Yamuna River Sanskrit Essay : In this article, we are providing यमुना नदी पर संस्कृत निबंध। This Essay on Yamuna River in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9, 10, 11 and 12.
यमुना नदी पर संस्कृत निबंध - Yamuna River Sanskrit Essay
अहम् एका नदी अस्मि। मम नाम 'यमुना'। मम दक्षिणे तटे
‘दिल्ली’ नगरं वर्तते। मम तटे विद्यमानः "ताजमहलः" न केवलम् अस्माकं देशे अपितु विदेश अपि सुविख्यात:। मम सलिलं
स्वच्छं, शीतलं च अस्ति। मम तटे अनेक हरिता: तरवः
भवन्ति। वृक्षाणाम् उपरि काकाः, चटकाः, शुकाः कोकिलाः इत्यादयः खगाः वसन्ति। स्त्रियः कलशान्
गृहीत्वा मम तीरे आयान्ति, जलेन पूरयित्वा च
गच्छनि। दिल्ली वासिनः जनाः मम एव जलं पिबन्ति। अहं जानामि यत् मम जीवनं मनुजेभ्यः,
सर्व प्राणिभ्यः अस्ति, किन्तु अद्य अहम् अतीव त्रस्ता अस्मि यत् येभ्यः अहं जलं यच्छामि ते एव
जनाः मम जलं प्रदूषितं कुर्वन्ति। सर्वे मम जले अविशिष्ट अन्नं पातयन्ति, अवकरं क्षिपन्तिा। एवं मम जलं दूषितं भवति। किं ते न जानन्ति
यत् दूषितं जलं स्वास्थ्याय हितकर नास्ति? किं बहुना,
जनाः मूतिविसर्जनं मम जलं कुर्वन्ति, येन त्त प्रदूषितं भवति। अतः अहं विनयेन कथयामि यत् मम जलं
दूषितं न कर्त्तव्यम्।
0 comments: