संस्कृत भाषा में चील पर निबंध (Essay on Eagle in Sanskrit)

Admin
0

संस्कृत भाषा में चील पर निबंध (Essay on Eagle in Sanskrit)

संस्कृत भाषा में चील पर निबंध: श्येनः (Eagle) कश्चन महापक्षी। श्येनस्य ७४ प्रभेदाः वर्तन्ते इति जीवविज्ञानिनः वदन्ति।श्येनः आकारेण महान् भवति। सः मांसं खादति। मांसखादने तस्य चञ्चूः (Beak), पादनखाश्च अनुकूलाः भवन्ति। अन्यपक्षिणां चञ्च्वाः अपेक्षया श्येनस्य चञ्चूः भारयुता बलिष्ठा च भवति। प्रायेण श्येनः कृष्णवर्णीयः भवति। श्येनः आकाशे उपरिभागे एव डयते। तस्य नेत्रं तीक्ष्णं भवति। मारिषस्य श्येनस्य नेत्रस्य प्रमाणं मानवनेत्रस्य प्रमाणात् द्विगुणितं वर्तते। श्येनस्य दर्शनशक्तिः मानवस्यापेक्षया चतुर्गुणिता भवति। पुंश्येनस्य अपेक्षया स्त्रीश्येन आकारेण महान् भवति। महावृक्षेषु बहु उपरिभागे श्येनाः नीडं रचयन्ति। प्रायेण श्येनः अण्डद्वयं सृजति। परन्तु प्रथमतया जातः शिशुः अपरम् अण्डं नाशयति। एवं प्रथमशिशुः प्रायेण स्त्री एव भवति, यश्च आकारेण महान् भवति। स्टेल्लर् समुद्रश्येनः प्रायेण ९ के.जि भारयुतः भवति। एषः श्येनेषुः भारतमः। न्यूनभारयुतः श्येनो नाम सौत् निकोबार् सर्पेण्ट् श्येनः। सः 450 ग्रां परिमितः भवति।

संस्कृत भाषा में चील पर निबंध (Essay on Eagle in Sanskrit)

मुख्यरूपेण श्येनानां चत्वारः प्रभेदाः प्रसिद्धाः। मीनश्येनाः, लघुपादश्येनाः, सर्पश्येनाः महारण्यश्येनाः चेति। मीनश्येनाः महाश्येनाः। उत्तरअमेरिकादेशे प्रायेण समुपलभ्यन्ते। एते समुद्रजीविनः भुक्त्वा जीवन्ति। लघुपादश्येनाः सर्वत्र वसन्ति। सर्पश्येनाः सर्पं भुञ्जते। एते आफ्रिकाखण्डे एशियाखण्डस्य दक्षिणभागे च वसन्ति।महारण्यश्येनाः अमेरिकाखण्डस्य अरण्येषु भवन्ति।

प्रायेण सर्वेषां देशानां संस्कृतिषु श्येनपक्षी विशिष्टं स्थानम् आवहति। विष्णोः वाहनं गरुडः श्येनस्य चञ्चूं पक्षौ च धरति इति कथा प्रसिद्धा। एटाना इति राजानां कश्चन श्येनः स्वर्गं नीतवान् इति ग्रीक् देशीयकथायां वर्णितं वर्तते।श्येनः साक्षात् सूर्यं द्रष्टुं शक्नोति इति लुकान् इत्यस्य पिल्ली इत्यस्य च मध्यकालीन लेखकयोरभिप्रायः। केनडादेशे श्येनस्य आखेटकं निषिद्धं वर्तते।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !