एको रस: करुण एव संस्कृत निबंध / Eko Rasah Karun Ev Sanskrit Essay एको रस: करुण एव संस्कृत निबंध: मानवस्य जीवनं विविधभावानां एकमभूतपूर्व मिश...
एको रस: करुण एव संस्कृत निबंध / Eko Rasah Karun Ev Sanskrit Essay
एको रस: करुण एव संस्कृत निबंध: मानवस्य जीवनं विविधभावानां एकमभूतपूर्व मिश्रणं वर्तते । कदाचिदस्मिन् राग: कदाचिद् विरागः,कदाचित् हर्षः कदाचिचशोको भवति। अन्यस्मिन् काले आकर्षणमपरस्मिन् च विकर्षणं दृश्यते । एतस्मादेव हेतो: काव्यशास्त्रकारैः सूक्ष्मेक्षिकया विचार्येव मानवहृदये स्थायिभावानां स्थिति: निर्धारिता दृश्यते । इत्थं विविधानुभूतिचित्रे जीविते विशेषेण प्रभविष्णुर्भाव: शोको यस्य परिपाक: एवालङ्कारिकै: करुणरसत्वेन मतः ।
रसोऽयं विषयभेदादिवानुभावमुखेन अभिव्यक्तिप्रकारभेदात् बहुविधतामाकलयति, आलम्बनभेदादाश्रयभेदाच वैचित्र्यमावहन्नयं नैकधा द्रावयति हृदयम्,पितृपुत्र्योर्धातृभगिन्या तुपुत्रयोर्दम्पत्योः सख्योर्वा परस्परवियोगकृतोऽयमेकोऽपि नैकविवर्तान् गच्छन् , प्राणिनां मनांस्याकुलयति । अनेनैव कारणेन महाकविभवभूतिना स्वकीय उत्तररामचरिते नाटके कथितम्
एको रस: करुण एव निमित्तभेदाद्
भिन्नः पृथक्पृथगिवाश्रयते विवर्तान् ।
आवर्तबुबुदतरङ्गमयान्विकारा -
नम्भो यथा सलिलमेव हि तत् समस्तम् ।।
यथा सलिलमेकमावर्तबुबुदतरङ्गादि भेदात् विविधं प्रतिभाति , तथैव करुण एव रसो वैविध्यं भजते । स एव करुणप्रधाने विप्रलम्भशृङ्गारेऽपि परिणमति । तस्य तीव्रताभिव्यक्ति: ललितासु कलासु भवति । सा तीव्रतयैव च सहृदयानां हृदयावर्जिका भवति।
संस्कृत-साहित्यस्य सूक्ष्मदृष्ट्यावलोकनात् काव्यस्य मूलमपि अयमेव रस इति निश्चीयते। ध्वनिकृतापीदमेव समर्थितम्
काव्यस्यात्मा स एवार्थ
स्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थ:
शोक: श्लोकत्वमागतः ।।
स्थितिरेषा न केवलं संस्कृतसाहित्येऽपितु अन्यास्वपि भाषासु परिलक्ष्यते। महाकविकालिदासेनापि स्वकृतिषु यथावसरं करुणरसस्य परिपाक: कृत: । अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्केऽस्य रसस्य चरमा परिणति: लक्ष्यते
उद्गलितदर्भकवला मृग्य:
परित्यक्तनर्तना मयूराः।
अपसृतपाण्डुपत्रा
मुञ्चन्यभ्रूणीव लताः ।।
किन्तु करुणरसनिस्यन्दे महाकवि: भवभूतिरितरान् कवीश्वरान् अतिशेते। अनेनैव कारणेन कथ्यते समीक्षकै:
"कारुण्यं भवभूतिरेव तनुते" इति
अस्य महाकवेः करुणरसोद्रेकमालोक्यैवार्यासप्तशत्यामपि श्री गोवर्धनाचार्येण कथितम्
भवभूते: सम्बन्धात् भूधरभूतेव भारती भाति।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा।।
संस्कृत-साहित्ये यानि कान्यपि नाटकानि महाकाव्यानि वा निर्मितानि तेषु प्राय: शृङ्गारः,वीरोवाङ्गिरसत्वेन गृहीतः । क्वचित् क्वचिच्च वीरस्य रौद्ररसस्य वा पुष्टये करुणोऽपि लक्ष्यते। स्वयमेव भवभूतिनापि महावीरचरितेमालतीमाधवे च क्रमश: वीरस्य शृङ्गारस्य च परिपाक: प्रदर्शित:,किन्तु उत्तररामचरिते तु कारुण्यमेवाङ्गित्वेन स्वीकृतम् । अस्य रसस्य अभिव्यञ्जनेअनुपम एवासौ। भवभूतिनामानवस्य अन्त:स्थितेर्यावत् सूक्ष्ममनोवैज्ञानिकञ्च विश्लेषणं कृतं तावत् तुअन्यत्र सुदुर्लभमेवास्ति।
कतिपयानि उदाहरणान्यत्र प्रस्तूयन्ते अस्य मतस्य परिपोषणे।
उत्तररामचरिते प्रथमेऽङ्के चित्रदर्शनेन स्मृतिपथं समागच्छतामतीतानां वृत्तान्तानां स्मरणेन करुणरसस्य प्रवाहो दर्शनाय
जीवत्सु तातपादेषु नूतने दारसंग्रहे ।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा: गताः।।
स्वबाल्यकालस्य पितृ-मातृस्नेहसिक्तान् दिवसान् स्मारं स्मारं कस्य जनस्य नावर्जयति चेतः।
एवमस्मिन्नेवाळे सीताहरणे सति जनस्थाने मर्यादापुरुषोत्तमस्यापि रामस्य दशा कीदृशी आसीत्,सा कारुण्यपूर्णा स्थिति: चित्रदर्शने लक्ष्मणेनेत्थं वर्ण्यते
अथेदं रक्षोभिः कनकहरिणच्छाविधिना
तथा वृत्तं पापैर्व्यथयति तथा क्षालितमपि ।
जनस्थाने शून्ये विकलकरणैरार्यचरितै
रपि ग्रावा रोदित्यपि दलति वजस्य हृदयम् ।।
सीतायाः वियोगे रामस्येशी दयनीया स्थिति: आसीत् , यत् ग्रावापि रोदिति स्म वजस्यापि हृदयं विदीर्यते स्म।
पुनः तृतीयांकस्यारम्भे सीतावियोगजन्यदीर्घशोकसन्तापेन रामस्य दशाऽनिर्वचनीया सजाता। यदा साधारणोजनो विपत्तिग्रस्तो भवति , सतुमुक्तकण्ठेनरोदितुंप्रभवति,किन्तु राज्ञोरामस्य तुईदृशी दशा नासीत्,सतुउच्चस्वरेण रोदितुमपिनाशक्नोत्। राज्ञोऽन्यथाचरणे लोक मर्यादाया: भङ्ग : जायते ,लोकसमक्षे तु राज्ञाऽऽदर्शरूपेण भवितव्यः , किन्तु लोहधातुरपि तापातिशयेन द्रवति,का नाम कथा मानवस्य । अतएव प्रत्यक्षरूपेण नैव राम : उचस्वरेण रोदिति परं कारुण्यं तस्यान्त:करणमाकुलयति घनांच व्यथां तनयति
अनिर्भिन्नो गंभीरत्वाद् अन्तर्गुढघनव्यथः ।
पुटपाक-प्रतीकाशो रामस्य करुणो रस:।।
उत्तररामचरिते सीतायाः परित्यागादनन्तरं तृतीयांके तु करुणरसः परां काष्ठां गत इति प्रतीयते। स्वयं रामएव स्वकीयां शोकव्यथापूर्णां दशां एव प्रकटयतिदलति हृदयं शोकोद्वेगाद् द्विधा तु न भिद्यते,
वहति विकल: कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनुमन्तर्दाहः करोति न भस्मसात् ।
प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ।। कियत् सुन्दरं सजीवञ्च चित्रणमस्ति। हृदयं प्रस्फुटति,किन्तु द्विधा न भवति,काय: विकलयति,किन्तुप्राणान् न त्यजति,अन्तर्वेदना ज्वलयति किन्तु भस्मसात्न करोति,विधि: मर्मस्थलेषु प्रहरति,किन्तु जीवन-सूत्रं न छिनत्ति। रामस्येदृशीं दशां दृष्ट्वा कस्य सहृदयस्य हृदयं न गच्छति विकलताम् । एवञ्च
हा हा देवि ! स्फुटति हृदयं ध्वंसते देहबन्ध: ,
शून्यं मन्ये जगदविरल ज्वालमन्तवलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवाऽन्तरात्मा,
विष्वङ्मोह: स्थगयति कथं मन्दभाग्य: करोमि।।
श्लोकेऽस्मिन् रामस्यधीरताया: बन्धस्त्रुटित: , सहजधीरतां विमुच्यऽऽक्रोशति सोऽपि।
एते श्लोका: तु दिङ्मात्रेणैवात्रोदाहृताः । अस्मिन् नाटके तु स्थले-स्थले करुणरसस्य प्रभावोत्पादिकाऽभिव्यञ्जना वर्तते । वस्तुत: भवभूति: करुणरसस्य आचार्य एव । करुणप्राधान्यवादिना भवभूतिनोदात्तस्य दाम्पत्यप्रेम्ण: अभिव्यञ्जनं करुणरसस्य एव अङ्गत्वेन कृतम्। करुणरसनिष्यन्दे अमुं महाकविं अन्य:कोऽपि महाकवि: न अतिशेते।
COMMENTS