भीमराव अंबेडकर पर संस्कृत निबंध (Essay on Bhimrao Ambedkar in Sanskrit) डॉ. बाबासाहेब अम्बेडकरअस्माकं देशस्य महान् नेता। न जन्मेन अपितु कार्येण मनुष्
भीमराव अंबेडकर पर संस्कृत निबंध (Essay on Bhimrao Ambedkar in Sanskrit)
भीमराव अंबेडकर पर संस्कृत निबंध: डॉ. बाबासाहेब अम्बेडकरअस्माकं देशस्य महान् नेता। न जन्मेन अपितु कार्येण मनुष्यो महान् भवति इति उक्तवान्। बाबासाहेब इत्यस्य वास्तविक नाम भीमराव अम्बेडकर आसीत्। मध्यप्रदेशस्य म्होवग्रामे १८९१ तमे वर्षे एप्रिलमासस्य १४ दिनाङ्के अस्य जन्म अभवत्। तस्य पितुः नाम रामजी सकपालः, मातुः नाम भीमबाई आसीत्। अम्बेडकरः बाल्यकालात् एव अतीव निर्भयः साहसी च आसीत्। सः अतीव शीघ्रं पठति स्म। तस्य अर्थशास्त्रे उच्चशिक्षा आसीत्।
बाबा साहेब ने अस्पृष्ट एवं दमनितों की बहुत सेवा की। अस्पृष्टानां उत्थानार्थं चकार अनेकानि गतिनि। तेन महदस्य चबदरतडागः अस्पृष्टेभ्यः उद्घाटितः आसीत्। स्वतन्त्रभारतस्य संविधानस्य निर्माणे डॉ. अम्बेडकरस्य बहु योगदानम् आसीत्। १९५६ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के तस्य मृत्युः अभवत्। दलितसमाजस्य जनाः एतं भारतमातुः पुत्रं देवं मन्यन्ते।
Essay on Bhimrao Ambedkar in Sanskrit
भीमराव अंबेडकर पर संस्कृत निबंध: भीमराव रामजी आम्बेडकर महोदयः एषः भारतीय न्यायशास्त्रज्ञः, अर्थशास्त्रज्ञः, राजनीतिज्ञः, तत्वज्ञः तथा समाजसुधारकः आसीत्। सः जातिभेद तथा स्पृश्यास्पृश्यभेद विरुद्धं प्रतियोधत्। सः महिलानां च श्रमिकानां अधिकारस्य पुरस्कर्ता आसीत्। बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते। परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्य धीमान् इति प्रख्यातः अभवत् ।तस्य आदर्शमयस्य विद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः।
डा॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म महाराष्ट्रस्य अम्बावाड इति ग्रामे १८९१ तमे वर्षे एप्रिलमासे चतुर्दशदिनाङ्के अभवत। भीमस्य पिता रामजी सक्पालः माता च भीमाबायी। मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत्। भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत्। एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन्। एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन्। भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत्। रामजी सक्पालः विद्यावान् आसीत्। यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म। कर्तव्यम् एव दैवम इति सः भावयति स्म। अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत्। प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म। एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत्। न केवलं देवसङ्कीर्तनं किन्तु रामायण - महाभारतकथाश्रवणम् अपि रामजी कारयति स्म। आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः आङ्ग्लभाषां गणितं च पाठयति स्म। रामजी सक्पालः समाजसेवातत्परः आसीत्। फुले महात्मना प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान। एवं भीमजी पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोध्स्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च शिक्षितवान। भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत्। परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता। ततः रामजी सक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष। भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत्। करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत्।"अम्बावाडेकर" अध्यापकं प्रति भीमस्द्य अपि गौरवं बह्क्रिश्च आस्ताम्। वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकर पदम अपि संयुज्य व्यवह्रुतवान्। ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो बभूव। यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य मुम्बयीनगरम् आगतवान्। तत्र तस्य गृहे अध्ययनार्थम् अवकाशः नासीत्। अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म। सक्पालः पुत्रम् आङ्गलभाषां सम्यक पाठितवान्। तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत्। स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थ दत्तवान्। एवं भीमस्य ज्ञानदाहं पिता शमयति स्म। तस्य बुद्धिं पोष्यति स्म। पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत्। तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत्। एकस्मिन सम्मानसमारम्भे केलूस्करामहोदयः भीमाय गौतमबुद्धः इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान्। महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत्। पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तः स्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान्। केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म। विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास। सर्वेषां प्रोत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत्। अनन्तरं सः महाराजगायकवाडस्य सैन्ये "लेफिटनेण्ट्" पदे नियुक्तः। परन्तु तस्मिन् एव समये तस्य प्रियकरः पिता दिवं गतः। भीमरावरामजी अम्बेडकर- सदृशं धीमन्तं नायकं राष्ट्रहिताय दत्त्वा सः महोदयः पञ्चत्वम् आपन्नः। तस्मिन् एव समये बरोडमहाराजः कांश्चन प्रतिभायुक्तान् छात्रान् विशेषाढ्ययनार्थं विद्यार्थिवेतनं दत्त्वा विदेशं प्रेषयति इति वृत्तान्तं भीमः श्रुतवान। धानार्जने निरुत्सुकः भीमः स्वाधिकारस्थानं त्यक्त्वा विशेषाद्य्यायनं कर्तुं निश्चितवान्। अचिरात एव राज्ञः समीपं गत्वा सः विद्यार्थिवेतनं प्रार्थितवान्। एतस्य मेधाशक्तिम् अदम्योत्साहं च दृष्ट्वा महाराजः भीमं विदेशं प्रेषयितुम् अङ्गीकृतवान्।
"भारतदेशप्राचीनवाणिज्यम्" इति परिशोधनापत्रं समर्प्य एम् ए उपाधिं प्राप्तवान्। "भारतदेशस्य जातीयः आयः - चारित्रात्मकं विश्लेषणात्मकम् अध्ययनम्" इति निबन्धं विरचय्य पि हेच् डि उपाधिञ्च लब्धवान् अयं महारायः। निम्नवर्गजनानाम् अभ्युन्नतिम् आकाङ्क्ष्य विशेषकृषिम् अकरोत्। तेषां कृते "इण्डिपेण्डेण्ट् लेबर् पार्टी आफ् इण्डिया" इति संस्थाम् अस्थापयत्। अनन्तरकाले भारतराज्याङ्गरचनासङ्घस्य अध्यक्षो भूत्वा महत् यशः प्राप्तवानयं नायकः। पं जवहरलाल् नेहरूमन्त्रिवर्गे स्थित्वा "हिन्दू कोड" इत्येकां न्यायव्यवस्थां प्रावेशयत् सः। १९१६ तमे वर्षे "भारतदेशे वर्णव्यवस्था जनानां प्रगतिश्च" इत्यस्मिन् विषये शोधनिबन्धं यान्त्रपालजी गोष्ठ्यां समर्प्य सर्वेषां मेधाविनां प्रशंसायाः पात्रमभवत् सः। विदेशेषु स्थातुम् अवकाशे विद्यमानेऽपि हिन्दूसमाजस्य संस्करणाकाङ्क्षया ततः सर्वविधावमाननं सोढुमपि संसिद्धो भूत्वा अम्बेड्करः स्वदेशे एव स्थित्वा निजदेशे भक्तिं प्रदर्शितवान्। नागपुरमहानगरे एकस्यां बहिरङ्गसभायाम् अम्बेड्करः बौद्धमतं स्वीचकार। यद्यपि सः वैद्यशास्त्रं न पठितवान् तथापि जातिदोषनिर्मूलनाय औषधमेकम् अन्विष्टवान्। तच्च "जातिव्यवस्थायाः निर्मूलनं भवेत्" इति । एष एव अस्य आशयः आसीत्। जातीयनायकः अम्बेड्करः स्वीयकृत्या परिश्रमेण च महान् जातः। तस्य आशयाः आदर्शाः अवश्याचरणीयाः, अनुसरणीयाश्च।
सर्वत्र गुणवानेव चकास्ति प्रथितो नरः।
मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥
COMMENTS