जलस्य महत्वम् संस्कृत निबंध (Jalasya Mahatvam in Sanskrit) जलं शीतलं भवति। अतः यत्र यत्र प्राप्यते तत्र शीतलता एव अनुभूयते। जलस्य प्रभावेण मरुस्थले अ
जलस्य महत्वम् संस्कृत निबंध (Jalasya Mahatvam in Sanskrit )
जलस्य महत्वम् संस्कृत निबंध: वैज्ञानिकानाम् अभिप्रायेण जलम् इति द्रवरूपः पदार्थः आम्लजनक-जलजनकयोः संयोगेन सम्भवति। भूतलस्य प्रायः प्रतिशतं सप्ततिभागः जलेनैव आवृतः। भूतले विद्यमानस्य जलस्य प्रतिशतं नवतिभागः समुद्रेषु एव दृश्यते। मानवशरीरेऽपि प्रतिशतं षष्टिभागः जलेनैव पूरितः। जलेन विना मानवानां जीवनम् अतीव दुष्करं भवति। पृथिव्यां विद्यमानस्य जलस्य मूलानि वर्षा, हिमः, नद्यः, सरितः, पल्वलानि, भूमावन्तर्गतं जलम् इत्येतानि भवन्ति।
जलं शीतलं भवति। अतः यत्र यत्र प्राप्यते तत्र शीतलता एव अनुभूयते। जलस्य प्रभावेण मरुस्थले अपि वृक्षाः उद्भवन्ति। मृदुता, पवित्रता, गतिशीलता, चञ्चलता इत्यादयः जलस्य स्वभावाः सन्ति। किन्तु पृथिव्याः ७५% स्थलं जलयुक्तं वर्तते । तथापि तत् सम्पूर्णं जलं पानार्थं योग्यं नास्ति । तस्य जलस्य केवलं १% जलमेव पानार्थम् अस्ति । अतः यत्र पेयजलं प्राप्यते । तत्र जनैः स्वस्य आवासव्यवस्था कृता अस्ति । नद्याः तटे बहवः तीर्थस्थानानि सन्ति । अतः तत्र जलस्य महत्त्वं भवति ।
संस्कृते जलस्य बहूनि नामानि सन्ति। यथा – उदकं, नीरं, वारि तथा च तोयम्। वयं शुद्धं जलं केवलं वर्षायाः विन्दामः।जलस्य पानेन शीतलता अनुभूयते, उत्साहः च वर्धते। पानाय, भोजननिर्माणाय, भोजनाय च जलस्य आवश्यकता अस्ति। स्नानाय, वस्त्रप्रक्षालनाय, गृहस्वच्छतायै च जलम् उपयुज्यते। नगरस्वच्छतायै, उद्योगेभ्यः, पशुपालनाय च जलस्य आवश्यकता अस्ति। पृथिव्यामुपलभ्यमानस्य जलस्य द्विप्रतिशतभागस्य अपेक्षया न्यूनमेव प्राणिनां मनुष्याणां च जीवनोपयोगाय योग्यं भवति।
पृथिव्यां जलं पर्याप्तम् अस्ति। अतः पृथिवी नीलग्रहः इति उच्यते। महासागराणां, समुद्राणां च जलं लावण्यं वर्तते। तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते। जलम् एकं चक्रीयसंसाधनं वर्तते। पौनःपुन्येन जलस्य उपयोगः क्रियते। अस्मिन् जलचक्रे जलं महासागरतः धरातलं, धरातलतः महासागरं प्राप्नोति। इदं चक्रं सततं कार्यरतम् अस्ति। पृथिव्यां जीवनाय आवश्यकतत्त्वं वर्तते। जलस्य वितरणं पृथिव्याम् असमानम् अस्ति। केषुचित् क्षेत्रेषु जलम् अधिकमात्रायां प्राप्यते।
COMMENTS