Mahabharat Long Essay in Sanskrit - महाभारत पर संस्कृत निबंध : महाभारतस्य कर्तृत्वविषये प्रचुरो विवादः। अस्य परिमाणविषयेऽपि नैकमत्यं विदुषाम्। महाभारते क्वचिद् ग्रन्थोऽयं जयनाम्ना, क्वचिद् भारत-नाम्ना, क्वचिच्च महाभारत-नाम्नोल्लिख्यते। सूक्ष्मेक्षिकयाऽवलोकनेन विज्ञायते यदु महाभारतस्य प्रगते: चरणत्रयं वर्तते। प्रथम चरणे जयनामकं काव्यमेतत् 8800 श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य वैशम्पायनाय श्रावितमभूत्। द्वितीयचरो भारतनामक महाकाव्यमेतद् वैशम्पायनकृतं 24 सहस्रश्लोकपरिमितं जनमेजयस्य नागयज्ञे जनमेजयाय श्रावितमभूत्।
Mahabharat Long Essay in Sanskrit - महाभारत पर संस्कृत निबंध
महाभारतस्य कर्तृत्वं विवरणं च-
महाभारतस्य कर्तृत्वविषये प्रचुरो विवादः। अस्य परिमाणविषयेऽपि नैकमत्यं विदुषाम्।
महाभारते क्वचिद् ग्रन्थोऽयं जयनाम्ना, क्वचिद् भारत-नाम्ना, क्वचिच्च
महाभारत-नाम्नोल्लिख्यते। सूक्ष्मेक्षिकयाऽवलोकनेन विज्ञायते यदु महाभारतस्य
प्रगते: चरणत्रयं वर्तते। प्रथम चरणे जयनामकं काव्यमेतत् 8800 श्लोकपरिमितं
व्यासकृतं धर्मचर्चाम् आश्रित्य वैशम्पायनाय श्रावितमभूत्। द्वितीयचरो भारतनामक
महाकाव्यमेतद् वैशम्पायनकृतं 24 सहस्रश्लोकपरिमितं जनमेजयस्य नागयज्ञे जनमेजयाय
श्रावितमभूत्। तृतीयचरणे महाभारतनामकं महाकाव्यमेतत् सौतिकृतम् एकलक्षश्लोकपरिमितं
नैमिषारण्ये यज्ञकाले शौनकादिभ्य ऋषिभ्यः श्रावितमभवत्। अत्र प्रधानतः
कौरव-पाण्डवानाम् इतिवृत्तं विवादो गीतोपदेशो महाभारतय पाण्डवानां विजयावाप्तिश्च
वर्ण्यन्ते।
अस्य कर्तृत्वरूपेण व्यासो वेदव्यासो वा
प्राधान्येन प्रकीते। व्यासस्य जन्मादिविषये बहविधा किंवदन्ती श्रूयते। परं
वेदानां यथायथं विभाजनाद् वेदव्यास: समासतो व्यास इति नामान्तर संगच्छते।
ब्रहाणो ब्रह्मणानां
च तथानुग्रहकाङ्क्षया ।
विव्यास वेदान
यस्मात् स तस्माद् व्यास इति स्मृतः ।।
व्यासो वर्षत्रयेण महाकाव्यमेतत् प्रणिनायेति
तद्वचनादेव विज्ञायते।
त्रिभिर्वर्षेः
सदोत्थाय कृष्णद्वैपायनो मुनिः ।
महाभारतमाख्यानं
कृतवानिदमुत्तमम् ॥
लक्षश्लोकपरिमितत्वादेव गुप्तकालीनशिलालेखेषु ‘शतसाहस्री
संहिता' इति नाम्ना ग्रन्थोऽयं निर्दिश्यते। अत्र कथाविभागम् आश्रित्य 18
पर्वाणि सन्ति।।
महाभारतस्य वैशिष्ट्यम्-
महाभारतमिदं न केवलम् आख्यानम्, अपितु समग्रस्यापि संस्कृतवाङ्मयस्य
सारभूतम्। सर्वलोकप्रियत्वाय निखिलमपि वैदिक लौकिकं च तथ्यम्, दर्शनम्,
शास्त्रसारम्,
आख्यानम्,
नीतिशास्त्रम्,
आचारशास्त्रम्,
अन्यच्चापि
लोकोपयोगि तत्त्वम् अत्र संगृह्य प्रस्तूयते।
महाभारतकृतोऽवर्तत महत्त्वाकाङ्क्षेयं यद्
धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रावाप्येत। न च किंचिद्
उच्छिष्येत। अतएवोच्यते-
धर्मे चार्थे च
कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति
तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥
महत्त्वाद् भारवत्चाच्च०–महाभारतस्य
विशालं परिमाणमपि विलोक्यास्य महत्त्वविषये प्रोच्यते यद् महनीयोऽयं ग्रन्थो यथैव
वपुषा विशालस्तथैव भावगाम्भीर्येण अर्थगौरवेण च। ज्ञानाग्निसमेधितत्वाच्च एतस्य
महत्त्वं न कथंचिदपि अपलपितु पार्यते। अतएव महत्त्वमेतस्य उद्गायता प्रोच्यते-
महत्त्वाद् भारवत्त्वाच्च
महाभारतमुच्यते।
भारतं पञ्चमो वेदः-वेदानां
धर्मप्रधानत्वाद् यज्ञादिकर्मकाण्डसमन्वितत्वाद् अध्यात्मभावप्रवणत्वाच्च न समेषां
प्रियत्वम्। अतएव लोकाख्यानसमन्वितं नीतिदीक्षाविशिष्टं राजनीतिशिक्षासंजुष्टम्
आचारशिक्षासंपुष्टं च कामिनीवचोमधुरं काव्यमिदं व्यासोपदिष्टम्।
सर्वमनोमोहनत्वाच्चैतद् न केवलं भारतवर्षे अपितु यव-सुवणादिपूर्वीयद्वीपेषु
अन्येषु च वैदेशिकेषु प्रदेशेषु नितरां प्रसिद्धि लेभे। एतदेवोद्दिश्य भागवते
प्रोच्यते-
भारतव्यपदेशेन
ह्याम्नायार्थश्च दर्शितः ।
दृश्यते यत्र
धर्मादि स्त्रीशूद्रादिभिरप्युत ॥
वेदचतुष्टय्यां द्विजानामेव विशिष्टा गतिः
धमत्वेनाभिरुचिश्च, पर महाभारत समेषामपि वर्णानां सामान्याभिरुचिः
प्रीतिगतिश्च। अस्य पावनत्वम् उत्कटच सर्वार्थसाधकत्वं च प्रेक्ष्य 'पञ्चमोऽयं
वेदः' इति विपश्चिदभि: साहलादम् उद्घोष्यते।
यदिहास्ति तदन्यत्रo-समन्वयात्मकमिदं महाकाव्यम् अत्र
सर्वविषयसंकलनात सकलशास्त्रीयतत्त्वसारग्रहणाद विश्वकोशत्वेन गणना महाभारतस्यास्य गौरवं
विवृणते। तदानीन्तनः समग्रोऽपि वैदिको लौकिकरच प्रथितो विषयो महाभारते संलक्ष्यते।
महाभारतेऽस्मिन् काव्यम दर्शनम्, अध्यात्मम्, वैदिक तत्त्वम्,
ऐतिह्यम्,
आख्यानम्,
नीतितत्वम्
राजनीतिसार अन्यच्चापि लोकोपयुक्तं तत्त्वज्ञात सुमधुरया शैल्या संगोपस्थाप्यते।
अतएव ग्रन्थकर्तुः इयम् उद्घोषणा न विप्रतिपत्तिम् आश्रयते यद्-
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्
।।
अतएव महाभारतस्य गणगौरवं समीक्ष्य वेणीसंहारे
भट्टनारायण व्यासवचन सुधामधुरमिति संस्तवीति-
अवणाञ्जलिपुटपेयं
विरचितवान् भारताख्यममृतं यः ।
तमहमरागमकृष्णां
कृष्णद्वैपायनं वन्दे ।।
स्वगुणगौरवादेव व्यास: त्रिदेववद् आद्रियते
संमान्यते च। उक्तं च-
अचतुर्वदनो
ब्रह्मा द्विबाहुरपरो हरिः ।
अभाललोचनः
शम्भुर्भगवान् बादरायणः ।।
महाभारतस्य विविधविषयावसाहिज्ञानम् अर्थगौरवं
भावगाम्भीर्यं च प्रदर्शयितं कतिपयानि सुभाषितानि दिमात्रमत्र उपस्थाप्यन्ते।
(क) दार्शनिकभावोपेतानि सूक्तानि-
नवहारमिदं वेश्म
त्रिस्थूण पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठित
विद्वान् यो वेद स परः कविः ।।
अङ्गुष्ठमात्रः
पुरुषोऽन्तरात्मा, लिङ्गस्य योगेन च याति नित्यम्।
तमीशमीयमनुकल्पमाद्यं
पश्यन्ति मूढा न विराजमानम् ॥
(ख) नीतिशिक्षाविषयकाणि सुभाषितानि। यथा-
यस्मिन् यथा
वर्तते यो मनुष्यस्तस्मिन् तथा वर्तितव्यं स धर्मः ।
मावाचारो मायया
वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ।।
वृत्तं यत्नेन
संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः
क्षीणो वृत्ततस्तु हतो हतः ।।
न च
शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि
दहत्यनि-विषमल्प हिनस्ति च ।।
(ग) अर्थशास्त्रीयाः सूक्तयो यथा-
धनमाहुः परं
धर्म धने सर्व प्रतिष्ठितम् ।
जीवन्ति भनिनो
लोके मृता ये त्वधना नराः ॥
धनात् कुले
प्रभवति धनाद् धर्मः प्रवर्धते ।
नाधनस्यात्ययं
लोको न परः पुरुषोत्तम ॥
(घ) राजनीतिविषयकाणि सूक्तानि यथा-
राजा प्रजानां
प्रथमं शरीर प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न
भवन्ति देशा देशैविहीना न नृपा भवन्ति ।।
राज्ञा हि पूजितो
धर्मस्ततः सर्वत्र पूज्यते ।
यद् यदाचरते
राजा तत् प्रजानां स्म रोचते ॥
एवं विज्ञायते यद् महाभारतं गुणगौरवात्,
सर्वविषयावगाहित्वात्,
आचारशिक्षणात्,
पावनत्वाच्च
पञ्चमो वेद इति ।
COMMENTS