Friday, 15 November 2019

अस्माकं गुरु पर संस्कृत निबंध - Essay on Importance of Teacher in Sanskrit

Essay on Importance of Teacher in Sanskrit : In this article, we are providing अस्माकं गुरु पर संस्कृत निबंध also known as गुरु का महत्व पर संस्कृत निबंध। This Essay on Importance of Teacher in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9, 10, 11 and 12.

अस्माकं गुरु पर संस्कृत निबंध - Essay on Importance of Teacher in Sanskrit

जीवनस्य सर्वेषु क्षेत्रेषु गुरो: आवश्यकता अस्ति। अज्ञानेन आवृते नेत्रे गुरु: ज्ञानशलाकया उद्घाटयति। यद्यपि ग्रन्था: गुरव: इव ज्ञानं वितरन्ति तथापि ग्रन्थेभ्य: जातं ज्ञानं नि:सन्दिग्धं न भवति। एतादृशेन ज्ञानेन आत्मविश्वास: न जायते। गुरुमुखाद् आगता विद्या नि:सन्दिग्धा आत्मविश्वासकरी च सम्पद्यते। अध्यात्मशास्त्रे तु गुरो: माहात्म्यं देवस्य माहात्म्याद् अपि अधिकम् उक्तम्! व्यवहारे अपि गुरो: ऋणस्य अपाकरणं कथम् अपि न शक्यं यत: अन्नेन क्षणिका तृप्ति: भवति परं विद्यया आजीवनं तृप्ति: भवति। अत: वयं प्रतिदिनं गुरो: महिमानं गायाम: -
गुरुर्ब्रह्मा गुरुर्विष्णु: गुरुर्देवो महेश्वरः।
गुरु: साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ।।
Read also :
मम प्रिय अध्यापक संस्कृत निबंध
गुरु का महत्व संस्कृत निबंध

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: