Tuesday, 6 September 2022

बिहार पर संस्कृत निबंध (Essay on Bihar in Sanskrit)

बिहार पर संस्कृत निबंध (Essay on Bihar in Sanskrit)

बिहार पर संस्कृत निबंध: बिहार भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम्। एतस्य राजधानी पटना अथवा पाटलीपुत्रम् अस्ति। अस्य राज्यस्य पूर्वभागे पश्चिमवङ्गराज्यं, दक्षिणभागे झारखण्डराज्यञ्च विद्यते। 'बिहार'इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं गङ्गानद्याः तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते। प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते। बिहारराज्यम् ९ विभागेषु विभक्तम् अस्ति। एवं ३८ मण्डलानि सन्ति। भगलपूर, दर्भाङ्ग, कोसि, मगध, मुन्गेर, पटना, पुर्णिया, सासाराम, तिर्हुत एते ९ विभागाः भवन्ति। 

बिहार पर संस्कृत निबंध (Essay on Bihar in Sanskrit)

१८५७ तमे वर्षे जाते भारतस्य प्रथमसङ्ग्रामे बिहारीयः बाबू कुंवरसिंहः प्रमुखभूमिकां निरवहत्। १९१२ तमे वर्षे पश्चिमवङ्गस्य विभजनस्य कारणतः बिहारराज्यं पुनः अस्तित्वं प्राप्नोत्। १९३५ तमे वर्षे ओरिस्साराज्यम् इतः पृथक् कृतम्। स्वातन्त्रसङ्ग्रामावसरे बिहारे जातः चम्पारणविद्रोहः ब्रिटीशजनानां बहिष्करणे विरोधे च प्रमुखं पात्रम् अवहत्। स्वातन्त्र्यानन्तरं बिहारराज्यं पुनः एकवारं विभक्तम्। २००० तमे वर्षे झारखण्डराज्यं बिहारतः पृथक्जातम्। भारतं त्यज्यताम् इत्येतस्मिन् आन्दोलने बिहारस्य पात्रं मुख्यभूतम् आसीत्।

बिहारस्य ऐतिहासिकं नाम मगधम्। बिहारस्य राजधान्याः ऐतिहासिकं नाम पाटलीपुत्रम्। प्राचीनकाले बलाढ्यसाम्राज्येषु अन्यतमम् आसीत् मगधसाम्राज्यम्। मौर्यवंशः, गुप्तवंशः इत्यादयः प्रसिद्धाः राजवंशाः इतः शासनम् अकुर्वन्। मौर्यवंशस्य सम्राजः अशोकस्य साम्राज्यं पश्चिमदिशि अफघानीस्थानपर्यन्तं विस्तृतम् आसीत्। मौर्यवंशस्य शासनं क्रि पू ३२५ तः क्रि पू १८५ पर्यन्तम् आसीत्। पञ्चमे षष्ठे च शतके अत्र बौद्धजैनधर्मयोः उगमः जातः। अशोकः बौद्धधर्मस्य प्रचारे महत्त्वपूर्णां भूमिकां निरूढवान्। सः स्वस्य पुत्रं महेन्द्रं बौद्धधर्मस्य प्रचाराय श्रीलङ्काम् अप्रेषयत्। पाटलीपुत्रे यत्र सः पुत्रस्य आप्रच्छनम् अकरोत् सः प्रदेशः महेन्द्रघट्टः इत्येव निर्दिश्यते। इतः बौद्धधर्मः अग्रे चीनादेशं प्रति ततः जापानदेशं प्रति च प्रसृतं जातम्।

इदं राज्यम् उत्तरे २१°५८'१०" ~ २७°३१'१५" अक्षांशे पूर्वदिशि ८२°१९'५०" ~ ८८°१७'४०" रेखांशे च विद्यते। राज्यस्य विस्तारः अस्ति ९४, १६३ चतरस्र कि मी मितः यस्मिन् ग्रामप्रदेशस्य विस्तारः अस्ति ९२,२५७.५१ च कि मी मितः। झारखण्डस्य पृथक्करणानन्तरं बिहारस्य भूमिः, नदीभिः युक्ता कृषियोग्या समतला विद्यते। गङ्गायाः पूर्वक्षेत्रे स्थितम् इदं राज्यं समुद्रतलात् १७३ पादमिते औन्नत्ये विद्यते। भौगोलिकदृष्ट्या बिहारराज्यं त्रिधा विभक्तुं शक्यम् - उत्तरस्य शैलीय-निम्नश्च प्रदेशः, मध्ये विशालसमतलप्रदेशः, दक्षिणे पर्वतीयप्रदेशश्च। उत्तरीयपर्वतप्रदेशे सोमेश्वरश्रेणी विद्यते। अस्याः श्रेण्याः औन्नत्यं सामान्यतः ४५५ मीटर्मितम्। तत्र विद्यमानस्य सर्वोच्चशिखरस्य औन्नत्यं ८७४ मीटर्मितम्। सोमेश्वरश्रेण्याः दक्षिणभागे निम्नप्रदेशः विद्यते। अस्मिन् मृण्मयक्षेत्रे अर्जुनवृक्षाणां निबिडारण्यं विद्यते। व्याघ्राभयारण्यं वाल्मीकिनगरे स्थितमस्ति। गङ्गानदी राज्यस्य मध्यभागे प्रवहति। उत्तरबिहारे बागमती, कोशी, बूढी गण्डक, गण्डक, घाघरा इत्येताः नद्याः तासां सहायकनदीनां च समतलप्रदेशः वर्तते। सोन, पुनपुन, फल्गू, किऊल - नद्यः बिहारस्य दक्षिणतः गङ्गया मिलन्ति। हिमालयपर्वतात् प्रवहन्त्यः अन्याः नद्यः जलधाराश्च बिहारद्वारा गङ्गया मिलन्ति। वृष्टिकाले नदीनां प्रवाहः महत्यै समस्यायै भवति। ग्रीष्मर्तौ राज्यस्य उष्णांशः भवति ३५°-४५° सेल्शियस्मितम्। शैत्यकाले ५°-१५° सेल्शियस्मितं भवति। शैत्यकालः नवम्बर्मासात् मध्यफेब्रवरिपर्यन्तं भवति। एप्रिल्मासतः मध्यजुलैपर्यन्तं भवति। ततः अक्टोबर्मासपर्यन्तं वृष्टिकालः भवति। प्रतिवर्षं सामान्यतः १२०५ मि मीटर्मिता वृष्टिः भवति। उत्तरस्यां दिशि भूमिः कृषियोग्या भवति।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: