नीबू पर संस्कृत निबंध (Essay on Lemon in Sanskrit)
नीबू पर संस्कृत निबंध: एतत् निम्बूकम् अपि भारते वर्धमानः कश्चन फलविशेषः। एतत् निम्बूकम् (Lemon) अपि सस्यजन्यः आहारपदार्थः। एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते। प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य निम्बूकस्य उपयोगः क्रियते एव। एतत् निम्बूकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते। अस्य निम्बूकसस्यस्य फलं, त्वक्, पत्रं च उपयुज्यते। अन्यानि अङ्गानि न उपयुज्यन्ते। अनेन निम्बूकेन अवलेहः, पेयम्, उपसेचनम् इत्यादिकं सज्जीक्रियते। चित्रान्नसदृशाणाम् उपहाराणां निर्माणे अपि निम्बूकम् उपयुज्यते। एतत् निम्बूकं सौन्दर्यवर्धकरूपेण अपि उपयुज्यत।
निम्बूकस्य रसः एव निम्बूकफलरसः स च आङ्ग्लभाषया Lemon Juice इति उच्यते। निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम्। अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते। तादृशः फलरसः बहुकालं यावत् न नश्यति। यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते। भारते तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति। घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते।