बिहू महोत्सव पर संस्कृत निबंध (Essay on Bihu Festival in Sanskrit)

Admin
0

बिहू महोत्सव पर संस्कृत निबंध (Essay on Bihu Festival in Sanskrit)

बिहू महोत्सव पर संस्कृत निबंध: बिहु असमराज्य्स्य त्रीणि सांस्कृतिकपर्वाणि प्रतिनिधिरूपेण संनिधापयति। प्राचीनपद्धत्याः क्रमः अस्य मूलम्, तथापि नगरप्रदेशस्य गुणयुक्तं अस्ति एतत् पर्व। अतः दशवर्षेभ्यः नगरप्रदेशेषु वाणिज्यकेन्द्रेषु अत्यन्तं प्रसिद्धं सञ्जातम् अस्ति। बिहु इति पर्व बिहुनृत्यं बिहुलोक्गीतं च सूचयितुम् उपयुङ्क्ते। बिहु इति पदं विषुवत् इति पदेन निष्पन्नम् अस्ति। एतत् भारते मार्चमासे सूर्यस्य समभाजकवृत्तस्य क्रमणस्य समयः अस्ति,मार्चमासस्य एकविंशत्यां तारिकायाम् )। इदम् पर्व विषुवत् सम्बन्धि अस्ति। एतेन सह अन्यानि पर्वाणि अपि सूचितानि भवन्ति। वस्तुतः अयम् उत्सवः एप्रिल् मासस्य मध्यभागात् आरभ्य एकमासपर्यन्तं प्रचलति। एतेन सह अन्यद् बिहुद्वयम् अस्ति। ते अक्क्टोबरमासे एकम् , अन्यत् जनवरि मासे आचर्यते। त्रीणि पर्वाणि अपि सङ्क्रमणसम्बन्धीनि सन्ति।

Post a Comment

0Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !