Monday, 29 August 2022

Essay on Ramakrishna Paramahamsa in Sanskrit (रामकृष्ण परमहंस पर संस्कृत निबंध)

Essay on Ramakrishna Paramahamsa in Sanskrit (रामकृष्ण परमहंस पर संस्कृत निबंध)

रामकृष्ण परमहंस पर संस्कृत निबंध: श्रीरामकृष्णपरमहंसः भारते जन्म कश्चन महान् धर्मोपदेशकः। पश्चिमवङ्गराज्यस्य हुगलिमण्डले कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत। क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः। पितरौ तस्य गदाधर इति नाम अकुरुताम्। बाल्य एवायं स्वकीयासु चेष्टासु असाधारणीं प्रतिभां प्रकटयन्नवर्तत। स्वामिविवेकानन्दस्य गुरुः आसीत् सः। एतौ द्वाऽपि बङ्गनवजगरणस्य तथा विंशशताब्द्याः हिन्दुनवजागरणस्य अग्रगण्यौ। अनेकान् शिष्यान् अध्यात्ममार्गे अग्रे अनयत् रामकृष्णः। तस्य शिष्यसमाजे, भक्तसमाजे च सः भगवतः अवताररूपेण कल्पितः आसीत्।

Essay on Ramakrishna Paramahamsa in Sanskrit (रामकृष्ण परमहंस पर संस्कृत निबंध)

तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्। सहचरैस्साकं ईस्वरभक्तिपरासु क्रीडासु संलग्नः कालमनयत्। तस्य भ्राता रामकुमारः जन्मग्रामात्तं कल्कत्तानगरं नीतवान्। तत्र दक्षीणेश्वरे कस्मिंश्चित् कालीक्षेत्रे गदाधरः अर्चकोऽभवत्। सदापि ईश्वरचिन्तायां निलीनस्य गदाधरस्य शरीरसंस्कारेऽपि श्रद्धा नाऽसीत्। "देहि मे दर्शन"मिति विलपन् देवालयाङ्कणे लुठन्,चेष्टाश्च प्रदर्शयन्नयं जनैः उन्मादी इत्यमन्यत। लोकमुखात् स्वपुत्रमुन्मादिनं श्रुत्वा माता तं जन्मग्राममानिनाय, तस्य विवाहमप्यकारयञ्च। तेनैव निर्दिष्टा शारदामणि नामिका बालिका एवं तस्य धर्मपत्नी अभवत्।

पश्चिमवङ्गस्य लघु लघु ग्रामेऽपि तेन प्रदत्ताः उपदेशाः अतिप्रसिद्धाः आसन्। १८८६ तमे वर्षे रामकृष्णस्य प्रयाणस्य अनन्तरं अनुगामिनः तस्य कार्यमग्रे नीतवन्तः। एतेषाम् अनुगामिनां नेतृत्वं स्वामी विवेकानन्दः कृतवान्। विवेकानन्दः रामकृष्ण मिशन् इति एकां धर्मीयसंस्थां निर्मितवान्। रामकृष्णान्दोलनं भारतस्य अन्यतमं नवजागरणान्दोलनम्। रामकृष्ण मिशन्-संस्थायाः भारते तथा आ विश्वे १६६ शाखाः(२००८ तमवर्षे) विद्यामानाः सन्ति। अस्याः संस्थायाः प्रधानकार्यालयः पश्चिमबङ्गराज्यस्य हावडानगरस्य बेलुर मठे अवस्थितः।

पश्चिमवङ्गराज्यस्य हुगलिमण्डलस्य कामारपुकुरग्रामे १८३६ तमे वर्षे एकः दरिद्र-धर्मनिष्ठ-रक्षणशील-ब्राह्मणपरिवारे रामकृष्णपरमहंसः अजायत । तस्य पितरौ क्षुदिराम चट्टोपाध्याय तथा चन्द्रमणि देवी च आस्ताम्। एतयोः चतुर्थपुत्रः आसीत् अयं रामकृष्णः। कथितम् अस्ति यत् श्रीरामकृष्णस्य जननात् प्राग् पितामातुः जीवने बह्वः अलौकिकघटनाः घटिताः आसन्। शिवलिङ्गतः ज्योतिः तस्याः गर्भे प्रविष्टा इति सन्तानसम्भवा चन्द्रमणि देवी दृष्टवती आसीत् । तस्य पिता क्षुदिरामः तीर्थभ्रमणसमये गयायां गदाधरविष्णोः दर्शनम् प्राप्नोत् । एतस्मात् सः नवजातस्य शिशोः नामकरणं गदाधर इति कृतवान्।

शैशवकाले गदाइ इति नाम्ना परिचितः गदाधरः ग्रामवासीजनेषु अतिप्रीयः आसीत् । अङ्कने तथा मृत्प्रतिमानिर्माणे तस्य दक्षता सहजाता आसीत्। तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्[१५][१६]परन्तु गानवाद्यवादने, यात्राभिनये, धर्मीयोपाख्याने सः पारदर्शी आसीत्। तीर्थयात्री-संन्यासी-पुरणकथाव्याख्याकाराणां संससर्गेण अत्यल्पे वयसि एव पुराण-रामायण-महाभारतं तथा भागवतादिविषयेषु व्युत्पत्तिम् अर्जितवान् गदाधरः। मातृभाषाबाङ्गलायां केवलम् अक्षरज्ञानं तस्य आसीत् ; किन्तु संस्कृतानुधाने समर्थः भूत्वाऽपि सम्भाषणे अपारगः आसीत्। पुरीतीर्थगमनमार्गे कामारपुकुरग्रामे विश्रामरतपथिकजनानां सेवाकार्यं सः अकरोत्। तस्मिन् समये तेषां धर्मीयतर्कवितर्कान् मनसा शृणोति स्म गदाधरः।

श्रीरामकृष्णस्य स्मृतिचारणा इति पुस्तकात् ज्ञायते यत् सप्तमे वयसि एव रामकृष्णस्य आध्यात्मिकभावतन्मयता अगच्छति स्म । एकदा धान्यकृषिभूमौ चलनसमये आकाशे कृष्णमेघस्य उपरि श्वेतबलाकानां सौन्दर्येण मोहितः भूत्वा बाह्यज्ञानशून्यः सः अभूत्। अनन्तरकाले तस्य ताम् अवस्थाम् अनिर्वचनीयानन्दस्य अभिज्ञतारूपेण वणितवान्। बाल्यकाले इतोपि कतिपय वारं तस्य अनुरूपं भावतन्मयता दृश्यते स्म।

१८४३ तमे वर्षे तस्य पिता दिवङ्गतः। समग्रपरिवारस्य परिपालनदायित्वम् अग्रजस्य रामकुमारस्य उपरि आपतितम् आसीत्। इयं घटना गदाधरस्य मनसि गभीरप्रभावं विस्तारितवती। धर्मीयजीवनयापनस्य इच्छा इतोऽपि दृढा अभवत्। नित्यगृहस्य कार्ये, गृहदेवतायाः पूजायां च गदाधरः अधिकसमयं व्ययं करोति स्म। प्रायशः आत्ममग्नः भवति स्म धर्मीयमहाकाव्यपाठसमये।

गदाधरस्य यदा किशोरावस्था तदा परिवारे आर्थिकसङ्कटम् अभवत्। अग्रजः राजकुमारः कोलकातायां एकं संस्कृतपाठशालां आरब्धवान्। अतिरिक्ते समये सः पौरहित्यं करोति स्म । १८५२ तमे वर्षे अग्रजस्य सहायतां कर्तुं गदाधरः कोलकातां गतवान्।

१८५५ तमवर्षे कोलकातायाः अस्पृश्य-कैवर्तसमाजस्य धनी सामन्तपत्नी राणी रासमणि दक्षिणेश्वरप्रदेशे कालीदेव्याः मन्दिरं निर्मितवती। मन्दिरस्य प्रधानार्चकरूपेण रामकृष्णस्य अग्रजः रामकुमारः नियुक्तः आसीत्। गदाधरोपि सहकारी अर्चकरूपेण प्रतिमायाः अलङ्करणं दायित्वेन स्वीकृतवान्। १८५६ तमे वर्षे रामकुमारस्य परलोकप्राप्त्यां सत्यां गदाधरः मन्दिरस्य प्रधानपुरोहितरूपेण अभिषिक्तः जातः। मन्दिरस्य ईषाणकोणे तस्य प्रकोष्ठः आसीत्। जीवनान्तपर्यन्तं सः अस्मिन् प्रकोष्ठे निवासं कृतवान् आसीत्। एवमनुमियते यत् राणी रासमण्याः जामाता मथुरामोहन विश्वास- महोदायेनैव रामकृष्णः नाम प्रदत्तमासीत्। अन्यमतानुसारं, इदं नाम तोतापुरी गुरुणा दत्तमासीत् ।

रामकुमारस्य परलोकगमनोत्तरं रामकृष्णस्य भावतन्मयता अधिका जाता आसीत्। कालीदेवीं मातारूपेण तथा विश्वजननीरूपेण सः प्रत्यक्षितवान्। अस्मिन् समये देव्याः प्रत्यक्षरूपदर्शनाय तस्य मनः व्यकुलम् अभवत्। तस्य विश्वासेन पाषाणप्रतिमाऽपि अन्नग्रहणं करोति स्म। पूजावसरे देव्याः दर्शनम् अप्राप्य सः कदाचीत् उच्चैः क्रन्दनं करोति स्म । रात्रिकाले निकटवर्ती वनं गत्वा सः निर्जने स्थले वस्त्रोपवीत् त्यक्त्वा ध्यानं करोति स्म केचन उक्तवन्तः एषः उन्मत्तः जातः, अपरे तु मन्वन्ते स्म इश्वरप्रेम्नि आकुलः सः।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: