भूकंप पर संस्कृत निबंध (Essay on Earthquake in Sanskrit)
भूकंप पर संस्कृत निबंध: भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः। भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति। भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति। भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति।
कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते। भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव। अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति। एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति। सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते।
मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा, अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति। एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति। अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।
एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति। शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति। प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः।