मध्यप्रदेश पर संस्कृत निबंध (Essay on Madhya Pradesh in Sanskrit) मध्यप्रदेशराज्यं भारतस्य मध्येखण्डे विद्यमानं किञ्चन राज्यम् अस्ति। अस्य विस्तीर्णता
मध्यप्रदेश पर संस्कृत निबंध (Essay on Madhya Pradesh in Sanskrit)
मध्यप्रदेश पर संस्कृत निबंध: मध्यप्रदेशराज्यं भारतस्य मध्येखण्डे विद्यमानं किञ्चन राज्यम् अस्ति। अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति। मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति। २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च। ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत्। इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति। मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते। एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः। अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि।
मध्यप्रदेशस्य भौगोलिकम् (Madhya Pradesh Geography)
मध्यप्रदेश-राज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते। मध्यप्रदेशराज्यं द्वयोः भागयोः विभक्तम् अस्ति। क्षेत्रीयः भागः, शैलप्रस्थीयः भागः च। अस्य प्रदेशस्य उत्तरभागः क्षेत्रीयः अस्ति। किन्तु मध्यभागः, पश्चिमभागश्च शैलप्रस्थीयः भागः अस्ति। इदं क्षेत्रं मालवा-शैलप्रस्थः कथ्यते। प्राकृतिकसंरचनादृष्ट्या इदं राज्यं सप्तभागेषु विभक्तम् अस्ति। मध्यभारतस्य शैलप्रस्थः, बुन्देलखण्ड-उच्चप्रदेशः, मालवा-शैलप्रस्थः, विंध्यकगारक्षेत्रं, “नर्मदा घाटी”, सतपुडा-पर्वतशृङ्खला, बघेलखण्ड च। मध्यप्रदेशस्य पश्चिमोत्तरदिशि मध्यभारतस्य शैलप्रस्थः स्थितः अस्ति। तस्य विस्तारः ३२,८९६ चतुरस्रकिलोमीटर्मितः अस्ति। इदं शैलप्रस्थीयं क्षेत्रम् उत्तरप्रदेश-राज्यं, राजस्थान-राज्यं यावत् विस्तृतम् अस्ति। प्रदेशस्य मध्योत्तरभागे बुन्देलखण्डस्य उच्चप्रदेशः स्थितः अस्ति। “नर्मदा घाटी” इत्यस्यस्य क्षेत्रस्य विस्तारः ८६,००० चतुरस्रकिलोमीटर्मितः अस्ति। इदं क्षेत्रं महाराष्ट्र-राज्यं, गुजरात-राज्यं यावत् विस्तृतम् अस्ति। अस्य क्षेत्रस्य उत्तरे विन्ध्यपर्वतशृङ्खला, दक्षिणे सतपुडापर्वतशृङ्खला च विद्यते। सतपुडा-पर्वतशृङ्खला नर्मदागोदावरी-नद्योः विभाजनं करोति। सोन-नदी बघेलखण्ड-शैलप्रस्थीयक्षेत्रस्य प्रमुखा नदी वर्तते। अस्मिन् क्षेत्रे आदिवासिजनाः अधिकमात्रायां निवसन्ति। अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति। मध्यप्रदेश-राज्यस्य उत्तरदिशि उत्तरप्रदेश-राज्यम्, उत्तरपूर्वदिशि छत्तीसगढ-राज्यं, दक्षिणदिशि महाराष्ट्र-राज्यं, पश्चिमदिशि राजस्थान-राज्यं गुजरात-राज्यं च अस्ति। अस्य राज्यस्य मध्यस्थात् कर्करेखा गच्छति।
मध्यप्रदेशराज्यस्य इतिहासः (Madhya Pradesh History)
मध्यप्रदेशराज्यस्य इतिहासः अतीव पुरातनः अस्ति। पाषाणयुगस्य त्रयाणां कालानाम् अवशेषाः मध्यप्रदेशराज्ये प्राप्यन्ते। षष्ठशताब्द्यां षोडशमहाजनपदेषु जनपदद्वयम् आसीत्। चेदि, अवन्ती च। विक्रमादित्यः मध्यप्रदेशस्य शासकः राजा आसीत्। तेन विक्रमसंवतः आरम्भः कृतः। राज्ञा अशोकेन सर्वप्रथमम् उज्जैन-नगरे शासनं कृतम्। समयान्तरे इदं क्षेत्रं गुप्तसाम्राज्यस्य मुख्याङ्गम् अभवत्। समुद्रगुप्तः गुप्तशासकानां सफलशासकः आसीत्। भगवतः बुद्धस्य काले राजा चन्द्रप्रद्योतः अस्य प्रदेशस्य राजा आसीत् । सप्तमशताब्द्यां हर्षवर्धनेन राज्ञा अस्मिन् प्रदेशे शासनं कृतम् आसीत्। नवमशताब्द्याम् अस्मिन् प्रदेशे चन्देल-वंशस्य शासनम् आरब्धम्। तैः “खजुराहो” इत्येतन्नगरम् अस्य नगरस्य राजधानी कृता। “नन्नुक” इत्याख्यः चन्देल-राजवंशस्य संस्थापकः आसीत्। चन्देल-वंशजैः एव खजुराहो-नगरे भव्यमन्दिराणां निर्माणं कारितम्। अनन्तरं प्रतिहारवंशजैः, गहरवार-वंशजैः च शासनं कृतम्। एकादशशताब्द्याः आरम्भे मुस्लिमशासकाः मध्यभारतम् आगतवन्तः। अकबर-राज्ञः शासनकाले मुगल-वंशस्य शासनम् आरब्धम्। मुगल-शासकानां पतनान्तरं मराठा-शासकैः अस्मिन् प्रदेशे शासनं कृतम्। किन्तु आङ्ग्ल-शासकानां प्रभावः अधिकः आसीत्। तेन कारणेन मराठा-शासकाः पराजिताः। ग्वालियर-नगरे सिन्धिया-वंशस्य शासनम् आसीत्। “रानोजी” इत्याख्यः सिन्धिया-वंशस्य संस्थापकः आसीत्। “महादजी” इत्याख्यः सिन्धियावंशस्य प्रतापी राजा आसीत्। उच्यते यत् ई. स. १८१० पर्यन्तं सिन्धिया-वंशस्य राजधानी उज्जैन-नगरम् आसीत्।
नद्यः (Rivers in Madhya Pardesh in Sanskrit)
मध्यप्रदेश-राज्ये बह्व्यः नद्यः प्रवहन्ति। नर्मदानदी, चम्बलनदी, ताप्तीनदी, सोननदी, बेतवानदी, क्षिप्रानदी, कालीसिन्धनदी, तवानदी च इत्यादयः अस्य राज्यस्य प्रमुखाः नद्यः सन्ति। नर्मदा-नदी अस्य राज्यस्य जीवनरेखा अपि कथ्यते। अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थलं वर्तते। इन्दौर-मण्डलस्य महू-नगरस्य समीपे जानापाव-पर्वतक्षेत्रं चम्बल-नद्याः उद्गमस्थलं वर्तते। सिहावा-नगरस्य समीपे महानद्याः, सतपुडा-पर्वतशृङ्खलायाः बैतुल-शैलप्रस्थे ताप्ती-नद्याः, मालवा-शैलप्रस्थे कालीसिन्ध-नद्याः, विन्ध्याचलपर्वते पार्वती-नद्याः, कैमूर-पर्वतशृङ्खलायां टोंस-नद्याः, उज्जैन-नगरे क्षिप्रा-नद्याः, पचमढी-नगरे तवा-नद्याः च उद्गमस्थलम् अस्ति।
अरण्यम् (Forest in Madhya Pradesh in Sanskrit)
मध्यप्रदेशराज्यं वनदृष्ट्या समृद्धम् अस्ति। अस्य राज्यस्य भौगोलिकक्षेत्रस्य पञ्चत्रिंशत्प्रतिशतं (३५) भागः वनविस्तारः अस्ति। राज्ये एकलक्षचतुरस्रकिलोमीटर्मिते क्षेत्रे वनानि सन्ति। मध्यप्रदेशराज्ये अन्येषां राज्यानाम् अपेक्षया सर्वाधिकानि वनानि सन्ति। व्यवस्थादृष्ट्या प्रदेशे त्रिप्रकारकाणि वनानि सन्ति। आरक्षितवनं, संरक्षितवनं, अवर्गीकृतवनं च। मध्यप्रदेशराज्ये मुख्यतः चतुष्टप्रकारकाणि वनानि सन्ति। उष्णकटिबन्धीयवनं, शुष्कवनम्, उष्णकटिबन्धीयार्द्रवनम्, उपोष्णकटिबन्धीयपर्वतीयवनम्, उष्णकटिबन्धीयकण्टकीयवनं च। सर्वप्रथमं मध्यप्रदेश-राज्येन एव वनानां राष्ट्रियकरणं कृतम्। इदं राज्यं “टाईगर् स्टेट्” इति नाम्ना अपि ज्ञायते। यतः अस्मिन् प्रदेशे भारतस्य व्याघ्राणां १९ प्रतिशतं व्याघ्राः सन्ति। अस्मिन् राज्ये प्रायः पञ्च व्याघ्रपरियोजनाक्षेत्राणि सन्ति। सतपुडा-व्याघ्रपरियोजना, बान्धवगढ-व्याघ्रपरियोजना, पेंच-व्याघ्रपरियोजना, पन्ना-व्याघ्रपरियोजना, कान्हा-व्याघ्रपरियोजना च। मध्यप्रदेश-राज्ये चित्रकायः, मृगः, महिषः, कृष्णमृगः, भल्लुकः, व्याघ्रः, सिंहः इत्यादयः वन्यजीवाः सन्ति। राज्येऽस्मिन् अन्यराज्यानाम् अपेक्षया राष्ट्रियोद्यानानि, अभयारण्यानि च सर्वाधिकानि सन्ति।
COMMENTS