एकता का महत्व पर संस्कृत निबंध। Ekta ka Mahatvva Sanskrit Essay : एकतायां संघे शक्तिः अस्ति। कलियुगे एकतायाः शक्तिः महत्त्वपूर्णा वर्तते। मनुष्यः सामाजिकः प्राणी अस्ति। स न एकाकी स्थानुं शक्नोति, न च एकाकी कार्यं कर्तुं शक्नोति। अनेकैः मिलित्वाः कठिनमपि कार्यम् अनायासेन कर्तुं शक्यते। अतएव उक्तं ‘संहतिः कार्यसाधिका' इति। मनुष्यस्य शरीरं अवयवैः निर्मितम्। यदि सर्वे अवयवाः पृथक् भवन्ति तदा किमपि कार्य कर्तुं समर्थः न भवन्ति। परं यदा शरीरे एकत्र भवन्ति, तदा महदपि कार्यं कर्तुं शक्नुवन्ति। अतः संघटने महती शक्तिः अस्ति। यदि परिवार कापि समस्या प्रादुर्भवति तदा तस्याः समाधानं सर्वे मिलित्वा कुर्वन्ति। कुटुम्बस्य सर्वे सदस्याः मिलित्वा कार्यविभाजनं कृत्वा गृहं चालयन्ति।
एकता का महत्व पर संस्कृत निबंध। Ekta ka Mahatvva Sanskrit Essay
एकतायां संघे शक्तिः अस्ति। कलियुगे एकतायाः शक्तिः महत्त्वपूर्णा वर्तते। मनुष्यः सामाजिकः प्राणी अस्ति। स न एकाकी स्थानुं शक्नोति, न च एकाकी कार्यं कर्तुं शक्नोति। अनेकैः मिलित्वाः कठिनमपि कार्यम् अनायासेन कर्तुं शक्यते। अतएव उक्तं ‘संहतिः कार्यसाधिका' इति।
यथा एकस्य तृणस्य किं महत्त्वम्? परं यदा तानि तृणानि संहस्य रज्जुः भवति तदा गजस्य बन्धनाय अपि समर्था भवति। अत: केनचित् नीतिकारेण कथितम्-
‘अल्पानामपि वस्तूनां संहतिः कार्यसाधिका
तृणैगुणत्वमापन्नै बध्यन्ते मत्तदन्तिनः।।
मनुष्यस्य शरीरं अवयवैः निर्मितम्। यदि सर्वे अवयवाः पृथक् भवन्ति तदा किमपि कार्य कर्तुं समर्थः न भवन्ति। परं यदा शरीरे एकत्र भवन्ति, तदा महदपि कार्यं कर्तुं शक्नुवन्ति। अतः संघटने महती शक्तिः अस्ति।
यदि परिवार कापि समस्या प्रादुर्भवति तदा तस्याः समाधानं सर्वे मिलित्वा कुर्वन्ति। कुटुम्बस्य सर्वे सदस्याः मिलित्वा कार्यविभाजनं कृत्वा गृहं चालयन्ति।
न केवलं परिवारे, अपितु समाजे संघटनस्य महत्त्वम् अस्ति। यदि मार्गे कोऽपि दुर्घटनाग्रस्तः भवति, तदा सर्व तस्य साहायं कुर्वन्ति, तं चिकित्सकं प्रति नयन्ति। गतवर्षे मुम्बानगर्यां जनाः जुलैमासस्य षड्विंशतितारकायां यदा संकटे आपन्नाः तदा तै: एकतायाः प्रदर्शन कृतं, तत् प्रशंसनीयमेव। संघस्य महिमायाः आदर्शम् उदाहरणं खलु। अधुना अपि जनेषु संघभावना विद्यते। भारतीय संस्कृतेः च संदेशः अस्ति ‘वैविध्येऽपि ऐक्यम्' देशस्य रक्षा एकताश्रिता भवति। कारगिल युद्धसमये अपि देशवासिभिः यदैक्यं दर्शितं, तत् प्रशंसनीयम्। तेनैव भारतः युद्ध विजयी अभवत्।
अन्ते एतदेव कथनीयं यत् अस्माभिः सदैव स्मर्तव्यं यत् सुखशान्तिप्राप्त्यर्थ एकता अनिवार्या संघभावना प्रतिपाद्या। इयमुक्तिः सदैव स्मर्तव्या-
‘संघे शक्तिः कलौ युगे' इति।
COMMENTS