जीवन में मित्र का महत्व संस्कृत निबंध। About Friendship in Sanskrit : केनचित् कविना उक्तम् ‘आपदि मित्रपरीक्षा शूरपरीक्षा रणांगणे भवति’। सत्यमेव खलु एतत वचनम्। यथा वीरस्य, शूरस्य परीक्षा रणांगणे भवति तथा मित्रस्य परीक्षा संकटे भवति। यदा संकटानि आपतन्ति, तदा य: साहायं करोति, धैर्यं ददाति स एव मित्रमस्ति सन्मित्रस्य लक्षणानि कथितानि-तद्यथा
जीवन में मित्र का महत्व संस्कृत निबंध। About Friendship in Sanskrit
केनचित् कविना उक्तम् ‘आपदि मित्रपरीक्षा शूरपरीक्षा रणांगणे भवति’। सत्यमेव खलु एतत वचनम्। यथा वीरस्य, शूरस्य परीक्षा रणांगणे भवति तथा मित्रस्य परीक्षा संकटे भवति। यदा संकटानि आपतन्ति, तदा य: साहायं करोति, धैर्यं ददाति स एव मित्रमस्ति सन्मित्रस्य लक्षणानि कथितानि-तद्यथा—
पापान्निवारयन्ति हिताय योजयन्ते
गुढ्यान् निगृहति गुणान् प्रकटीकरोति
आपद्गतं न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।
य: संकटकाले साहायकः यः सन्मार्ग प्रर्वतकः, यः पापनिवारकः स एव सन्मित्रम् इति सत्पुरुषाः वदन्ति।
जीवने यथा मातपितृयो: स्थान महत्त्वपूर्णमस्ति तथा मित्रस्य स्थानमा महत्वपूर्णम्। मातापितरौ पुत्रं पालयन्तः, संस्कारान् च गच्छतः किन्तु मित्रस्य सहवासे आनन्दं मिलति। मित्रसहवासे एवं दु:खं कृशं भवति। मित्रैः सह कृतं पर्यटनम् अधिकम् आनन्ददायकमस्ति।
यथा सुखस्य समये मित्राणाम् आवश्यकता अस्ति तथा दु:ख समये अपि। दु:खसमये मित्राणि एव सान्त्वयन्ति, न आप्ताः।
मित्रं विना जीवनं न सम्पूर्णम्। बाल्यकाले कृता पापरहिता, अपेक्षारहिता अस्ति। यौवनकाले तु सुहृदः सर्वस्वाः एव। युवका: युवतयः च अधिक समयः सुहृद्समीपे व्यापयन्ति। वृद्धावस्थायामपि मित्राणां सहवासः स्पृहणीयः अस्ति।
केचन जनाः पुस्तकान् एव मित्ररूपे स्वीकुर्वन्ति। नूनं पुस्तकानि अस्माकं मित्राणि एव। पुस्तक पठनेन समयव्यापनं सुकरं भवति। पुस्तकानि मित्रवत् मार्गदर्शकानि सन्ति। केनचित् सुभाषितकारेण उक्तम् ‘अमित्रस्य कुतो सुखम् इति। यस्य मित्रं नास्ति सः परमसुखात् वञ्चितो भवति। यत्समीपे सन्मित्रमस्ति सः वस्तुतः धनी अस्ति।‘
COMMENTS