बरगद पर संस्कृत निबंध (Essay on Banyan Tree in Sanskrit)
बरगद पर संस्कृत निबंध: वटवृक्षः अत्यन्तं विशालः वृक्षः। अस्य वृक्षस्य त्वक्, पर्णं, मूलं, फलं, रसः चापि औषधत्वेन उपयुज्यन्ते। वटवृक्षः (बरगद) कश्चित् महावृक्षः भवति। अस्य न्यग्रोधः इत्यपि नाम अस्ति। एतत् भारतस्य राष्ट्रवृक्षः। अस्य पत्राणि घणानि स्फुरणानि च भवन्ति। अस्मिन् महावृक्षे फालानि लघूनि पक्षिप्रियाणि सम्भवन्ति किन्तु पुष्पाणि न भवन्ति इति विशेषः। अयं श्लोकः वृक्षस्य गरिमां सूचयति। अयं वटवृक्षः अत्यन्तं विशालः वृक्षः । तस्मात् सः वृक्षगणे अन्तर्भवति। औषधीयानां गुणानां कारणात् औषधीयानां सस्यानां गणे अपि अन्तर्भवति। अस्य वटवृक्षस्य रसः कटुः तथा च कषायः।
आङ्ग्लभाषया Banyan Tree इति कथयन्ति। प्राचीनकाले अस्य वृक्षस्य अधः वनिजः वाणिज्यव्यवहारन् कुर्वन्ति स्म। अतः अस्य आङ्ग्लभाषया एतत् नाम आगतम्। सस्यकुले अयं Ficus Bengalensis कुले अन्तर्भवति। अयं हिन्दीभाषया“बड्” इति, तेलुगुभाषया“मरिचेट्टु” इति, तमिळ्भाषया “आलमरम्” इति, मलयाळभाषया“वटम्” इति, कन्नडभाषया “आलद मर” इति च उच्यते। अयं बृहत्प्रमाणे वर्धमानः वृक्षेषु अन्यतमः। जगतः अतिबृहद्वटवृक्षः कोल्कोतानगरे अस्ति। अयं वटवृक्षः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः। अयं वृक्षः पुराणानां कालात् अपि परमपवित्रः इति परिगण्यमानः अस्ति। अश्वत्थवृक्षः इव अयं वटवृक्षः अपि पूज्यते । तथैव औषधीयसस्यत्वेन अपि परिगण्यते अयम् । अस्य त्वचि “ट्यानिन्” नामकः रासायनिकः पदार्थः अस्ति । अस्य वटवृक्षस्य “बहुपादः” इत्यपि नाम अस्ति।