Essay on Science in Sanskrit : In this article we are providing विज्ञान पर संस्कृत निबंध which is also searched as "vigyan par nibandh sanskrit mein." This Essay on Sanskrit in Sanskrit is ideal for class 4, 5, 6, 7, 8, 9 and 10.
विज्ञान पर संस्कृत निबंध Essay on Science in Sanskrit
भौतिकानां पदार्थानां विशेषतः ज्ञानं विज्ञानम् इति कथ्यते। यः पदार्थानां विशेषाणां गुणानाम् अन्वेषणं करोति सः तेषां विशिष्टां शक्तिं ज्ञातुं योग्यः भवति । तं वैज्ञानिकः इति जनाः वदन्ति ।
आधुनिकेन विज्ञानेन संसारस्य स्वरूपमेव परिवर्तितम्। अद्य विद्युता रेलयन्त्रम् चाल्यते, पेट्रोलेन मोटर-यानं वायुयानं च। विद्युता प्रकाशः क्रियते, व्यजनानि वीज्यन्ते, नानायन्त्राणि च चाल्यन्ते । विज्ञानस्य कृपया अधुना मनुष्यः एकेन होराकालेन क्रोशानां सहस्राणां यात्रां कर्तुं अर्हति।
आकाशवाण्या शब्दस्य दूरसंचारणं क्रियते। एतेन साधनेन अद्य वयं विश्वस्य समाचारान्, गीतानि , वाद्यानि , भाषणानि च श्रोतुं समर्थाः स्मः। विज्ञानस्यैव कृपया वयं चलचित्राणि चित्राणि द्रष्टुं समर्थाः, 'एक्सरे' इत्यस्य अयं चमत्कारः यत् वयं शरीरान्तरे अस्थि गतमपि दोषं ज्ञातुं समर्थाः।
अणुवीक्षण-यन्त्रेण वयं सूक्ष्मतमं वस्तुजातं द्रष्टुं शक्नमः । दूरवीक्षणयन्त्रेण वयं ग्रहनक्षत्राणि द्रष्टुमर्हाः। विज्ञानेन परमाणोरपि तत्त्वं परिज्ञातम्।
अद्य तु राकेटादि यन्त्राणि प्रेषयित्वा मनुजस्य चन्द्रलोकम् अपि गमनं सम्भवम् ।
इत्थं विज्ञानं लोकोपकारकं भवति ।।
0 comments: