कछुआ पर संस्कृत निबंध (Essay on Tortoise in Sanskrit)
कछुआ पर संस्कृत निबंध: कूर्मः (Tortoise) एकः कशेरुकसहितः जन्तुः अस्ति। कूर्मानां बहुविधाः वर्णाः अपि सन्ति।सरिस्रुपवर्गस्थः जन्तुः। कूर्मेषु केचन भूमौ वासं कुर्वन्ति। अन्ये केचन जले वसन्ति। भूचराः कूर्माः गात्रे लघुकायाः भवन्ति। अधिकाधिकं चेत् पादपरिमिताः दीर्घकायाः भवन्ति। सस्याहारमेव आश्रिताः भवन्ति। जलचराः कूर्माः तटाके, समुद्रेषु च भवन्ति। तटाकादिशु विद्यमानाः कूर्माः प्रायशः भूचरसदृशाः भवन्ति गात्रे। समुद्रे विद्यमानाः ४,५, पादपरिमिताः भवन्ति। ५०किलो परिमिताः भवन्ति भारेण। एतेषां मत्स्य-मण्डूकादयः आहाराः भवन्ति। अस्य मुखे पुरतः दन्ताः न भवन्ति किन्तु हनुप्रदेशे तीक्ष्णाः दन्ताः भवन्ति। अहारजीर्णार्थं योग्याः उपयुक्ताश्च भवन्ति।
कूर्मस्य गतिः सावधानगतिः। प्राणिप्रपञ्चे दीर्घायुश्यवान् एषः। कूर्मस्य आयुः १५० वर्षाणाम् अपेक्षया अधिकं भवति।कूर्मस्य शिरः, पादान् च विहाय अन्यभागेषु दृढः कवचः भवति। अस्य शरीरस्य उपरिभागाय “क्यारापेस्” इति, अधोभागाय "प्लास्ट्रान्" इति आङ्ग्ले व्यवहारः अस्ति। शिरसः पादानाञ्च आकुञ्चनप्रसारणाय देहस्यान्ते स्थलं भवति। अस्य आत्मसंरक्षणाय एषा व्यवस्था विद्यते। गजः अस्य उपरि स्वस्य सम्पूर्णं भारं स्थापयति चेत् अपि कूर्माय किमपि न भवति। अस्य कवचः तावान् दृढः भवति। कूर्माः अण्डजाः भवन्ति। भूचराः कूर्माः भूमौ खननं कृत्वा तस्मिन् अण्डान् स्थापयन्ति। जलचराः जलात् बहिरागत्य सिकतासु अण्डानि स्थापयन्ति। कूर्माः जलात् वर्षे द्विवारं, त्रिवारं बहिरागत्य अण्डानि स्थापयन्ति। प्रायशः त्रिषु मासेषु अण्डात् बहिरागच्छन्ति।