विद्यां ददाति विनयं संस्कृत निबंध
केनचित् कविना उचितमेव उक्तं ‘यत्' अविद्यस्य कुत: धनम्’, अर्थात् यः विद्यां न प्राप्नोति सः धनं प्राप्तुं न शक्नोति। निर्धनः नर: समाजे कदापि सम्मानं न लभते। विद्याः सर्वाधिकः लाभः एषः यत् इयं मनुजाय विनयं ददाति। उक्तं हि ‘विद्या विनये न शोभते। विनयात् एव सः पात्रतां याति। सुविद्यः, विनयशीलः नराः सर्वत्र एव पूज्यते। विद्याहीनाः नराः पशवः इव। ते किमपि कार्यं कर्तुं न शक्नुवन्ति। ईदृशाः नरा: जीवने असफलाः भवन्ति। अत: शैशवादेव अध्ययनं करणीयम्। ये अध्ययन काले आलस्यं कुर्वन्ति, ते विद्यां न लभन्ते। विद्या अस्माकं ज्ञानवर्धनं करोति। विद्याध्ययनेन अस्माकं बुद्धिपि तीव्रा भवति। अन्यथा पशवानां नराणांच मध्ये को भेदः? विद्याहीनाः नराः भुवि भारभूता एव। अतः विद्यारहितं जीवनं व्यर्थम्। यतः विद्याहीन:पुरुष: प्रगतिं कर्तुं न शक्नोति। विद्याधनं सर्वाधिकं धनम्। एतत् धनं व्ययतः वृद्धिम् आयाति। चोर्यभयमपि नास्ति। अतः उचितमेव उक्तं यत् विद्याधनं सर्वधन प्रधानम्।
Related Essays
Related Essays
0 comments: