ओडिशा पर संस्कृत निबंध (Essay on Odisha in Sanskrit) ओडिशा पूर्वभारतस्य समुद्रतटीयराज्यमेकं वर्तते। ओडिशा शब्दस्य मूलं उदीचीति संस्कृतशब्दे वर्तते। इ
ओडिशा पर संस्कृत निबंध (Essay on Odisha in Sanskrit)
ओडिशा पर संस्कृत निबंध: ओडिशा पूर्वभारतस्य समुद्रतटीयराज्यमेकं वर्तते। ओडिशा शब्दस्य मूलं उदीचीति संस्कृतशब्दे वर्तते। इदम् ओडिश्शा इत्यपि निर्दिश्यते। प्राचीनकाले कलिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओड़िशा इति। ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमवर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत्। ओड़ियाभाषाभाषिभिः युक्तं राज्यमिदम्। अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते।ओड़िशाराज्ये पञ्च महानगराणि सन्ति। भुवनेश्वर-नगरं, राउरकेला-नगरं, कटक-नगरं, सम्बलपुर-नगरं, ब्रह्मपुर-नगरं च।
ओड़िशा-राज्यं भारतस्य पूर्वभागे, पूर्वतटे वा स्थितम् अस्ति। राज्यमिदं पञ्चप्राकृतिकप्रदेशेषु विभक्तम् अस्ति। मध्यशैलप्रस्थभागः, पूर्वदिशि तटीयक्षेत्रं, पश्चिमदिशि वक्राभूमिः, मध्ये उच्चभूमिक्षेत्रम्, अतिवृष्टेः प्रभावितं क्षेत्रं च। ओड़िशा-राज्यस्य पश्चिमदिशि छत्तीसगढ-राज्यम्, उत्तरदिशि झारखण्ड-राज्यं, पश्चिमवङ्ग-राज्यं च, दक्षिणदिशि आन्ध्रप्रदेश-राज्यं च स्थितम् अस्ति। अस्य राज्यस्य पूर्वदिशि वङ्गीय-समुद्रकुक्षिः स्थिता अस्ति।
अस्य राज्यस्य जलवायुः समशीतोष्णः वर्तते। अस्मिन् राज्ये अत्यधिकं शैत्यम्, अत्यधिकम् औष्ण्यं च न भवति। वङ्गीय-समुद्रकुक्ष्याः उष्णकटिबन्धीयजलवायुः उद्भवति। अतः समुद्रतटीयक्षेत्रे वर्षर्तौ महती वर्षा भवति।
ओड़िशा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्या एकादशे स्थाने च विद्यते। राज्यस्य व्यावहारिकभाषा अस्ति ओड़ियाभाषा। अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति। अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते। किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते। धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति। राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च। कोरापुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं देबमालीःपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते।
जगति दीर्घतमः हिराकुड्सेतुः(मृत्तिकासेतुः) अस्मिन् राज्ये विद्यते। पुरि-कोणार्क-भुवनेश्वरनगराः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति। पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति।
ओड़िशा-राज्यस्य नद्यः (Rivers in Odisha)
ओड़िशा-राज्ये प्रमुखाः तिस्रः नद्यः सन्ति। महानदी, ब्राह्मणी, वैतरणी च। अन्याः अपि बह्व्यः नद्यः प्रवहन्ति। बुराबलाग-नदी, सुवर्णरेखा-नदी, ऋषिकुल्य-नदी, नागाबली-नदी, सालन्दी-नदी, इन्द्रावती-नदी, कोलाब-नदी, बांसधारा-नदी इत्यादयः ओड़िशा-राज्यस्य नद्यः सन्ति । महा-नदी अस्य राज्यस्य बृहत्तमा नदी वर्तते। इयं नदी छत्तीसगढ-राज्यस्य रायपुर-मण्डले स्थितस्य बस्तर-शैलप्रस्थस्य अमरकण्टक-पर्वतात् उद्भवति। अस्याः नद्याः दैर्घ्यं ८५७ किलोमीटरमितम् अस्ति। ओड़िशा-राज्ये अस्याः नद्याः दैर्घ्यं ४९४ किलोमीटरमितम् अस्ति। ब्राह्मणी-नदी अस्य राज्यस्य द्वितीया प्रमुखा नदी वर्तते। एवं च केन्दुझर-मण्डले स्थितात् गोनासिका-पर्वतात् वैतरणी-नदी उद्भवति। अस्मिन् बह्व्यः विद्युत्परियोजनाः प्रचलन्ति। हीराकुण्ड-विद्युत्परियोजना, कोलाब-विद्युत्परियोजना, रङ्गाली-विद्युत्परियोजना, मच्छकुण्डबाली-विद्युत्परियोजना इत्यादयः परियोजनाः अस्मिन् राज्ये प्रचलन्ति। हीराकुण्ड-परियोजनाः महा-नद्यां स्थिता। ओड़िशा-राज्ये चिल्का-तडागः वर्तते। अयं तडागः विश्वस्य बृहत्तमेषु तडागे द्वितीयः अस्ति। सम्पूर्णे विश्वमिन् प्रख्यातोऽयं चिल्का-तडागः। प्रारम्भे अयं वङ्गीय-कुक्ष्याः कश्चन भागः वर्तते स्म। किन्तु सिकतासमूहेभ्यः अयं तडागः वङ्गीय-समुद्रकुक्ष्याः भिन्नः जातः। अयं तडागः १६ किलोमीटरमितः दीर्घः, १६ तः २० किलोमीटरमितः विस्तृतश्च अस्ति। अस्मिन् तडागे द्वीपद्वयं वर्तते। पाडिकुण्डः, मलुड च। तडागोऽयं भारतस्य प्रसिद्धेषु तडागेषु अन्यतमः अस्ति। अस्मिन् तडागे विभिन्नप्रजातीनां विहगाः दृश्यन्ते।
ओड़िशा-राज्यस्य उत्सवाः (Festival in Odisha)
ओड़िशा-राज्ये बहवः पारम्परिकाः उत्सवाः आचर्यन्ते। तेषु “बोइता बन्दना-उत्सवः” विशिष्टः वर्तते। इमम् उत्सवं जनाः अक्टूबर-मासे नवम्बर-मासे वा आचरन्ति। अस्मिन् उत्सवे जनाः नौकाः पूजयन्ति। पुरी-नगरे भगवतः जगन्नाथस्य मन्दिरं विद्यते। प्रतिवर्षं तत्र रथयात्रामहोत्सवः भवति। अस्मिन् उत्सवे लक्षाधिकाः जनाः भवन्ति। भगवतः जगन्नाथस्य भव्यरथयात्रा क्रियते। अनेन प्रकारेण सम्पूर्णे राज्ये विभिन्नाः उत्सवाः आचर्यन्ते। भारतस्य विभिन्ननगरेभ्यः जनाः ओड़िशा-राज्यस्य उत्सवान् आचरितुं गच्छन्ति।
COMMENTS