shathe shathyam samacharet in sanskrit : अस्मिन् संसारे भिन्न प्रकृतिमन्तः मनुष्याः सन्ति। सज्जना: दुर्जना: च। ये सन्मार्गम् अनुसरन्ति, सदाचारं पालयन्ति, सदैव परेषां हिंतु चिन्तयन्ति, ते सज्जना: स्वजीवनं परोपकारार्थं यापयन्ति। किन्तु अस्मिन् दुर्जनानां संख्या अधिका। दुर्जना: सदैव परेषाम् अहितं चिन्तयन्ति, दुर्व्यवहारन्ति, कुकर्माणि कुर्वन्ति, किन्तु दुर्जना: स्वार्थाय परहितं निघ्नन्ति।
Shathe Shathyam Samacharet in Sanskrit- शठे शाठ्यं समाचरेत् संस्कृत निबंध
अस्मिन् संसारे भिन्न प्रकृतिमन्तः मनुष्याः सन्ति। सज्जना: दुर्जना: च। ये सन्मार्गम् अनुसरन्ति, सदाचारं पालयन्ति, सदैव परेषां हिंतु चिन्तयन्ति, ते सज्जना: स्वजीवनं परोपकारार्थं यापयन्ति। किन्तु अस्मिन् दुर्जनानां संख्या अधिका। दुर्जना: सदैव परेषाम् अहितं चिन्तयन्ति, दुर्व्यवहारन्ति, कुकर्माणि कुर्वन्ति, किन्तु दुर्जना: स्वार्थाय परहितं निघ्नन्ति।
अस्माकं प्राचीना परम्परा शिक्षयति, यत् 'ऋजुनैव वर्मना वर्तते।' महापुरुषाणाम् अपि एतदेव कथनम्। महात्मा गांधी महोदयेन अपि कथितं यत् त्वां कोऽपि मारयति, तर्हिं तं न मारय, अपि तुं प्रति अपरं कपोलं कर्त्तव्यम्। हिंसाया: उत्तरं अहिंसाया दातव्यम् इति तस्य कथनमासीत्।
किन्तु आधुनिके युगे एषां नीति: न स्वीकरणीया। यतः संप्रति बहवः जनाः स्वार्थपरा: दृश्यन्ते। ये जना: दुष्टमाचरन्ति, तान् प्रति सद्व्यवहारं नीतिविरुद्धं खलु। सज्जनान् प्रति सौजन्यं कर्तव्यं, किन्तु दुर्जनेषु, खलेषु सौजन्यनीतिः न कर्तव्या।
मधुरव्यवहारेण अपि दुर्जनाः सदाचारं न व्यवहरन्ति। यथा भुजङ्गानां पयः पानेन विषं वर्धते तथा दुर्जनान् सद्व्यवहारं विषवर्धनमेव। यथा कण्टकेन एव कण्टकं नश्यति,तथा दुर्जनाः अपि दण्डेन एव वशीभवन्ति। महाभारते व्यासेनापि उक्तं ‘यस्मिन् यथा वर्तते तस्मिन् तथा वर्तितव्यं स धर्मः। इमां नीतिमनुसृत्य पाण्डवैः कौरवाः हृताः। महाकविना हर्षेणापि उक्तं, 'आर्जव हि कुटिलेषु न नीति:।' दुष्टान प्रति दुष्टव्यवहार: इयमेव नीतिः प्रभुरामचन्द्रेणपि इमां नीति मनुसृत्य रावणस्य वधः कृतः। यदि रामायण-महाभारतकाले अपि एषा नीतिः स्वीकृताः तर्हि सम्प्रति कलियुगे कि कथनम्?
सज्जनानां प्रति शाठ्यं न वर्तितव्यम् किन्तु एतत् निश्चितं यत् शठः कदापि, सदुपायैः सन्मार्गागच्छन्ति। उक्तमस्ति-
कृते प्रतिकृतं कुर्यात् हिंसिते प्रतिहिंसनम्।
न तत्र दोषं पश्यामि, शठे शाठ्यं समाचरेत।
COMMENTS