रवीन्द्रनाथ टैगोर पर संस्कृत निबंध (Essay on Rabindranath Tagore in Sanskrit) रवीन्द्रनाथ टैगोर महोदयः पश्चिमबङ्गालराज्ये क्रिस्तशके १८६१ तमे वर्षे मे
रवीन्द्रनाथ टैगोर पर संस्कृत निबंध (Essay on Rabindranath Tagore in Sanskrit)
रवीन्द्रनाथ टैगोर पर संस्कृत निबंध: रवीन्द्रनाथ टैगोर महोदयः पश्चिमबङ्गालराज्ये क्रिस्तशके १८६१ तमे वर्षे मेमासस्य षष्ठे दिने कलकत्तानगरे जन्म लब्धवान्। तस्य पिता देवेन्द्रनाथठाकूरः, माता शारदादेवी आसीत्। राजगृहमिवासीत् रवीन्द्रनाथटैगोर महोदयस्य गृहम्। गृहे सेवकाः एव बालान् पालयति स्म। रवीन्द्रनाथ टैगोर कुटुम्बस्य पूर्वजाः आदिधर्मस्य ब्राह्मोसंस्थापकाः। माता अस्य बाल्ये एव दिवङ्गता। पिता सर्वदा प्रवासे भवति स्म इत्यतः बालकः रवीन्द्रः गृहस्य सेवकानां पालनेन एव वर्धितः।
शान्तिनिकेतननामिकां पैतृकभूमिं दृष्ट्वा अमृतसरे उषितवन्तौ। ततः 'डाल्हौसि'नामकं हिमालयगिरिधाम अगच्छताम्। तत्र रबी-जीवनचरितम्, इतिहासः, खगोलविज्ञानम्, आधुनिकविज्ञानं संस्कृतञ्च अधीतवान्। शास्त्रीयकाव्यानाम् आन्तर्यञ्च तेन अवलोकितं गभीरतया।
इङ्ग्लेण्ड्देशस्य पूर्वसस्सेक्स्प्रदेशस्य ब्रिघ्टन्नगरे विद्यमानं सार्वजनिकविद्यालयं प्राविशत् १८७८ तमे वर्षे। पितुः अपेक्षानुगुणं न्यायवादिना भवितुं सः लण्डन् युनिवर्सिटि कालेज् मध्ये अध्ययनम् अकरोत्। किन्तु शेक्स्पियर्, रेलिजियो मेडिसि, कोरिलियनस्, आण्टोनि क्लियोपात्र इत्यादीनां परिपूर्णम् अध्ययनं कर्तव्यम् इति धिया सः विद्यालयम् अत्यजत्। १८८० तमे वर्षे पदवीं विनैव वङ्गं प्रत्यागतवान्। १८८२ तमस्य वर्षस्य डिसेम्बर्मासस्य ९ दिनाङ्के तेन मृणालिनीदेवी (१८७२-१९००) परिणीता। जन्म प्राप्तवत्सु पञ्चसु अपत्येषु उभौ प्रौढावस्थातः पूर्वमेव मृतवन्तौ।१८९० तमे वर्षे अधुना बाङ्ग्लादेशे विद्यमाने शिलैदाहे स्थितायाः विशालभूसम्पतेः निर्वहणे आत्मानं न्ययोजयत्। १८९८ तमे वर्षे तस्य पत्नी पुत्राश्च तत्र आगताः। १८९१ - १८९५ - अयं कालः ठाकूरस्य 'साधनावधिः' इति उच्यते । सः अवधिः सर्जनशीलः आसीत्। चतुरशीतिः कथाभिः युक्तः गल्पगुच्छनामकः सङ्ग्रहः, सम्पुटत्रयस्य अर्धांशापेक्षया अधिकाः कथाः च अस्मिन् अवधौ एव लिखिताः। वङ्गजीवनशैल्याः विशेषतया ग्रामजीवनस्य विशालां व्याप्तिं सः उपहासदृष्ट्या भावनात्मकप्रभावेण च चित्रितवान् अस्ति।
रवीन्द्रनाथ ठागुरः सङ्गीतप्रियः आसीत्। स्वयं सङ्गीतसंयोजनां कृतवान्। तस्य ‘रवीन्द्रसङ्गीतम्’ इति नाम अभवत्। काबूलीवाला रवीन्द्रनाथठागुरस्य प्रसिध्दा कथा अस्ति। अनेककथाः लिखित्वा रवीन्द्रनाथठागुरुः कथाकाररुपेणापि प्रसिध्दः अभवत्। बालानां कृते रवीन्द्रनाथठागूरः अनेकपुस्तकानि लिखितवान्। श्रीरवीन्द्रनाथ ठागुर महोदयस्य देशप्रेम गीतानां सङ्ग्रहः ‘गीताञ्जलि’ इति प्रसिध्दः अस्ति। अस्मिन् ग्रन्थे सुन्दरदेशभक्तिगीतानि सन्ति। अस्य आङ्गलानुवादस्य क्रिस्तशके १९१३ तमे वर्षे विश्वप्रसिध्दः नोबेलपुरस्कारः लब्धः अभवत्। एतं पठित्वा प्रसिध्दाङ्गलकविः ‘यीट्स्’ अत्यन्तं मुग्धः अभवत्। अनेन रवीन्द्रनाथठागूर्ः विश्वकविः इति प्रसिध्दः अभवत्। अनेके विश्वविद्यालयाः रवीन्द्रनाथठागूर् महोदयाय डाक्टरेट् पदवीं दत्तवन्तः। आङ्ग्लसर्वकारः ‘नैट हुड’ प्रशस्तिं दत्त्वा सम्मानम् अकरोत्। प्रकृतिमध्ये सदा हर्षेण वसन् श्री रवीन्द्रनाथठागूरः चित्राङ्गदा, बलिदानं च इति नाटकमपि रचितवान्।
क्रिस्तशके १९१९ तमे वर्षे पञ्जाबप्रदेशे जलियनवालाबाग्स्थले भीकरहत्यां विरुध्य रवीन्द्रनाथठागुरः ‘नैटहुड्’ प्रशस्तिं पुनः आङ्ग्लं सर्वकाराय प्रेषितवान्। महात्मा गान्धी ‘गुरुदेव’ इति रवीन्द्रनाथ ठागूरमहोदयं कथितवान्। शान्तिनिकेतनं गत्वा च सन्तुष्टः अभवत्। रवीन्द्रनाथठागूरः कलाप्रियः, चित्रकारः च आसीत्। सप्तति तमे वर्षेऽपि अनेन त्रिसहस्रपर्यन्तं चित्राणि लिखितानि आसन्। भारतस्य राष्ट्रगीतं ‘जनगणमन अधिनायक जयीहे भारतभाग्यविधाता- श्री रवीन्द्रनाथठागूरुमहोदयेन लिखितमस्ति अत्र सम्पूर्णभारतस्य प्रकृतेः च वर्णनं सुन्दरम् आस्ति। बाङ्गलादेशाय अपि ‘सोनारबाङ्गला’ इति गीतं रचयित्वा दत्तवान्।
विश्वकविः, निसर्गकविः, श्री रवीन्द्रनाथठागूरुः क्रिस्तशके १८४१ तमे वर्षे दिवं गतः। किन्तु सङ्गीतेन, साहित्येन, देशप्रेमकारणेन, शिक्षणकार्येण च सर्वेषां भारतीयानां हृदये सदा अस्ति। विश्वे एव साहित्यप्रियाः विश्वकवेः सगौरवं स्मरणं कुर्वन्ति।
COMMENTS