भगवद्गीता पर संस्कृत निबंध। Bhavagad Gita Sanskrit Essay
संस्कृत साहित्यं विविधकाव्यैः, नाटकैः, ग्रन्थैःच समृद्धमस्ति। अस्मिन् साहित्यनिधौ 'भगवद्गीता’ नाम अमूल्यं रत्नमस्ति। एषा रचना संस्कृतस्य श्रेष्ठा रचना अस्ति अत्र न कोऽपि संशयः। भगवद्गीता महाभारतस्य सारभूता। इयं रचना महर्षिणा व्यासेन रचिता।
अस्मिन् ग्रन्थे वेदानाम् उपनिषदां च सारं भवति। स्वयं भगवता कृष्णेन अस्य महत्वं कथितं यत्-
श्रद्धावान् अननसूयश्च शृणुयादपि यो नरः
सोऽपि मुक्तः शुभाल्लोकान्प्राप्नुयात् पुण्यकर्मणाम्।।
श्रीकृष्णेन इदं गीतामृतम् अर्जुनाय अयच्छत्। अस्मिन् ग्रन्थे जीवनौपयोगिनः विचाराः सन्ति। युद्धक्षेत्रे यदा अर्जुन: मोहग्रस्तः अभवत् तदा श्रीकृष्णेन कृतः उपदेशः गीतोपदेशः कथ्यते। अत्र श्रीकृष्णेन ‘अनासक्ति-कर्मवादः' कथितः। ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन', कर्म कुरु परं फलस्य इच्छा मा कुरु इति गीतायाः सारः अस्ति।
गीतायाम् ‘आत्मा-शरीरयोः’ ज्ञानम् अस्मि। आत्मा शाश्वत् शरीरं च अशाश्वतम्। अत्र भक्तिमार्गस्यापि सम्यक् दर्शनं वर्तते। भक्तिमार्गे न योनिभेदः, न जातिभेदः न च वर्णभेदः अस्ति। श्रीकृष्णः वदति, ‘यो मद्भक्तः स मे प्रियः।‘
एवं गीतायां कर्मयोग-भक्तियोग-ज्ञानयोग आदिनाम् अपूर्व: समन्वयः अस्ति। इयं सर्वजनसुखाय सर्वजनहिताय च वर्तते। गीतायां ये उपदेशा: दत्ता: ते सर्वे उन्नतिकारकाः, मार्गदर्शकाः च सन्ति।
विश्वस्य अनेकासु भाषासु अस्याः रूपान्तरं प्राप्यते। गीतायाम् उपरि लोकमान्य तिलकमहोदयेन 'गीतारहस्य' नाम ग्रन्थः लिखितः। विदेशेषु अपि गीतायाः पठनं भवति। जीवनसंदेशदायिनी गीता सर्वेः पठनीया एव। स्वयं वेदव्यासेनापि उक्तं-
‘गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः
या स्वयं पद्मनाभस्य मुखपद्माद्विनि:सृता।'
0 comments: