भ्रष्टाचार पर संस्कृत निबंध। Corruption Essay in Sanskrit
भ्रष्टाचारस्य मूलं लोभः वर्तते। लोभः एव मनुजम् उन्मार्गं नयति। यदि स्वकष्टार्जितधनेन नरः संतुष्टः भवेत तर्हि भ्रष्टाचारस्य जन्म न भवेत्। किन्तु संप्रति युगे सर्वे जनाःन अल्पसंतुष्टाः। सर्वेऽपि अधिकतरं धनम् इच्छन्ति। अत: ते न्यायस्य नियमान् उल्लंघ्य व्यवहरन्ति, तदा भ्रष्टाचारस्य जन्म जायते। शनै: शनै: भ्रष्टाचार वर्धते। अधुना सर्वेषु क्षेत्रेषु अधिकारिण: जनेभ्य:उत्कोचं गृहीत्वा तेषाम् अनुचितानि कार्याणि पूरयन्ति। अनेकेषु शासकीयकार्यालयेषु अधिकारिणः लघुकर्मचारियाः अपि उत्कोचं गृहणन्ति। अनेन सर्वमेव शासन भ्रष्टाचारेण व्याप्तं भवति। अधुनां भारतदेशे: अपि भ्रष्टाचारे अग्रेसर:। भ्रष्टाचारात् केवलं धनसंपन्नां कार्याणि एव भवन्ति। उत्कोचं विना कोऽपि कर्मकर: निर्धनस्य सधनस्य वा कस्यापि कार्यं न करोति। भ्रष्टाचारेण कोऽपि देश: प्रगतिं विकासं न गच्छति किन्तु अधोगतिमेव प्राप्नोति। अतः भ्रष्टाचार निवारणाय उत्कोचस्य आदान-प्रदान न भवितव्याम्।
Read Also:भ्रष्टाचार पर संस्कृत निबंध
0 comments: