Thursday, 29 August 2019

माता पिता पर संस्कृत निबंध - Essay on Parents in Sanskrit

Essay on Parents in Sanskrit: Today, we are providing माता पिता पर संस्कृत निबंध For class 5, 6, 7, 8, 9, 10, 11 & 12. Students can Use this essay on Parents in Sanskrit to complete their homework.

माता पिता पर संस्कृत निबंध - Essay on Parents in Sanskrit

इह जगतीतले जीवानां यथा मातापितरौ उपकारं कल्याणं च कुरुतो न तथा अन्यः कोऽपि। अन्ये जना अल्पकालार्थ सहायका उपकारिणो वा भवन्ति परं मातापितरौ तु जन्मकालात आरभ्य मरणकालं यावत् सर्वदैव स्वपुत्राणां साहाय्ये, उपकारकरणे, कल्याण-सम्पादने च निरतौ तिष्ठतः। Read also : माता पर संस्कृत निबंध

अवलोकयन्तु तावत्। माता हि नव-मास-पर्यन्तं महता क्लेशेन। पुत्रं गर्भ धारयति। यथा च तस्य कष्टं न भवेत् तथैव चेष्टते तथैव च आचरति। अनन्तरं पुत्रे उत्पन्ने तस्य सेवायां रक्षायां च संलग्ना भवति। तस्यैव लालने पालने पोषणे संबर्द्धने च सततं दत्तचित्ता तिष्ठाति। कदाचित् तैलं लगयति, कदाचित् उद्वर्तनेन उद्वर्तयति कदाचित् दुग्धं पाययति, कदाचित् खेलयति, कदाचित् क्रोड़े निधाय भ्रमयति, भ्रमयति, यदा च शयितुं वांछति तदा आलोलिकाः कथयन्ती शाययति। एवं सम्पूर्णमपि दिनं तस्यैव लालन-पालनादि-कार्ये नयति। Read also : जननी जन्मभूमिश्च स्वर्गादपि गरीयसी संस्कृत निबंध

पश्यन्तु मातृ-स्नेहम्। बालकाः प्रायेण मातुरेव क्रोड़े वस्त्रे वा हदन्ते तत्रैव च मूत्रयन्ति। अतिस्वच्छमपि वसनम् एकेनैव दिनेन मलिनयन्ति। सर्वथा पवित्रमपि मातुः शरीरं लालया नासिकामलेन च दुष्यन्ति। कदाचित् च एकतारं रूदन्तो मातुः शयनमपि दुर्लभं कुर्वन्ति। परम्, एतावन्ति कटानि सहमाना अपि स्नेहमयी माता किं तस्मात् विरक्ता भवति? अथवा स्वप्नेऽपी तस्य अनिष्टं समीहते ? नैव कदापि नैव।

प्रायेण स्वार्थ-प्रियोऽयं संसारः। लोकाः कञ्चित स्वार्थ विलोक्यैव केनापि सह प्रीति स्नेहं वा कुर्वन्ति। परन्तु माता स्वार्थबुद्धि परित्यज्य पुत्राणां लालन-पालनादिकं कुरुते। पुत्रो युवा भूत्वा पालयिष्यति पीड़यिष्यति वा ? सेविष्यते उपेक्षिष्यते वा? प्रमोदयिष्यति सन्तापयिष्यति वा? स्तोष्यति निन्दिष्यति वा ? वशंवदो भविष्यति अवशंवदो वा ? इति कदापि न विचारयति। पुत्रो यौवने यथा तथा वा भवतु, परं माता तु तस्य लालनं करोत्येव। पुत्रः उपकारको भवेत् अपकारको वा, सुखदायको भवेद् दुःखदायको वा परं माता तु तस्य सदा हितमेव चिन्तयति। अतएव श्रीमद्भिः शङ्कराचार्यैः कथितम्
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
यदि कदाचित् पुत्रो रोग-पीडितो भवति, ज्वरग्रस्तो जायते, साधारणेन अवश्यायादिना वा पीड्यते तदा करुणामयी माता तत्कालमेव विकला विह्वला च जायते। क्षुषां पिपासां च विस्मृत्य तस्य रोगं शमयितुं सर्वात्मना प्रयतितुं प्रारभते। अहनिशं सेवमाना तिष्ठति। इतस्ततो धावमाना उपायान् पृच्छति। औषधं कारयति। सिद्धस्थानानि गच्छति। वृद्धान् वन्दते। देवी-देवता अभ्यर्थयते। प्रतिक्षणं च तस्य मुखं निरीक्षमाणा दुःखिता तिष्ठति। यावच्च तस्य आरोग्यं न जायते तावत् क्षणमपि निश्चिन्ता न भवति। किम् एतादृशी प्रीतिः, एतावान् स्नेहः, ईदृशञ्च अकारणं कारुण्यं मातुः ऋते अन्यत्रापि द्रष्टुं शक्यते ? न च इयं प्रीतिः अयं स्नेहः इदं वा अकारणं कारुण्यं बाल्यकाले एव, अपि तु यौवने वार्द्धक्ये वाऽपि समानमेव तिष्ठति। किमधिकं कथयामः। अवर्णनीयं मातुः वात्सल्यम्, अगणनीयाः तस्या उपकाराः, अकथनीया च तस्याः कारुण्यकथा। अत एव तु शास्त्रकारैः कथितम्
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
अतः परं पितुः उपकारं पश्यत। मात्रा महता यत्नेन लालितः पालितः पोषितः परिबद्धितश्च बालको यदा चतुः पञ्चवर्षीयो भवति तदा तस्य पिता तं शिक्षयितुं प्रयतते। तस्य उपनयन-संस्कारं करोति। गुरुकुले पाठशालायां वा पठनार्थ प्रेषयति। सदैव सदाचारं शिक्षयति। अर्थकष्टं सहमानोऽपि तस्य शिक्षणाय सदा व्ययं कुरुते। सततमेव तथा प्रयत्नं कुरुते यथा पुत्रः शिक्षितः सुयोग्यो यशस्वी धनधान्यसंपन्नश्च भूयात्। कश्चित् इच्छति-मम पुत्रो महान् पण्डितो भयादिति। अपरो वाञ्छति-वाक्कोलो भवेदिति। अन्यस्तं न्यायाधीशपदे आसीनं द्रष्टुम अभिलषति। इतरस्तु शिल्पविद्याविशारदं कर्तुं संकल्पयति। कश्चिच्च तं महान्तं चिकित्साधिकारिणमेव कतुं प्रयतते। कथनस्य इदं तात्पर्य वर्तते यत् सर्वे एव पितरः स्वस्वपुत्रस्य अभ्युन्नतये सुखसाधनाय च सर्वप्रकारेण प्रयत्नं विदधति। Read also : मम गृहम संस्कृत निबंध

इयमेव मातुः पितुश्च उपकारस्य स्नेहस्य वात्सल्यस्य च कथा अस्ति। अत एव अस्माकं शास्त्रेषु मातुः पितुश्च सेवायाः भक्तेश्च महीयान् महिमा वणितो वर्तते। यदा अस्माकम् उपकाराय कल्याणाय उन्नतये सुखाय च मातापितरौ एवं प्रकारेण प्रयत्नं कुरुतः तदा अस्माभिरपि तेनैव प्रकारेण तयोः सेवा शुश्रूषा च कर्तव्या। तयोः आज्ञायाः पालनं कर्तव्यम्। तथा च आचरणं कर्तव्यं यथा माता पिता च उभौ अपि सुखिनौ संतुष्टी प्रसन्नमानसौ च स्याताम्। यथा तौ आदिशेतां तथा चलितव्यम्। श्रद्धया भक्त्या विनयेन च सदा तयोः सत्कारः सम्मानश्च विधातव्यः। अहरहश्व वन्दनीयौ। न च तथा एकमपि कार्य कर्तव्यं येन तयोः स्वल्पमपि कष्ट भवेत, काचित् चिन्ता वा उत्पद्यत। इदमेव पुत्राणां कर्तव्यम्। एष एव धर्मः। इयमेव शास्त्रकाराणामाज्ञा। अयमेव च लोक-परलोकयोः परमः श्रेयस्करः पन्थाः। अत एव शास्त्रेषु लिखितं वर्तते -

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् । 
न तस्य निष्कृतिः कर्तुं शक्यावर्षशतैरपि ।। 
तयोनित्यंप्रियंकुर्यात् आचार्यस्य च सर्वदा। 
तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ।।
अस्माकं साहित्ये मातृभक्तानां पितृभकानां च अनेकाः कथा लिखिताः सन्ति। भगवान् रामचन्द्रः पितुः आज्ञया चतुर्दशवर्ष-पर्यन्तं वने वासमकरोत्। श्रवणकुमारः स्वकीयौ अन्धौ मातापितरौ स्कन्धयोः उपरि एव सदा वहति स्म। महात्मा भीष्मः पितुरेव प्रसन्नतायै आजीवनं कठोरं ब्रह्मचर्यव्रतं धारितवान्। पितुरेव सुखोपभोगाय पुरुः स्वकीयं यौवनं पित्रे दत्तवान्। एवम् अस्माकं देशे ईदृशा अनेके माता-पितृ-भक्ता महापुरुषा बभूवुः येषां नामानि अद्यापि गृहे गृहे गीयन्ते।

तथैव यदि वयमपि माता-पितृ-भक्ता भविष्यामः सदा अस्माकमपि परमं कल्याणं, सुमहान समादरः महती च कीतिः भविष्यति। अतः सर्वैरेव जनैः मातृभक्तैः पितृभक्तैश्च भवितव्यम्।

SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: