Monday, 29 August 2022

रानी लक्ष्मी बाई पर संस्कृत निबंध (Essay on Rani Lakshmi Bai in Sanskrit)

रानी लक्ष्मी बाई पर संस्कृत निबंध (Essay on Rani Lakshmi Bai in Sanskrit)

रानी लक्ष्मी बाई पर संस्कृत निबंध: झांसीराणीलक्ष्मीवर्यायाः जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत्। सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्याम् अजायत। सा 'झान्सी की राणी' इति नाम्ना ख्यातम् अगात। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् आसीत्। सा आङ्लविरोधनीतेः प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती।

महाराज्ञी लक्ष्मीः इत्यस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत्। शैशवे अस्याः नाम् 'मनुबाई' इति अभूत्। अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत्। अस्याः जननी 'भागीरथी बाई' साध्वी ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । यदा सा चतुर्वर्षीया आसीत् तदा तस्याः माता दिवङ्गता। अतः पुत्र्याः पालन- पोषणादिभारः सर्वोऽपि पितरि मोरोपन्ते एव पतितः। तदा बाजीरावः कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत्। तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत। सा तत्र नैपुण्यम् अवाप्नोत्। अश्वारोहणेऽपि मनुवाई अतीव कुशलिनी अभवत्। ईशवीये १८४२वर्षे झान्सीराजेन गङ्गाधररावेण सह मणिकर्णिकायाः विवाहोऽभवत् । विवाहोत्तरं ब्राह्मणकुलोत्मना निर्धनपरिवारस्य पुत्री मणिकर्णिका झांसीप्रदेशस्य राज्ञी अभवत् ।

अनन्तरं झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम् अकरोत्। ततः परं मनुबाई, 'रानी लक्ष्मीबाई' इति नाम्ना प्रसिद्धा अभवत्। उद्वाहाद् अनन्तरम् अपि सा अश्वारोहणं शस्त्राभ्यासञ्च नात्यजत्। एतस्मिन्नेव काले आंग्लजनाः भारते स्व प्रभुत्वस्थापनाय यत्नशीलाः अभवन्। कूटनीतिप्रयोगेण दिने दिने तेषां प्रभुत्वम् अवर्धत। तदैव दैवयोगात् गंगाधरस्य एकलः पुत्रः स्वर्गं गतः। पुत्रवियोगसंतप्तो गंगाधरः दामोदरनामकं शिशुमेकं दत्तकपुत्ररूपेण स्वीचकार। किञ्चित् कालानन्तरं गंगाधरोऽपि स्वयमेव् पञ्चत्वं गतः।

अथ पतिपुत्रवियोगेन नितरां संतप्ताऽपि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् अधारयत्। अस्याः शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानां कृते असहनीयम् जातम्। ते अस्याः राज्यम् उत्तराधिकारिहीनम् उद्घोष्य हस्तगतम् अकुर्वन्, राज्ञ्यै लक्ष्म्यै च स्वल्पां मासिकवृत्तिं प्रादुः। आंग्लजनाः न केवलं राज्ञ्यां ;लक्ष्म्याम् अपि तु अन्येष्वपि जनेषु अत्याचारान् अकुर्वन्। अतः सम्पूर्णे भारते यत्र तत्र स्वातन्त्र्यस्य अग्नेः स्फुलिंगाः प्रकटिताः।

ईशवीय १८५७तमवर्षस्य जूनमासतः १८५८ मार्च-मासाभ्यान्तरं दशमासान् यावत् झान्सीपालनसमये लक्ष्मीबायी राज्ये अनेकपरिवर्तनानि आनीतवती । कोशः पुनः धनेन पूरितः । सैन्यं पुनर्व्यवस्थितं जातम् । पुरुषसेनया सह महिलासेना अपि निर्मिता । पुरातनानि आयुधानि तीक्ष्णीकृतानि । नूतनानि आयुधानि निर्मितानि । तेषु दिनेषु झान्सीपट्ट्णे सर्वस्मिन् गृहे युध्दसज्जता एव दृश्यते स्म । सर्वं महाराज्ञ्याः पर्यवेक्षणे एव प्रचलति स्म । १८५८ मार्च मासे २३ दिनाङ्के रोज् इत्यस्य नायकत्वे आङ्ग्लसेना झान्सीराज्यं प्रति युध्दं प्रकटितवती । १२ दिनपर्यन्तं लघुराज्यं झान्सी विज्यपराजययोर्मध्ये डोलायमानम् आसीत् । ईशवीये १८५८ तमे वर्षे जूनमासे १७ दिनाङ्के युध्दं पुनरारब्धम् । राज्ञी पुरुषवेषं धृत्वा युध्दाय सिध्दा अभवत् । 

लक्ष्मीबायी ईशवीये १८३५ तमवर्षस्य नवम्बरमासस्य १९ दिनाङ्कतः १८५८ तमवर्षस्य जून् मासस्य १८ दिनाङ्कपर्यन्तं इत्युक्ते २२ वर्षाणि ६ मासान् च जीवितवती । गाढान्धकारे काचित् विद्युल्लता इव विद्योत्य तिरोभूता सा । राज्ञ्या सह अनेकवारं युध्दं कृत्वा पराजयं प्राप्य, अन्ते तां पराजितवान् सर् रोज इति आङ्ग्लसैन्याधिकारी । सः तस्याः विषये अवदत् -

"क्रान्तिकारिणां सर्वेषां मध्ये अत्यन्तं साहसवती, सर्वेभ्यः अत्युत्तमा सेनानेत्री च राज्ञी लक्ष्मीबायी" इति ।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: