नीम वृक्ष पर संस्कृत निबंध (Essay on Neem Tree in Sanskrit)
नीम वृक्ष पर संस्कृत निबंध: अयं निम्बवृक्षः (Neem Tree) भारते वर्धमानः कश्चन वृक्षविशेषः। अयं वृक्षः समतलभूमौ वर्धते। अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते। अयं बहूपयोगी वृक्षः इत्येव प्रसिद्धः अस्ति। युगादिपर्वणः अवसरे निम्बगुडस्य सेवनं परम्परानुगुणं प्रवर्तते भारते। यत्र अधिका वृष्टिः (Rain) जायते तत्र अयं वृक्षः न वर्धते। कासाराणां, तडागानां, सरोवराणां वा तीरे समृद्धरूपेण वर्धते अयं निम्बवृक्षः। अस्य वृक्षस्य सर्वाङ्गानि अपि औषधत्वेन उपयुज्यन्ते। अस्य पर्णाणि संयुक्तगात्राणि। अयं वृक्षः सदा हरिद्वर्णीयः।
अस्य पर्णानाम् (Leaf) अञ्चलः (अन्तिमभागः) क्रकचः इव तीक्ष्णः भवति। अस्य निम्बवृक्षस्य त्वक् कपिलवर्णीयं भवति। पर्णानां कक्षे पुष्पाणां गुच्छं भवति। पुष्पाणि मधुगन्धयुक्तानि, श्वेतवर्णीयानि च भवन्ति। मार्चमासतः मेमासाभ्यन्तरे पुष्पाणि जायन्ते। सेप्टेम्बर्-तः नवेम्बर्-मासाभ्यन्तरे फलानि वर्धन्ते । फलानि (Fruits) मन्दपीतवर्णीयानि। अस्मिन् एव अवधौ बीजानां सङ्ग्रहणम् अपि प्रचलति।
अयं निम्बवृक्षः आङ्ग्लभाषया Neem इति उच्यते। हिन्दीभाषया “नीम” इति, बङ्गभाषया “निम्” इति, तेलुगुभाषया “वेपचेट्टु” इति, तमिळ्भाषाया “वेम्बु” इति, मलयाळभाषया “वेप्पु” इति, कन्नडभाषया “बेवु” अथवा “कहिबेवु” इति उच्यते। अस्य निम्बवृक्षस्य रसः तिक्तः। अस्य निम्बवृक्षस्य त्वक्, निर्यासः, पर्णं, पुष्पं, पल्लवं, बीजं, फलं, बीजस्य तैलं, पिण्याकः, रसः च औषधत्वेन उपयुज्यते।अस्य फलानि कीटनाशकानि अपि। अस्य पर्णानां शलाकाः दन्तधावनार्थं दन्तकूर्चाणां स्थाने उपयुज्यन्ते।