
उत्तररामचरितेऽप्येतत् तथ्यं प्रतिपाद्यते।
ऋषे, आद्यः कविरसि। आम्नायादन्यत्र नूतनश्छन्दसामवतारः।
रामायणस्याविर्भावः– पुण्यसलिलायास्तमसायास्तटे क्रौञ्चवधमवलोक्य तस्य महाकवेः सहसा कारुण्यपूर्णा तेजोमयी वाक् प्रास्फुरत्-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । 
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।
तत्कालादारभ्य भारतीयवाङ्मये लौकिकभावोपेता रामकथामूला रामायणसरित् प्रसृता। एतदेवानुसृत्य महाकविः कालिदासः सीतापरित्यागप्रसङ्गे अवोचत-
निषादविधाण्डजदर्शनोत्थः, श्लोकत्वमापद्यत यस्य शोकः।  
ध्वन्यालोककृद् आनन्दवर्धनाचार्योऽपि वाल्मीकिमेवं स्तौति।
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः, शोकः श्लोकत्वमागतः ॥  
रामायणस्य महत्त्वम्- महाकाव्यमिदं रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्योज:प्रसादगुण-समन्वितत्वेन, रचनाशैल्याः प्राञ्जलतया, भावानां मनोहारिण्या विवृत्या, सर्वेषां रसानां यथास्थानम् उपन्यासात्, भारतीयायाः संस्कृतेर्विशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्टचित्रणेन, आचार-संहितायाः संकलनेन, नीतिशिक्षायाः संग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथम् उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्या, मार्मिकभावाभिव्यञ्जनेन, अलंकाराणां सुनियोजनेन, छन्दसां संगीतात्मकत्वेन च विशालेऽस्मिन् काव्याकाशे चकास्तितमास्। अतएव भूयोभूयो महाकाव्यमिदं संस्तूयते प्रशस्यते अभिवन्द्यते च विद्वद्धौरेयैर्विदग्धैः।

अनर्घराघवे कविर्मुरारिः- अहो, सकलकविसार्थ-साधारणी खल्वियं वाल्मीकीया सुभाषितनीवी (प्रस्तावना) इति वाल्मीकि प्रशंसति। श्रीभोजराजो रामायणचम्पूग्रन्थे तं। मधुररचनाप्रचारचतुरं कवीनां मार्गदर्शकं चेति मन्यते-
मधुमयभणितीनां मार्गदर्शी महर्षिः ॥
महाकाव्यमिदं परवर्तिनां काव्यानां नाटकानां चोपजीव्यत्वेन संस्तूयते। वाल्मीकेर्मतं यद् रामचरितम् अनाश्रित्य न काव्यानां यशोभाक्त्वं प्रसिध्यति। उक्तं च रामायणे-
न हान्योऽर्हति काव्यान, यशोभाग् राघवाद् ऋते। 
रामायणस्योपजीव्यत्वम्- महाकाव्यमेतदाश्रित्य प्रवृत्तानि कानिचित् काव्यानि नाटकानि च दिङ्मात्रमिह उदाह्यिन्ते। 
(1) भासकृतम्-प्रतिमानाटकम्, (2) कालिदासकृतम्-रघुवंशमहाकाव्यम्, (3) दिङ्नागकृता-कुन्दमाला, (4) भट्टिकृतम्-भट्टिकाव्यम्, (5) भवभूतिकृतम्महावीरचरितम्, उत्तररामचरितं च, (6) मुरारिकृत:-अनर्घराघवः, (7) क्षेमेन्द्रकृतारामायणमञ्जरी (8) भोजराजकृत:-रामायणचम्पू:।
रामायणास्य लोकप्रियता- रामायणस्य तादृशी लोकप्रियता यथा न केवलमेतद् विदुषामेव विभूषणम्, अपि तु सामान्यरूपेण सर्वजनानां धनिनां निर्धनानाम्, विदग्धानाम्-अज्ञानाम्, पुरुषाणां-स्त्रीणाम्, आबालवृद्धं कण्ठाभरणताम् आपद्यते। आचार-संहितारूपेणेदं सर्वत्र आद्रियते, भक्तानां भवनेषु च प्रतिदिनं पारायणीक्रियते। अतः सत्यमुच्यते भगवता वाल्मीकिना यद्-
यावत् स्थास्यन्ति गिरयः, सरितश्च महीतले ।। 
तावद् रामायणकथा, लोकेषु प्रचरिष्यति ॥
रामायणमेतद् नवरसरुचिरा कृतिः। अत्र यथास्थानं सर्वेषामपि रसानाम् अभिव्यक्तिरवलोक्यते। तत्रापि विप्रलम्भश्रृंगारस्य करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं लक्ष्यते। उक्तं च- 
हास्य-शृङ्गार-कारुण्य-रौद्र-वीर-भयानकैः।
बीभत्सादभुत-संयुक्तं, काव्यमेतदगायताम् ॥
वाल्मीकिः काव्यकानने राम-रामेति मधुरं कूजन् कलरवरुचिर: कोकिल इति। संस्मर्यते सूरिभिः-
कूजन्तं रामरामेति, मधुरं मधुराक्षरम् । 
आरुह्य कविताशाखां, वन्दे बाल्मीकि-कोकिलम् ॥
रामायणस्य महत्त्वं बृहद्धर्मपुराण-स्कन्दपुराणादिषु जेगीयते। तद्यथा-
पठ रामायणं व्यास, काव्यबीजं सनातनम् । 
यत्र रामचरितं स्यात्, तदहं तत्र शक्तिमान् ॥ 
रामायणं नाम परं तु काव्यं, पुण्यप्रदं वै शृणुत द्विजेन्द्राः।। 
यस्मिन् श्रुते जन्मजरादिनाशो, भवत्यदोषः स नरोऽच्युतः स्यात् ।।
रामायणस्य विषयाः-रामायणे क्वचिद् दर्शनानाम्, क्वचिद् आगमानाम्, क्वचिद् उपनिषदाम्, क्वचित् स्मृतीनाम्, क्वचिन्नीतिशास्त्रस्य, क्वचित् विज्ञानस्य, क्वचिन्मनोविज्ञानस्य, क्वचिद् आयुर्वेद-धनुर्वेद-ज्योतिष-मनोविज्ञान-तन्त्रादीनां सार: तत्सम्बद्धा उपयोगिनो विषयाश्च समुपस्थाप्यन्ते। दिमात्रमिह केचन श्लोका उदाह्रियन्ते:-
यस्मिस्तु सर्वे स्युरसन्निविष्टा, धर्मो यतः स्यात् तदपक़मेत।
द्वेष्यो भवत्यर्थपरो हि लोके, कामात्मता खल्वपि न प्रशस्ता।
कुलीनमकुलीनं वा, वीर पुरुषमानिनम् । 
चारित्रमेव व्याख्याति, शुचि वा यदि वाऽशुचिम् ॥ 
सत्यमेवेश्वरो लोके, सत्ये धर्मः सदाश्रितः ।
सत्यमूलानि सर्वाणि, सत्यान्नास्ति परं पदम् ॥ 
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । 
अनिर्वेदो हि सततं, सर्वार्थेषु प्रवर्तकः ॥
नाराजके जनपदे, धनवन्तः सुरक्षिताः । 
शेरते विवृतद्वाराः, कृषिगोरक्ष-जीविनः ।।
अतएवेयं रामायणी गङ्गा भुवनत्रयपावनीति प्रशस्यते-
वाल्मीकिगिरिसम्भूता, रामाम्भोनिधि-सङ्गता ।
श्रीमद्रामायणी गङ्गा, पुनाति भुवनत्रयम् ॥ 
त्रिविक्रमभट्टो नलचम्पूकाव्ये विरोधाभासमाश्रित्य वाल्मीकिम् अभिनन्दयन् आह-
सदुषणापि निर्दोषा, सखरापि सुकोमला । 
नमस्तस्मै कता येन, रम्या रामायणी कथा ॥

Saturday, 13 October 2018

महाकवि कालिदासः संस्कृत निबंध

महाकवि कालिदासः संस्कृत निबंध

महाकवि कालिदासः संस्कृत निबंध

kalidas sanskrit essay
को न जानाति कालिदासस्य नाम? न केवलं भारतवर्ष अपितु विदेशे महाकवि कालिदासस्य संस्कृतसाहित्यं सुप्रसिद्धमस्ति। कविकुलगुरुः कालिदासः संस्कृतसाहित्यनभे इन्दुरिव प्रकाशते। अयं महाकविः ‘कविशिरोमणिः','कविसम्राट’ इतिपदाभ्यामलंकरोति। यथा आंग्ल साहित्ये शेक्सपीयरस्य स्थानं, तथैव संस्कृत साहित्ये महाकवे कालिदासस्य स्थानमस्ति। अयं प्राचीनकालस्य राष्ट्रकविरुच्यते। अस्य प्रतिभा नाट्यकालायां काव्ये तथा गीतकाव्ये दृश्यते। कालिदासस्य एते ग्रंथाः प्रसिद्धाः सन्ति-रघुवंशः, ऋतुसंहारः, मेघदूतम्, कुमारसम्भवः, मालविकाग्नि-मित्रम्, विक्रमोर्वशीयम्, नाटका: अभिज्ञानशाकुन्तलम्। एताः सर्वाः अद्वितीयाः कृतयः संस्कृतसाहित्ये अमूल्य निधिरूपेण वर्तन्ते इव।

अस्य महाकवेः स्वजीवनविषये कोऽपि संकेतः नास्ति किन्तु अयं चन्द्रगुप्त द्वितीयस्य राज्यकाले अवस्थितः अभूत् इति विदुषां मतम्। चन्द्रगुप्त द्वितीयः विक्रमादित्य इत्युपाधि धारयामास। कालिदासः अस्य सभापण्डितः आसीदिति जनश्रुतिः। अस्य जीवनस्य विषये एका अन्या जनश्रुतिः प्रचलिता यत प्रारंभ असो जडबद्धिरासीत् अस्य पत्नी विदुषी च आसीत्। पत्नीकतापनानात् सः गहात निगच्छतु। अनन्तरं कालिस्वरूपाया:सरस्वत्याः उपासनया, वाक्यात अनवरतप्रयासैश्च सः विद्वान संजातः। अनेन कालिस्वरूपायाः देव्याः उपासना कृता अत: ‘कालिदासः' इति उच्यते। अस्ति कश्चित् कुमार संभवं, मेघदूतं, रघुवंश वाक्विशेषः पत्न्याः वाक्यात् एचितम्।

संस्कृतसाहित्ये कालिदासः उपमायै प्रख्यातः अस्ति। कथ्यते एवं उपमा कालिदासस्य सत्यमेव अस्य उपमाः अनुरूपाः, रमणीयाः च वर्तन्ते। अस्य'रघुवंश नाम महाकाव्यं उपमालङ्कार प्रयोगेनैव प्रारभ्यते। अस्य महाकवेः अन्य; विशिष्टः गुणः 'भाषासरलता' अस्ति। अस्य नाटकान्यपि अतीव उत्कृष्टानि। अस्य ‘अभिज्ञान शाकुन्तलं' नाटकं विश्वविख्यातमस्ति। इदं नाटकं कालिदासस्य सर्वस्वं मन्यते। अनेकासु भारतीयभाषासु अस्य नाटकस्य अनुवादाः जाता:। अनेन नाटकेन कालिदासस्य कीर्ति: विदेशेषु अपि प्रसर। अस्य रमणीयाः काव्यरचना: रसिकैः जनैः आस्वाद्यन्ते।
Lord Rama Essay in Sanskrit - भगवान राम संस्कृत निबंध

Lord Rama Essay in Sanskrit - भगवान राम संस्कृत निबंध

Lord Rama Essay in Sanskrit - भगवान राम संस्कृत निबंध

Lord Rama Essay in Sanskrit
पुरा अयोध्यानगर्यां दशरथ नाम राजा बभूव। तस्य कौशल्या, कैकेयी, सुमित्रा नाम तिस्त्रः राज्ञः आसन्। कौशल्याः पुत्रः रामः आसीत्। मध्यमा राज्ञो कैकेयी भरतस्य मातासीत्। तथा सुमित्रायाः पुत्रौ लक्ष्मण-शत्रुघ्नौ आस्ताम्। दशरथः स्वपुत्रान् पुत्रकामेष्टियज्ञे लब्धवान्। सर्वे राजपुत्राः सुरुपाः आसन्। ज्येष्ठपुत्र: रामचन्द्रः स्नेहपात्रमासीत्। सः वेदविद्या प्रवीणः धनुर्विद्यापारङ्गत: च आसीत्। 

एकदा विश्वामित्रो नाम मुनिः दशरथं द्रष्टुमयोध्यामागत: दशरथस्थ पुत्रान द्रष्ट्वा सः प्रीतोऽभवत्। यज्ञस्य रक्षणाय रामम् अयाचयत्। गुरोः वसिष्ठस्य अनुमतिं गृहीत्वा दशरथः रामलक्ष्मणौ विश्वामित्रेण सह प्रेषयत्। रामः आश्रये अनेकान यज्ञविनाशकान् राक्षसान् हतवान्। तेन ताड़का नाम राक्षसी अपि हता। यज्ञ समाप्तिपश्चात् विश्वामित्र; राम लक्ष्मणौ मिथिलां सीतास्वयंवराय आनयत्। तत्र अनेक राजकुमारा: आगताः। राम; शिवधनुर्भङ्गो कृत्वा सीतां परिणयत्। सीतया सह राम: अयोध्या प्रत्यागच्छत् । तं दशरथ: राज्याभिषेक कर्तुमैच्छत। परं कैकेया: राज्ञः तस्य मनोरथः विफलितः। कैकय्या: वरद्वयानुरूपं रामं चतुर्दश-वनवासं प्रेषयत भारताय न राज्यमयच्छतु। रामः पित्राज्ञया सीतालक्ष्मणाभ्यां सह वनमगच्छत्। पत्रानयागात् दशरथस्य मरणं जातम्। श्रीराम: दण्डकारण्य प्राविशत्। तत्र कांचनमृगेण राम वञ्चायित्वा रावणेन सीतायाः अपहरणं कृतम्। तथा रामेण सुग्रीवेण सह सख्यं कृत्वा सीता अन्वेषिता। अशोक वाटिकास्थितां सीतां रामभक्त: हनुमान् अपश्यत् तस्यै च रामचन्द्रस्य संदेशः अयच्छत्। तत: युद्धे श्रीरामः रावणं निहत्य विभीषणं लंकाराज्ये अभिषिञ्चय सीतालक्ष्मणाभ्यां सह अयोध्यां प्रत्यागच्छत्। प्रभु राम चंद्रस्य शोभा अत्युत्कृष्टमस्ति। सर्वगुणैरुपेतः श्रीराम: महामानवः। अत: रघुकुलतिलकः रामः सर्वे: भारतीयैः पूजनीयः।
Paropkar Essay in Sanskrit - परोपकार पर संस्कृत निबंध

Paropkar Essay in Sanskrit - परोपकार पर संस्कृत निबंध

Paropkar Essay in Sanskrit - परोपकार पर संस्कृत निबंध

Paropkar Essay in Sanskrit
‘अष्टादश पुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्।‘ 
महर्षि व्यासेन इत्युक्तं यत् हे मानवाः यदि यूयं पुण्यं वाञ्छय तर्हि परोपकारं कुरुत, यदि पापं वाञ्छय तर्हि परान् पीडयत। अत: परोपकार: श्रेष्ठ: पुण्यमार्गोऽस्ति।

अस्मिन् संसारे द्विविधाः मनुष्याः सन्ति-सज्जना: दुर्जनानां तु परपीडनाय, परविनाशाय च अस्ति। सन्तः स्वभावतः एव धर्मबुद्धयः सन्ति। समृद्धिभिः ते अनुद्धताः सन्ति। यथा वृक्षाः स्वयमातपे निष्ठिन्ति, अन्यस्य छायां कुर्वन्ति, तेषां फलानि अपि परार्थाय सन्ति तथा सज्जनानां सम्पत्तिरपि पराथार्य अस्ति।

यथा नद्यः परोपकाराय वहन्ति, गावश्च परोपकाराय दुहन्ति, सूर्यचन्द्रमसौ अपि परेभ्य: एव प्रकाशते तथा सज्जनानां जीवनमपि परोपकाराय एव अस्ति। उदारा पृथ्वी आतप, अतिवृष्टि च सहते परं परोपकाराय अन्नम् उत्पादयति, मेघाः अपि वर्षन्ति। एवं प्रकृतेः बहूनि वस्तूनि परोपकारं कुर्वन्ति। परोपकारिणः परेषां दु:खमात्मीय दु:खं मन्यमाना: तद्विनाशाय प्रयतन्ते। ते सदैव निर्धनेभ्य: धनम् वस्त्रहीनेभ्यो वस्त्रम बुभुक्षितेभ्यऽनम् तथा दरिद्रेभ्यो दानं ददाति। किं बहुना सज्जनानां विभूतयः परोपकाराय भवन्ति। दुर्जनानां जीवनं केवलं स्वसुखाय वर्तते। तेषां दानमपि स्ववृद्धयर्थमस्ति, परोपकारश्च ख्यातिप्राप्तये, उच्चपदप्राप्तये अस्ति। मन्दिरेभ्यो, संस्थाभ्यः च दत्तं दानं व्यवसायवृद्धयाशया अस्ति। ते न सज्जनाः खलु। सज्जनाः परोपकार रहस्य जानन्तो निष्कामाः, उपकारिणः सन्ति। अतः सर्व मानवाः यथाशक्ति धनेन, अन्नेन, वस्त्रेण निर्धनाना, बुभुक्षितानां सहायतां कुर्वन्तु। अनेन परोपकारेण ते लोके यशः कीर्ति च लप्स्यन्ते तथा अनेन पुण्यमार्गेन परत्र सद्गतिं लप्स्यन्ते। परोपकारं विना मनुष्यस्य जीवनं सुखपूर्णं न भवति। अतः सर्वे: मानवैः परोपकारः अवश्यमेव कर्तव्यः।

Friday, 12 October 2018

भारतवर्ष पर संस्कृत में निबंध

भारतवर्ष पर संस्कृत में निबंध

भारतवर्ष पर संस्कृत में निबंध

Bharat Varsh Sanskrit Nibandh

भारतभूमिः अस्माकं मातृभूमिरस्ति। सा अस्माकं प्राणैरपि प्रिया अस्ति। भारतस्य अन्यत् नाम 'हिन्दुस्थानम्’ अपि वर्तते। पुरा अस्य प्राचीन नाम' आर्यावर्तः आसीत्। अत्र दुष्यन्तो नाम राजा बभूव। तस्य महान् वीरः पुत्रः भरतः' नामासीत्। तस्य नाम्नां अस्य देशस्य नाम 'भारत' जातम्। 

'भरतस्येदं भारतम्' इति कथ्यते। भारतवर्षस्य स्थानं विश्वस्य सर्वेषु देशेषु प्राचीनतम, विशिष्टतमञ्च अस्ति। भारत देश: अतीव विस्तृतः अस्ति। अस्य उत्तरस्यां दिशि विशालः, उन्नतः च हिमालयः विद्यते, यः प्रहरीव भारतं रक्षति। अस्मात् पर्वततात् अनेकाः नद्यः वहन्ति, देशस्य भूभागं सिञ्चन्ति च। अस्य दक्षिणस्यां दिशायां सागर: स्वजलैः अस्य चरणौ सतत् प्रक्षालयति। भारतवर्ष प्रकृतेः रम्यं स्थानं वर्तते। अस्य मनोहरं रूपं जनानां चेतांसि आकर्षति। अत: प्रतिवर्षं अत्र अनेके पर्यटकाः विदेशादपि आगच्छन्ति। आगरास्थितः ‘ताजमहल: सर्वेषां पर्यटकानामाकर्षण अस्ति।

भारतवर्षे विभिन्नजातीयाः, विभिन्नधर्मसम्प्रदायानां जना: वसन्ति। सर्वे परस्परं स्नेहेन व्यवहरन्ति। अस्माकं देशस्य सर्व सैनिकाः देशरक्षणाय सदा तत्परा: दृश्यन्ते।

अस्मार्क देश: देवपुरुषेभ्योऽपि प्रियः अस्ति। अत्रैव श्रीराम, कृष्ण, विवेकानन्द दयानन्दादयः अजायन्त। महात्मा गाँधी, तिलक-जवाहर लाल नेहरू प्रभृतयः महापुरुषाः भारतभूमेः एव सुताः। 'अब्दुल कलाम' नाम वैज्ञानिकः, सत्पुरुषः च भारतस्य एव सुपुत्रः अस्ति। एतादृशानां महापुरुषाणां प्रयत्नैरेव अस्माकं देशः उन्नतिपथं प्रयाति। एवंविधा: महापुरुषाः ‘भारतीयाः सन्ति एतत् सौभाग्यं खलु। 

वयमपि भारते उत्पन्नाः अभवाम। वयम् अत्र वसाम; अत: अस्माकं एतत् परम कर्तव्यं यत् मनसा, वाचा, कर्मणा भारतं रक्षेम, अस्य उन्नतिं च कुर्याम।
हिमालय पर संस्कृत निबंध। Himalaya Par Sanskrit Nibandh

हिमालय पर संस्कृत निबंध। Himalaya Par Sanskrit Nibandh

हिमालय पर संस्कृत निबंध। Himalaya Par Sanskrit Nibandh

Himalaya Par Sanskrit Nibandh
हिमालस्य नाम्नि एव अस्य अर्थः विद्यते। अयं हिमस्य आलय: स्थानम् अस्ति अतः अयम् ‘हिमालयः' कथ्यते। हिमालयः भारतस्य उत्तरस्यां दिशि वर्तते। अयं पर्वतः अतीव विशालः अत्युन्नतः चास्ति। हिमालयः संसारे सर्वेभ्यः पर्वतेभ्यः उन्नतोऽस्ति अत: अयम् पर्वतराजोऽपि कथ्यते। अस्य अनेकानि शिखराणि आकाशं स्पृशन्ति। हिमालयः भारतस्य रक्षकः अस्ति। अयं भारतस्य प्रहरी इव उत्तरदिशायां स्थितः रिपुभ्यः भारतं रक्षति।

इदमपि कथ्यते यत् हिमालयः भगवतः शंकरस्य निवासस्थानमस्ति। (हितं) शं करोति इति शंकरः। शंकरस्य अर्थः हितकारी। हितकर्ता, कल्याणकर्ता शंकर: अस्मात् पर्वतात् सुख-समृद्धि सर्वेभ्यः प्राणिभ्यः यच्छति। दक्षिणसागरात् ये पयोदाः अत्र आगच्छन्ति ते हिमालयस्य उच्चैः शिखरैः भूमौ च वर्षन्ति।

हिमालयपर्वतात् अनेकाः नद्यः प्रवहन्ति। यथा गंगा, यमुना, विपाशा, चन्द्रभागा, इरावती प्रभृतयः। एताः नद्यः भारतस्यं भूसंचने महत्य: उपयोगिन्य: सन्ति। भारतः कृषिप्रधान देशः अस्ति, अत: नदीभिः सिंचिता इयं भूमि: शस्यश्यामला, अन्नप्रदा च भवति। हिमालयात् वयं बहुविधं काष्ठं, नानाविधानि औषधानि च लभामहे। अनेकानि बहुमूल्य रत्नानि अपि हिमालयात् एव प्राप्नुमः। नूनं, हिमालय: भारताय अतीव उपयोगी पर्वतः अस्ति।

अस्मिन् पर्वते अनेकानि दर्शनीयानि तीर्थस्थानानि अपि सन्ति। अत्र प्रतिवर्ष भवनजना: बदरीनाथ-केदारनाथादीना मन्दिराणां दर्शनाय आगच्छन्ति। अद्यपि अत्र अनेके मुनय: वसन्ति, तपस्तपन्ति च। हिमालयस्य गौरवं महदस्ति। अस्य रक्षणं, भारत रक्षायै अतीव आवश्यकम् अस्ति। अतः अस्य रक्षायै वयं सर्व भारतीयाः तत्पराः भवेम।