हॉकी पर संस्कृत निबंध (Essay on Hockey in Sanskrit)

Admin
0

हॉकी पर संस्कृत निबंध (Essay on Hockey in Sanskrit)

हॉकी पर संस्कृत निबंध: यष्टिकन्दुकक्रीडा(Hockey) एका प्रसिद्धा कन्दुकक्रीडा वर्तते। वर्तमानसमये हॉकी क्रीडा भारतदेशस्य राष्ट्रियक्रीडा वर्तते। हॉकी-क्रीडा द्वयोदलयोर्मध्ये सम्पद्यते। प्रतिदलं क्रीडकसंख्या ११-११ भवति। एतेष्वेकादशक्रीडकेषु ५ अग्रक्रीडकाः (फारवर्ड), ३ अर्धपृष्ठक्रीडकाः (हाफबैक), २ पूर्णपृष्ठक्रीडकाः (फुल बैक) भवन्ति तथा १ सीमरक्षको (गोलकीपर) भवति। एकैकोऽत्र दलनायको भवति। क्रीडाक्षेत्रे पूर्वं मध्यभागे ५ अग्रक्रीडका स्तेषां पृष्ठे ३ अर्धपृष्ठक्रीडकास्तेषां पृष्ठे सीमस्थलस्योभयोः पार्श्वयोः २ पूर्णपृष्ठक्रीडकौ (रक्षकौ) मध्ये सीमस्थले च १ सीमरक्षकः’ इत्थं सर्वे क्रीडकास्तिष्ठन्ति।

हॉकी पर संस्कृत निबंध (Essay on Hockey in Sanskrit)

दलस्य क्रीडकेषु परस्परं सामञ्जस्य मत्यावश्यकं विद्यते। सीमरक्षाकस्त्वरित निर्णयकारी, धैर्य-स्फूर्ति- प्रतिभासम्पन्नश्च भवेत्। जय -पराजययोः श्रेयस्तदुपर्येव भवति। रक्षकौ कन्दुकं सीम- प्रवेशाद् वारयतः। एतौ सीमरक्षकेण तथा पुरोवर्तिक्रीडकैः सह सर्वथा सहयोगं कुरुतः। एतयोः स्थानं रक्षापङिक्तरपि कथ्यते। ततोऽग्रे स्थिताः क्रीडका आक्रमण-पङीक्त-रक्षका भवन्ति। ते सीमभागे प्रविशन्तं कन्दुकमवरुदध्य पुरोवर्तिभ्यः प्रयच्छन्ति स्व-स्व-स्थाने स्थिताश्च रक्षणं कुर्वन्ति। कन्दुकं ताडयित्वा यथावश्यकं क्रीडकाय प्रापणमेवात्र कौशलमस्ति। 

(1) क्रीडा-समयः - अस्याः क्रीडायाः समयःअ ७५ मिनटात्मको विद्यते। प्रारम्भात ३५ मिनटानन्तरं ५ मिनटात्मको विरामो भवति। मध्यविरामात् परं दलयोः क्षेत्रपरिवर्तनं विधीयते पुनश्च ३५ मिनटं यावत् क्रीडा प्रचलति

(2) कन्दुकः (गेंद) - हॉकी क्रीडायाः कन्दुकः कठोरो भवति। श्वेतचर्मणा निर्मितस्यास्य भारः ५ १/२ औसतोऽधिको न भवेत् । अस्य परिधिः ६८/१३ इंचत आरभ्य ६३/४ इंचपर्यन्तः स्वीक्रियते। 

(3) यष्टिः (हॉकी-स्टिक) - अस्याः शिरोभागस्तीक्षणो न भवति तथा तत्र कीदृशमपि लोहवरणादिकं न क्रियते। प्रायेण २ इंचमिता स्थूलता समुचिता मन्यते। अधोभागो वलितः, पृष्ठभागो वर्तुलोऽग्रभागः समतलस्तथाऽस्याः समग्रो भारः १२ औसत २८ औस-पर्यन्त उत्तमो गण्यते। 

(4) पादाच्छादकद्वयम् (पैड) - सीमा-रक्षकस्य पदयो रक्षार्थं पादाच्छादकयोः प्रयोगो भवति ययोर्विशिष्टनिर्मितेः कारणात् कन्दुकाघाताद् रक्षा भवति। 

(5) उपानहौ -क्रीडकस्य पदयोर्ये उपानहौ भवतस्ते कीलकरहिते चर्मखण्डसंयुते च समुचिते मन्येते। 

क्रीडायाः क्षेत्रस्य द्वयोरपि भागयोद्वौ द्वौ निणयिकौ भवतः। तयोरेकः समस्य विवरणं कन्दुकस्य सीम-प्रवेशगणनां च धारयति। निर्णायक एव सत्यपराधे त्रृटौ वा दण्डयति तथा यथोचितं निर्णयं प्रस्तौति। तस्य निर्णायपालनमावश्यकम्। यष्टिक्रीडायाः प्रतियोगितावसरे प्रत्येकं क्रीडकेन यष्टिद्वयं स्वसमीपे प्रयोगार्थं संरक्षणीयम्। येन क्रीडनकाले द्वितीयस्याः प्रयोगः शीघ्रं कर्तुं शक्येत। केचन क्रीडका मनाग् भारवतीं यष्टिं केचन च सामान्यभारशालिनीं यष्टिं स्वीकुर्वन्ति। स्व-स्वबाह्वनुसारं क्रीडा यष्टिः प्रयोक्तव्या। वस्त्राणि सङ्कुचितानि न भवेयुः उपानहावपि भाररहिते धारणीये, येन धावने सौविध्यं सम्पद्येत। क्रीडायाः क्षमता-वृद्धये प्रत्यहं धावन-रज्जुकूर्दन-यष्टिभ्रामण-हस्त-पाद ग्रीवासञ्चालनादिव्यायामाः कर्तव्याः।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !