मम प्रिय पुस्तक संस्कृत निबंध। Mam Priya Pustakam Sanskrit Essay
पुस्तकानि एव अस्माकं सन्मित्राणि सन्ति। तानि न केवलं अस्माकं मनोरञ्जनं कुर्वन्ति, अपि तु ज्ञानवर्धनम् अपि कुर्वन्ति। मया अनेकानि पुस्तकानि पठितानि। किन्तु मम प्रियं पुस्तकं तु ' अभिज्ञानशाकुन्तलम्' एव। एतत् नाटकं महाकविना कालिदासेन रचितम् इति सर्वविदितमेव। कालिदासस्य अन्या: रचना: अपि अमराः, किन्तु इयं रचना 'देशकालातीता अस्ति। विदेशे अपि इदं नाटकं सुविख्यातमस्ति। अस्य नाटकस्य प्रसादगुणेन बालाः, वृद्धाः, युवकाः, सर्वे अपि तद्नाटकं पठन्ति। जर्मनभाषामपि अस्य अनुवाद: अभवत्। अस्मिन्नाटके कालिदासस्य कल्पना-कौशलम् अद्भुतं खलु। ‘शकुन्तला’ विश्वस्य सर्वश्रेष्ठं स्त्रीपात्रमस्ति। अतः उक्तम्-काव्येषु नाटकं रम्यं, तत्र रम्या शकुन्तलां तत्रोऽपि चतुर्योदङ्कः तत्र श्लोकचतुष्टयः शाकुन्तले नाटके सद्भावः, शान्तिः, प्रीतिः अस्ति। इयं रचना न केवले भारतीय साहित्ये, अपितु विश्व साहित्ये सर्वोत्तमा रचना अस्ति इति मन्ये। येन एतन्नाटकं न पठितं, तेन अवश्यमेव पठितव्यम्।
Related Essays
Related Essays
0 comments: