Sunday, 14 October 2018

पुराणं पंचलक्षणम् संस्कृत निबंध

पुराणं पंचलक्षणम् संस्कृत निबंध

puran-panch-lakshanam
पुराणानां स्वरूपम्- पुराणानि भारतीय संस्कृतेः पुरातनं स्वरूपं प्रकाशयन्ति, वेदार्थ च कथा-आख्यानादिरूपेण विशदयन्ति, प्राचीनम् इतिहासम् अज्ञातं चापि ऐतिह्यं प्रकाशताम् आपादयन्ति। एवं भारतीयैतिह्य-ज्ञानाय, भारतीय संस्कृते: ज्ञानाय, प्राचीनाचार-विचार-परिज्ञानाय, प्राचीन-भौगोलिकविवरण-ज्ञानाय, विविध-शास्त्राणां च सारज्ञानाय पुराणानां महत्त्वं न केनापि निराकर्तुं शक्यते।

पुराणं पञ्चलक्षणम्- विष्णुपुराणादिषु प्रतिपाद्य-विषयम् आश्रित्य पुराणानां लक्षणं निरूप्यते यत्-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
पुराणेषु मुख्यतः पञ्चतत्त्वानां समावेशः स्वीक्रियते । लक्षणेष्वेतेषु कस्यचित् तत्त्वस्य कस्मिश्चित् पुराणे वैशिष्ट्यं निरूप्यते, अन्यस्मिश्च कस्यचिदन्यस्य तत्त्वस्य। एवं प्रतिपुराणं लक्षणानाम् एषां न्यूनाधिक्यम् अवलोक्यते। एवं क्वचित् पञ्चानामपि लक्षणानां समावेश उपलभ्यते, अन्यत्र च कस्यचिद् एकस्य यस्य वा तत्त्वस्य समुपलब्धिर्भवति। सन्ति च कानिचित् पुराणानि येषु अन्येषामेव विषयाणां वैशिष्ट्येन प्रतिपादनं वर्तते। तथापि तेषां गणना पुराणेषु स्वीक्रियते।

पुराणं दशलक्षणम्-श्रीमद्भागवतपुराणानुसारं पुराणानां दश लक्षणानि सन्ति। क्वचित् पञ्च लक्षणानि, क्वचित् दश लक्षणानि, इति मतभेदस्य किं कारणमिति जिज्ञासायां तदुत्तरं भागवतकृता स्वयमेव व्यादिश्यते, यत् महापुराणेषु दश लक्षणानि प्राप्यन्ते, लघुषु च पुराणेषु केवलं पञ्चानामेव लक्षणानां प्राप्तिर्भवति। एवं महल्लघुभेदेन दश-पञ्च-लक्षणानां संगतियवस्थाप्या।
दशभिलक्षणैर्युक्तं पुराणं तद्विदो विदुः ।
केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ।।
सामान्यतः स्वीकृतानां पञ्चानां लक्षणानां प्राग् विवृतिः प्रस्तूयते।

सर्ग:- श्रीमद्भागवतपुराणे पञ्चानामपि लक्षणानां विवरण प्राप्यते। तत्र च सर्गस्य स्वरूपं निरूप्यते यत्-
अव्याकृत-गुणक्षोभान्महतस्त्रिवृतोऽहमः ।
भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ।।
सर्ग-शब्देन सृष्ट्युत्पत्तेः वर्णनम् अभिप्रेतमस्ति। भागवतानुसारं सर्गशब्देन सांख्याभिमता सृष्टि-प्रक्रिया स्वीक्रियते। साम्यावस्थाम् आपन्नायां मूलप्रकृतौ यदा गुणक्षोभ आपद्यते, तदा महत्-तत्त्वम् उत्पद्यते, ततश्च अहंकारस्योद्भवो भवति, गुणत्रयम् आश्रित्य त्रिविधाद् अहंकारात् पञ्चतन्मात्राणाम् एकादशेन्द्रियाणां चोत्पत्तिर्भवति। पञ्चतन्मात्राभ्यश्च पञ्चमहाभूतानाम् उद्भवो जायते।

प्रतिसर्गः- प्रतिसर्ग-शब्देन प्रलयस्य सृष्टे: पुनरुद्भवस्य च वर्णनम् अभीष्यते। भागवतानुसार प्रतिसरी-लक्षणम् अस्ति-
पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥
इदं सकलं चराचरात्मकं जगत् स्व-वासनामयैः संस्कारैः पुनः पुनः सृष्टिरचनायां जनम् आपद्यते। यथा बीजानि वृक्षादिरूपेण समुद्भूतानि प्रलये बीजरूप प्राप्तान्यपि पुनः वृक्षादिरूपेण आविर्भवन्ति, तथैव स्थावरं जङ्गमं च जगत् स्वसंस्कारवशात् पुनर्जायते। एतस्यैव वर्णनं प्रतिसर्ग-शब्देन अभीष्यते।  

वंशः- वंश-शब्देन राज्ञाम् ऋषीणां च वंशावल्या वर्णनम् इष्टमस्ति। वंश-लक्षणं भागवतानुसारमस्ति
राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः।
ब्रह्मणः समुद्भूतानां नृपाणां त्रिकालमाश्रित्य वंशावल्या वर्णनं वंशशब्दस्याभिप्रायः। वंश-शब्देन न केवलं नृपाणामेव, अपि तु ऋषीणां देवादीनां चापि वंशावलिः संग्राह्या। रामायण-महाभारतादिषु कस्यचिदेकस्य वंशस्य वर्णनमाप्यते, परं पुराणेषु सामान्यरूपेण अतीत-वर्तमान-अनागतानां च नृपादीनां वंशावलिर्वण्र्यते। इदं चात्रावधेयं यत् पुराणानि सांस्कृतिकदृष्ट्या ऐतिहासिक-दृष्ट्या चातीव महत्त्वपूर्णानि रत्नानि सन्ति। सृष्टे: प्रारम्भादारभ्य विविधानां नृपवंशावलीनां वर्णनं यथा व्यवस्थितरूपेण पुराणेषुपलभ्यते, न तथान्यत्र। बहूनि चात्र वर्णितानि तथ्यानि प्राप्तेभ्यः शिलालेखादिभ्यः पुष्टिमुपयान्ति। सूर्यवंश-चन्द्रवंशादीनां प्रथितानां वंशानां विविधवृत्त-समन्वितं वर्णन पुराणेषु साधूपलभ्यते। एवं वंशवर्णनम् ऐतिह्य-दृष्ट्या नितान्तं महत्त्वपूर्ण सिध्यति।

मन्वन्तरम्- मन्वन्तर-शब्देन प्रत्येकस्य मनोः कालः, तदानीन्तनानां विविधानां वृत्तानो सुव्यवस्थितम् उल्लेखो वर्णनं च मन्वन्तर-शब्देनाभीष्टं वर्तते। भागवतानुसार मन्वन्तरस्य लक्षणं विद्यते-
मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वरः ।
ऋषयोऽशावतारश्च हरेः षड्विधमुच्यते ॥
मन्वन्तर शब्देन मनोः देवानां मनुपुत्राणाम् इन्द्रस्य सप्तर्षीणां विष्णो: अंशावताराणां च वर्णनं तत्सम्बद्धं च विविधं वृत्तं संग्राह्यम्। प्रतिकल्पं चतुर्दश मनवो भवन्ति। प्रतिमन्वन्तर के राजानोऽभवन्, तत्र के ऋषयो महर्षयश्चाभवन्, तैः किं विशिष्ट कृत्यजाते व्यधायि, तस्मिन् काले किं किं विशिष्टं वृत्तं वा घटितम्, इत्यादि सर्वमपि मन्वन्तर-वर्णने वर्ण्यते। ऐतिह्यस्य याथातथ्यतोऽवबोधाय मन्वन्तरस्य ज्ञानमपि नितराम् आवश्यकम्।

वंशानुचरितम्- वंशानुचरिते विशिष्टवंशोत्पन्नानां नृपादीनां विशिष्टं चरितं विशदतया वण्यते। भागवतानुसारं तल्लक्षणं विद्यते-
वंशानुचरितं तेषां वृत्तं वंशधराश्च ये।।
वंशानुचरिते सूर्य-चन्द्रादि-वंशजानां नृपाणां तवंशधराणां च जीवनचरितं सविस्तर प्रतिपाद्यते। वंशानुचरितस्य पुराणेषु महती आवश्यकता वर्तते। ये केचन तत्र राजर्षयो महात्मानः पुण्यात्मानश्चाभवन्, तेषां सविशदं चरितम् अनुश्रुत्यैव परवर्तिनः सामान्या नराः स्वजीवनं पावयन्ति, तथाविधकर्मानुष्ठानेन विपत्पारावारे समुत्तितीर्षन्ति, स्वजन्म सफलं चिकीर्षन्ति, लौकिकं पारलौकिकं च पुण्यं चिचीषन्ति । यद्येव विचार्यते चेत् तर्हि वंशानुचरित-वर्णनस्यापि महती आवश्यकता उपयोगिता चास्ति।

पुराण दशलक्षणम्-श्रीमद्भागवत पुराण पुराणं दशलक्षणमिति निरूप्यते। भागवतकृता चैवं तद्वर्णनं निर्दिश्यते-
पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् ।
शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥8॥
सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥9॥
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।।
केचित् पञ्चविधं ब्रह्मन् महदल्यव्यवस्थया ॥ 10 ॥
एषा दशलक्षणानां पञ्चकं प्रार् निरूपितमेव। अवशिष्टं पंचकं संक्षेपतो निरूप्यते।

वृत्तिः- अत्र वृत्तिशब्देन जीवानां भोजनाच्छादनादिकं तेषां जीविका निर्वाहोपायाः, कृत्याकृत्यादिवर्णनम्, हेयोपादेयादिकं च निरूप्यन्ते। उच्यते च-
वृत्तिभूतानि भूतानां चराणामचराणि च ।  
कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ।।
तत्र काचिद् वृत्तिः स्वेच्छया स्वीक्रियते, काचिच्च शास्त्रानुसारतो जीविका निर्वाहार्थं वा।

रक्षा-अत्र वेदादीनां वैदिकधर्मिणां च रक्षार्थ विष्णोः अवतारस्य वर्णनं भवति। अवतारं प्राप्तस्य विष्णोर्वेदविरोधिनां संहारस्य पुण्यात्मनां रक्षायाश्च वर्णनं भवति। उच्यते च-
रक्षाच्युतावतारेही विश्वस्यानु युगे युगे ।
तिर्यमत्यषिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ।।
संस्था- संस्थासंस्थाशब्देन सर्गस्यास्य प्रलयस्य वनम् अभीष्टमस्ति। प्रलयश्च चतुर्विधो भवति-नैमित्तिक, प्राकृतिक, नित्यः, आत्यन्तिकश्च।

हेतुः- हेतु-शब्देन जीवस्य ग्रहणं भवति। स एव अविद्यावशगो भूत्वा जायते म्रियते च। अत्र जाग्रत्-स्वप्न-सुषुप्ति-दशानां वर्णनं भवति।

अपाश्रयःअपाश्रयशब्देन तुरीयतत्त्वस्य ब्रह्मणो वर्णनम् अभीष्टमस्ति।
व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु ।
मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्चयः ।।

एवं पंचलक्षणेन दशलक्षणेन च पुराणानां महत्वं वैशिष्ट्यं च प्रतिपाद्यते।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: