पाटलिपुत्र पर संस्कृत निबंध (Essay on Patliputra in Sanskrit)
पाटलिपुत्र पर संस्कृत निबंध: पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम्। महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति। द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तनपटनानगरस्य अधः सन्ति। बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति। अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत्। पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति।
पश्चिमदिशि नवपटनानगरमस्ति। अत्रैव प्राशासनिकभवनानि सन्ति। मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति । गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत्। एतत् २५ मीटर् उन्नतमस्ति। अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते। खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः। कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत्। क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत्। अत्र एकं सभाभवनमासीत्। इदानीं केवलं स्तम्भाः सन्ति। आनन्दविहारनामकं बौद्धमठम् अत्र आसीत्। पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगीर नळन्दा इत्यादीनि।