Monday, 21 October 2019

भारतीय संस्कृति पर निबंध संस्कृत में - Bhartiya Sanskriti Par Nibandh In sanskrit

Bhartiya Sanskriti Par Nibandh In sanskrit : In This article, We are providing भारतीय संस्कृति पर निबंध संस्कृत में। In This Essay on Bhartiya Sanskriti in  sanskrit Language, we will get to know why Our Indian culture or Bhartiya sanskriti is so special.

भारतीय संस्कृति पर निबंध संस्कृत में - Bhartiya Sanskriti Par Nibandh In sanskrit

'सम्' उपसर्गपूर्वकात् कृ धातोः क्तिन् प्रत्ययेन 'संस्कृतिः' शब्दो निष्पद्यते। कस्यापि देशस्य राष्ट्रस्य वा जनैः योऽपि व्यवहार आचारश्च क्रियते। तत् सर्वं तस्य देशस्य संस्कृतिः कथ्यते।

विश्वस्य सर्वासु संस्कृतिषु भारतीया संस्कृतिः सर्वाधिकप्राचीना उत्कृष्टा च वर्तते। अस्याः वैशिष्ट्यमेतदेव यत् अनेकैः वैदेशिकैरनेकशः एनां नष्टुं प्रयत्न कृतम्, किन्तु एषा न नष्टा, अपितु अद्यापि अक्षुण्णा एव दृश्यते।

वस्तुतः अस्यां ईदृशानि तत्वानि सन्ति, कानिचित् यैरेषा दीर्घकालानन्तरमपि अद्य स्वोत्कृष्टतां अक्षुण्णतां च धारयति। अस्याः सम्यक् अवलोकनार्थं अस्माभिः संस्कृतस्य अध्ययनं अपेक्षितम्। संस्कृतभाषायाः प्रतिकाव्यं स्वस्मिन् भारतीयसंस्कृतेः उदात्तरूपस्य गाथा वर्तते।

भारतवर्षस्य प्रतिग्रामं अस्याः स्वरूपं कथयति। वस्तुतः वयं अद्यापि स्वसंस्कृति प्रति गौरवं अनुभवामः। अस्याः मूलाधारो वेदाः सन्ति वेदाश्च विश्वस्य प्राचीनतमानि पुस्तकानि सन्ति। इत्यर्थं संस्कृतिरेषा विश्वसंस्कृतिषु प्रचीनतमा विद्यते। ऋग्वेदे भणितमस्ति
"सा प्रथमा संस्कृति विचधारा"
वस्तुतः इयं संस्कृतिः लोकमंगलकारी विश्वबन्धुत्व भावनया च परिपूरिता अस्ति। अहिंसा अस्याः मूलमन्त्रमेवास्ति। परोपकारभावनाभिः एषा परिपूर्णा वर्तते। 'कर्मानुसारमेव पुनर्जन्म भवति' इत्यस्मिन् सिद्धान्ते अस्याः आस्था दृश्यते।

समन्वयस्य भावना अस्याः संस्कृतेः महत्वैशिष्ट्यम्। विदेशेभ्यः आगता बहवः जातयः अत्रागत्य अनया सह सम्मील्य एकीभूताः सआताः। वर्णाश्रमव्यवस्था अस्याः अन्या विशेषता, अनया व्यवस्थया भारतीयसमाजः चतुर्वर्णेषु विभक्तो वर्तते- 'ब्राह्मण-क्षत्रिय-वैश्य-शूद्रः' इति। अस्या व्यवस्थायाः उद्देश्योऽयं अस्ति यत् समाजे विविधेषु कार्येषु सौख्यं स्यात्। आरम्भे व्यवस्था एषा कर्माधारिता आसीत्। अद्य तु जन्माधारिता सआता।

'मनुष्यस्य सर्वांगीणविकासो भवेत्' इति आश्रमव्यवस्थायाः उद्देश्योऽऽसीत्। अनेनैव मानवं शतायः परिकल्प्य तस्य जीवनं चतुर्भागेष विभक्तं कृतमासीत् 'ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यास' इति। सर्वं एतदेव 'आश्रम-व्यवस्था' कथ्यते।

भारतीया संस्कृतिः कृषिप्रधाना, अनेन अत्र कृषः अतिमहत्त्वं अस्ति। अत्र गोः गंगायाः वैशिष्ट्यं परिदृश्यते। अत्र तीर्थानां देवानाञ्च वन्दनं भावातिरेकेन भवति।

एतत् अस्याः संस्कृतेरेव वैशिष्ट्यम्, यत् यानि-यानि अपि वैशिष्ट्यानि परेषां संस्कृतीनां अनया स्वीकृतानि वर्तन्ते। अस्यां संस्कृती ये जनाः निवसन्ति, ते सर्वे परम संतोषं अनुभवन्ति, कुतः अत्र न कोऽपि भेदभावः परिदृश्यते। 'वसुधैव कुटुम्बकं', इति भावनया ओतप्रोता च इयं संस्कृतिः दरीदृश्यते।
मानवतायाः अत्र पूजा भवति। भारतीयसंस्कृतेः मूलमन्त्रं एव अस्ति
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवत्।।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: