पीपल वृक्ष पर संस्कृत निबंध (Essay on Peepal Tree in Sanskrit) अश्वत्थवृक्षः (Peepal Tree) भारतीयानां सर्वेषां पवित्रतमः वृक्षः इति परिगणितः। अयम् अश
पीपल वृक्ष पर संस्कृत निबंध (Essay on Peepal Tree in Sanskrit)
पीपल वृक्ष पर संस्कृत निबंध: अश्वत्थवृक्षः (Peepal Tree) भारतीयानां सर्वेषां पवित्रतमः वृक्षः इति परिगणितः। अयम् अश्वत्थवृक्षः आङ्ग्लभाषयाSecred Fig इति उच्यते। सस्यकुले अयं Ficus religiosa इति कुले अन्तर्भवति।एशियाखण्डस्य दक्षिणभागे अयं वृक्षः अधितया रोहन्ति। बोधिवृक्षः इति अस्य अपरं नाम। अस्य वृक्षस्य अधः एव तपः कृत्वा सिद्धार्थं बुद्ध अभवत् इति प्रतीतिः अस्ति। हिन्दीभाषया पीपल इत्यपि कथयन्ति।
अश्वत्थवृक्षः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः। पुराणकालतः अपि अयम् अश्वत्थः देवानां निवासस्थानम् इति ख्यातः अस्ति। अतः एव अयं वृक्षः सर्वत्र पूज्यभावनया पूज्यते (Worship)। अयम् अश्वत्थः औषधीयसस्यत्वेन अपि परिगण्यते। अस्य वृक्षस्य त्वक्, फलं, पर्णं चापि औषधत्वेन उपयुज्यते। अस्य त्वचि “ट्यानिन्” अंशः अस्ति।
अस्य काण्डस्य दारूणि बहूपयोगाय न भवन्ति। केवलम् इन्धनत्वेन उपयोक्तुं शक्यते। सजीववृक्षस्य काण्डात् कश्चन निर्यासः स्रवति। एषः सुवर्णाभरणनिर्माणे उपयोगार्थं भवति। पञ्च अग्निवृक्षेषु अयम् अन्यतमः। अस्य वृक्षस्य शाखानां सपत्रः परभागः समिद्रूपेण यज्ञयागदिषु उपयुज्यते। अस्य मूलस्य त्वक् आयुर्वेदीयौषधनिर्माणे उपयुज्यते । अयं श्लोकः वृक्षस्य गरिमां सूचयति।
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्विंशतितमः(२६) श्लोकः ।
अयम् अश्वत्थः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः। अस्य अश्वत्थवृक्षस्य रसः (Juice) कषायः। अयं गुरुगुणयुक्तः, रूक्षः, वीर्यशीतः च । पुराणकालतः अपि अयम् अश्वत्थः देवानां निवासस्थानम् इति ख्यातः अस्ति । अतः एव अयं वृक्षः सर्वत्र पूज्यभावनया पूज्यते। अयम् अश्वत्थः औषधीयसस्यत्वेन अपि परिगण्यते । अस्य वृक्षस्य त्वक्, फलं, पर्णं चापि औषधत्वेन उपयुज्यते। अस्य त्वचि “ट्यानिन्” अंशः अस्ति।
COMMENTS