घोड़े पर संस्कृत निबंध (Essay on Horse in Sanskrit)
घोड़े पर संस्कृत निबंध: अश्वः एकः तीव्रः पशुः अस्ति। अश्वानां बहुविधाः वर्णाः अपि सन्ति। यथा – लोहितवर्णः, कृष्णवर्णः श्वेतवर्णः च। सः अश्वशालायाम् तिष्ठति। अश्वस्य बहूनि नामानि सन्ति। यथा – तुरगः, घोटकः हयः च। तस्य शरीरं स्थूलं बलवन्तं च अस्ति। तस्य कण्ठे पुच्छे च दीर्घाः केशाः सन्ति । अश्वस्य बोली 'हिन्हिनान' इति उच्यते।
अश्वः शाकाहारीपशुः अस्ति। तृणं चणं च गुडं च अश्वस्य प्रियं भोजनम्। अश्वस्य चत्वारः दीर्घाः पादाः सन्ति। तस्य एकं दीर्घं पृच्छम् अस्ति। तस्य एका दीर्घा ग्रीवा अस्ति। तस्य द्वे नेत्रे तथा च द्वौ कर्णौ सन्ति। अश्वः अतीव द्रुतं धावति। सः सवारीं कर्तुं सुलभः आगच्छति। रथेन टोङ्गेन वा शकटे वा कृष्यते। अश्वक्रीडा अपि सर्कस-क्रीडायां दर्शिताः सन्ति। अश्वः अतीव उपयोगी निष्ठावान् पशुः अस्ति।
अश्वः विशिष्टपशुः अस्ति। सः वेगेन धावति इति तस्य वैशिष्ट्यम्। मनुष्येभ्यः अश्वः उपयुक्तः अस्ति। अयं भारं पृष्ठेन वहति। अश्वः नृपाणां प्रियः। प्रमुखतया अश्वाः युद्धेषु उपयुक्ताः। तेषां शीघ्रतायाः कारणात् सैनिकानां युद्धेषु महती सहायता बहवति स्म। अश्वाः केवलं युद्धाय न उपयुक्ताः। साधारणजीवने अश्वान् विना रथाः न सम्भवन्ति स्म। कृषिकाः अश्वान् “पालनीयपशवः” इति रूपेण पालयन्ति।