Essay on Hanuman in Sanskrit : In this article we are providing हनुमान पर संस्कृत निबंध which is also searched as " Sanskrit Nibandh...
Essay on Hanuman in Sanskrit: In this article we are providing हनुमान पर संस्कृत निबंध which is also searched as "Sanskrit Nibandh on Hanuman" This Essay on Hanuman in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
हनुमान पर संस्कृत निबंध Essay on Hanuman in Sanskrit
मारुतिं कः न जानाति ? तस्य कथा रामायणे महाभारते च अस्ति । आञ्जनेयः, हनुमान्, वायुपुत्रः, केसरीनन्दनः इति तस्य नामान्तराणि सन्ति । अञ्जनादेवी तस्य माता, पिता च केसरी । अञ्जनागिरौ तस्य जन्म अभवत् । बाल्यात् एव मारुतिः एकः धीरः बालकः आसीत् । एकदा सः सूर्यदेवं आम्रफलम् इति मत्वा तं खादितुं प्रयत्नम् अकरोत् । सः किष्किन्धायाः महाराजस्य सुग्रीवस्य अमात्यः आसीत् । सः करुणालुः महान् स्वामिभक्तः च।
पुरा अयोध्यायां दशरथः नाम राजा आसीत्। तस्य पुत्रः श्रीरामः। एकदा राघवः वनवासं कर्तुं सीतालक्ष्मणाभ्यां सह दण्डकारण्यं प्रति गच्छति । तत्र लंकाधिपतिः रावणः नाम राक्षसः तस्य पत्नीं जानकीम् अपहरति । दुःखितः रामः सर्वत्र वैदेहीम् अन्विषति । अन्ते सः किष्किन्धां प्रति आगच्छति । वायुपुत्रः श्रीरामं लक्ष्मणं च सुग्रीवस्य समीपम् आनयति । तत्र सुग्रीवः श्रीरामस्य सर्ववृत्तान्तं श्रुणोति । सर्वे सीतायाः अन्वेषणं कर्तुं गच्छन्ति । सर्वत्र सीताम् अन्विषन्ति, तथा च सर्वे समुद्रतीरं प्राप्नुवन्ति । अतः हनूान् समुद्रं लङ्कयति । रावणस्य लंका प्राप्नोति । लंकायाः रक्षणार्थं लंकिणी नाम एका राक्षसी अस्ति । सा आञ्जनेयं पश्यति तथा पीडयति, तं खादितु अपि आगच्छति । तदा हनूान् युद्धे तां जयति, लंका प्रविशति ।
अशोकवने भयकंरराक्षसीभिः परिवृतां सीतादेवीं पश्यति । रामस्य अंगुलीयकं यच्छति अहं रामदूतः मारुतिः सीतान्वेषणाय आगतः अस्मि इति स्वपरिचयं करोति । शीघ्रेव श्रीरामः रावणं मारयति । त्वाम् अयोध्यां नयति इति तां सान्त्वयति । तदनन्तरं दशाननस्य मनसि भीतिं जनयितुं दहनं करोति । ततः किष्किन्धां प्रति आगच्छति सीतायाः सन्देशं कथयति च । श्रीरामः कपिसेनासहितः लंकाम् आगत्य दशकण्ठस्य हननं करोति । सीतासमेतः सः अयोध्यां प्रति आगच्छति । एवं कपिवरः मारुतिः सीतारामयोः पुनः मेलने साहाय्यं करोति स्वस्वामिभक्तिं प्रकटयति च । अतः सः रामभक्तः मारुतिः इति प्रसिद्धः ।
COMMENTS