हनुमान जी पर संस्कृत निबंध (Sanskrit Essay on Hanuman)
हनुमान श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते। अस्य माता अञ्जनादेवी। पिता केसरिः। हनूमान्सुग्रीवस्य सचिवः आसीत्। रामभक्तः हनुमान लङ्कां प्रविश्य सीतायाः शोधं कृतवान्। लङ्काप्रवेशसमये सिंहिका, लङ्किणी इत्याद्यसुरशक्तीः जित्वा सीतां दृष्ट्वा आभरणविशेषंचूडामणिं सम्प्राप्य लङ्कादहनं कृत्वा श्रीरामस्य सकाशमागत्य शुभवार्तामब्रवीत्।
वायुपुत्रः बाल्यकाले फलभ्रान्त्यासूर्यं खादितुम् उत्पतनमकरोत्। तदा अनर्थः भविष्यतीति हेतोः इन्द्रः वज्रायुधेन अञ्जनेयं प्रहरति। तदा हनूप्रदेशः विकृतः सन् बालः आञ्जनेयः मरणमवाप। तदा एव सः हनुमान इति नाम प्राप्तवान्।
पुत्रवियोगेन सन्तप्तः वायुदेवः स्वकार्यात् विमुखोऽभूत्। तदाब्रह्मदेवः आञ्जनेयस्य जीवदानं कृत्वा इतः परं येन केनापि वा आयुधेन आञ्जनेयस्य मरणं मा भवतु इति वरं दत्तवान्। तदारभ्य हनूमान् चिरञ्जीवी अभवत्। बाल्यकाले आञ्जनेयः ऋष्याश्रमं प्रविश्य तान् बहु पीडयति स्म। तदा कुपिता ऋषयः 'श्रीरामसन्दर्शनपर्यन्तम् आञ्जनेयस्य कृते स्वस्य शक्तेः ज्ञानं मा भवतु इति शापं दत्तवन्तः।