Sunday, 14 October 2018

पुराणानां महत्वं संस्कृत निबंध

पुराणानां महत्वं संस्कृत निबंध

puran-ka-mahatva-sanskrit-nibandh

पुराण-शब्दार्थः- किं तावत् पुराणमिति जिज्ञासायां पुराण-शब्दार्थो बहुधा निरुच्यते। काश्चन निरुक्तयोऽन्न समासतो निर्दिश्यन्ते। (1) पुराणम् आख्यानं पुराणम् इति, अर्थात् प्राचीनानि आख्यानानि पुराणानीति। (2) यस्मात् पुरा हि अनति इदं पुराणम् (वायुपुराण), यत् पुरा सजीवम् आसीत् तत् पुराणम्। (3) जगतः प्रागवस्थाम्। अनुक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम् (सायण, ऐ० ब्रा०, भूमिका), संसारोत्पत्तेः विकासक्रमस्य च बोधकं पुराणम्। (4) पुरार्थेषु आनयतीति पुराणम् (पद्मपुराण), पुरुष-प्रकृत्यादि-पूर्वतत्त्वचिन्तनपरं पुराणमिति । (5) पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम् (वायुपुराण), प्राचीन-परम्परा-प्रतिपादका ग्रन्थाः पुराणमिति। (6) विश्वसृष्टेरितिहासः पुराणम् (मधुसूदन-सरस्वती)। विश्वरचनाया ऐतिह्यमेव पुराणशब्दाभिमतम्। 18 पुराणानि, 18 उपपुराणानि च पुराणनाम्ना व्यवह्नियन्ते।

पुराणं पञ्चलक्षणम्- प्रतिपाद्यविषयम् आश्रित्य पुराणानां पञ्च लक्षणानि निर्दिश्यन्ते-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराण पक्षलक्षणम् ।। (विष्णुपुराण)
पुराणेषु पञ्चतत्त्वानां समावेशोऽपेक्ष्यते। (1) सर्ग:-सृष्ट्युत्पत्ति-वर्णनम् (2) प्रतिसर्ग:-प्रलयस्य, सृष्टेः पुनरुद्भवस्य च वर्णनम्। (3) वंश:-देवानाम् ऋषीणां च वंशावल्या वर्णनम्। (4) मन्वन्तराणि-प्रत्येकस्य मनोः कालः, तत्काल-घटिताना वृत्ताना च वर्णनम्। (5) वंशानुचरितम्-सूर्य-चन्द्रादि वंशजानां नृपाणाम् इतिवृत्तात्मक वर्णनम्। पञ्चलक्षणमिति सामान्यो निर्देशः। नैतेन सर्वविषय-संग्राहकत्वम्। विषयान्तराणामपि पुराणेषु सद्भावात्, पञ्चलक्षणस्य च क्वचित् परिहारात्।

पुराणानां रचनाकालः- पुराणानां रचनाकालः 600 ईसवीयपूर्वादारभ्य 500 ईसवीयसंवत्सरं यावत् स्वीक्रियते।

पुराणेषु प्रतिपाद्या विषयाः-पुराणेषु मुख्यतो निम्नाङ्कितानां तथ्यानां वर्णनम् अवाप्यते। (1) कस्यचिद् देवस्य कस्याश्चिद् देव्या वोपासना। तस्यैव देवस्य सर्वोत्कृष्टता प्रतिपादनं च। (2) ब्रह्म-विष्णु-महेशेषु कस्याप्येकस्य इष्टदेवत्वेन वर्णनम्। (3) सृष्टेरुत्पत्तेः स्थिते: प्रलयस्य च वर्णनम्। (4) देवानाम् ऋषीणां च वंशावलिः, तज्जीवनवृत्त च। (5) मनोः मन्वन्तरस्य च वर्णनम्। (6) नन्द-मौर्य-शुङ्ग-आन्ध्र-गुप्तादिवंशजाना नृपाणां भूपतीनां च इतिवृत्त-वर्णनम्। (7) तीर्थानां प्रथितभौगोलिकस्थानानां तीर्थयात्रादीनां च वर्णनम्। (8) व्रत-जप-उपवास-प्रार्थनादीनां सानुष्ठान वर्णनम्। (9) अवतारवादस्य मूर्तिपूजाया विविधदेवोपासनायाश्च संस्थापना। (10) सगुणोपासनाया भक्तिमार्गस्य च प्राधान्येन प्रतिपादनम्। (11) दार्शनिक-धार्मिक-राजनीतिक-आचारशास्त्रादि-महत्त्वभाजा विषयाणां विवेचनं विश्लेषणं च। (12) व्याकरण-काव्यशास्त्र-ज्योति:शास्त्रशरीरविज्ञान-आयुर्वेदादि शास्त्रीयाणां वैज्ञानिकानां च विषयाणां तथ्यसंकलनम्।

पुराणानां महत्त्वम्- भारतीयायाः संस्कृतेः सभ्यतायाश्च यथायथम् अवगमाय पुराणानां नितरां महत्त्वमस्ति। पुराणानि विहाय न क्वचिदन्यत्र विपुलेऽपि वाङ्मये प्राचीनसंस्कृतेः सविस्तर वर्णनम् उपलभ्यते। अतएव वायुपुराणे तन्महत्वम् उद्घोष्यते। यत् चतुर्वेदविदपि पुराणज्ञानविहीनो न विचक्षणपदवीम् आरोढुं शक्नोति। उक्तम् च-
यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
न चेत् पुराणं स विद्यात् नैव स स्याद् विचक्षणः ॥ (वायुपुराण)
पुराणानां धर्मार्थकाममोक्षात्मक-चतुर्वर्ग-साधनाद् वेदत्वं प्रतिपाद्यते। पुराणं पञ्चमी वेद इत्याद्रियते। उक्तम् च भागवते-
इतिहासपुराणं च पञ्चमो वेद उच्यते ।
सर्वजनहिताय सर्वजनबोधाय च प्रसादगुणोपेतायाः पद्धत्याः समाश्रयेण पुराणानां महत्वं प्रतिपदम् आलक्ष्यते। आबालवृद्धं पुराणानां प्रियच न कस्यचिट विप्रतिपत्तेविषयः। कथाख्यानाश्रयेण निगूढतत्त्वनिरूपणं सरलतया तदभिव्यक्तिश्च पुराणानां महत्त्वम् एधयति। पुराणानां तादृशी मनोहरा शैली भावाभिव्यक्ति-प्रक्रिया च यथा ज्ञानलव-दुर्विदग्धोऽपि मानवो विविधविषयावगाह ज्ञानं सरलतया अवाप्नोति। पुराणेषु क्वचित् काव्यच्छटा, क्वचित् प्रकृतिवर्णनम्, क्वचित् तीर्थादिवर्णनम्, क्वचित् सृष्टिस्थिति-प्रलयवर्णनम्, क्वचिद् भावोत्कर्षः, क्वचिद् ज्ञानस्योदयः, क्वचित् तत्त्वार्थचिन्ता, क्वचित् कर्तव्योद्बोधनम्, क्वचित् ज्ञानमीमांसा च ऐन्द्रधनुषीम् आभां विस्तारयति।

पुराणानां तादृशं महत्त्वम् यथा भिन्नरुचिर्हि लोकः' स्वरुचिम् अनुसृत्य प्रवृत्तोऽपि स्वेष्टे प्रतिगृह्णाति। विदुषे तत्त्वज्ञानविषयाः, बालिशाय शृङ्गाररसरुचिराणि आख्यानानि, नीतिज्ञाय नीतितत्त्वानि, राजे राजकमणि, व्यवहारिणे अर्थागमसाधनानि, अध्यात्मदृशे ब्रह्मतत्त्वमीमांसा, वनिताभ्यो भक्तिमार्गः, जिज्ञासवे भूगोल-ऐतिह्यादि-सम्बद्धा विषयाः, यथायथं तच्चित्तावर्जकत्वेन प्रवर्तन्ते।

इतिहासपुराणाभ्यां वेदं समुपबृहयेत्- महाभारतकृता वेदार्थस्य विशदीकरणं पुराणानां महत्त्वरूपेण प्रतिपाद्यते। वेदेषु यानि तत्त्वानि यत्र तत्र वर्ण्यन्ते तेषां विशदीकरणं पुषु आख्यानरूपेण प्राप्यते। वेदार्थविशदीकरणेन पुराणानि वेदार्थावगमे साहाय्यम् आचरन्ति।
पुराणानां धार्मिक महत्त्वं कस्य न विपश्चितो विदितम्। पुराणानि भारतीय संस्कृतेः सनातनधर्मस्य च प्राणभूतानि सन्ति। एतेषामपि श्रुतितुल्यं प्रामाण्यं गृह्यते। विष्णु-शिवादि-देवानाम् उपासनापद्धते: सविस्तरो बोध: पुराणैरेव संजायते।
ऐतिह्यदृष्ट्याऽपि पुराणानाम् अतुलं महत्त्वम्। भारतीयैतिह्यस्य अज्ञात इतिहासो राजानं परीक्षितम् आरम्भ पद्मनन्दं यावत् पुराणेष्वेवोपलभ्यते। विष्णुपुराणे मौर्यवंशावलिः, मत्स्यपुराणे आन्ध्रवंशावलिः, वायुपुराणे गुप्तवंशावलिः च साम्प्रतं पुरातत्त्वविद्भिः प्रामाण्यरूपेण उररीक्रियते। पुराणेषु प्राप्या आभीर-शक-यवन-तुषार-हूणादि-राजवंशाना वंशावली ऐतिह्यविदां कृते बहुमूल्यस्वरूपा।
पुराणानां भौगोलिकमपि महत्त्वं वर्तते। एषु चतुद्वीपाया वसुमत्याः, सप्तद्वीपाया वसुमत्याः, 18 दीपानाम्, 14 भुवनानाम्, क्षीरसागरादीनां वर्णनम्, भूविभाजनम्, तीर्थानाम्, सागराणाम्, सरिताम्, गिरीणाम्, भौगोलिकमहत्त्वभाजाम् अन्येषां च स्थानानां। यत्र तत्र वर्णनं भूगोल-खगोलविदां कृते विशिष्टं महत्त्वम् आधत्ते।
पुराणानां सामाजिकमपि महत्त्वम् अवर्णनीयम्। पुराणेषु वर्णाश्रमव्यवस्थाम्। आश्रित्य गुणानां कर्मणां च वर्णनम्, विविधसंस्काराणां विवरणम्, पारिवारिक सम्बन्धस्य विस्तरशो विवेचनम्, गुरुशिष्यसम्बन्धस्य वैशिष्ट्येन समुपस्थापनम्, राजधर्मादिवर्णनं च तेषां समाजशास्त्रीय महत्त्वम् उपस्थापयति।
पुराणेषु विविधा विद्या यथास्थानं वण्र्यन्ते। क्वचिद् व्याकरणम्, क्वचित् छन्दः, क्वचिद् ज्योतिषम्, क्वचिद् धर्मशास्त्रम्, क्वचिद् आयुर्वेदः, क्वचिद् शरीरविज्ञानादिकं च तेषां शास्त्रीयं वैज्ञानिकं च महत्त्वं समर्थयन्ते। पुराणेषु अग्निपुराणं विविधशास्त्रीयज्ञान समन्वितत्वाद् विश्वकोशः स्वीक्रियते। एवं पुराणानां महत्त्व सर्वथा प्रसिध्यति। उक्तं च नारदीयपुराणे-
वेदार्थादधिकं मन्ये पुराणार्थं वरानने।

वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः।।

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 comments: