बगुला पर संस्कृत निबंध (Essay on Bagula bird in Sanskrit)
बगुला पर संस्कृत निबंध: बकः दीर्घपादयुक्तः, दीर्घग्रीवायुक्तः कश्चन पक्षिविशेषः। विविधजातिषु बकानां पञ्चदश प्रभेदाः विद्यन्ते। बकाः ग्रीवां बहिः नुदन्तः डयन्ते। अण्टार्क्टिकां दक्षिण अमेरिकां च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। बकः (बगुला) लघुजन्तून् मीनान् च खादन्ति। कदाचित् बकाः दूरदेशं प्रयान्ति। जलमूलस्य पार्श्वे नीडं निर्माय वसन्ति। वर्षे अण्डद्वयम् उत्पादयन्ति। मानवस्य कारणतः अद्य बकाः अपायस्थितौ वर्तन्ते।
बकः विश्वे उन्नततमः डयमानः पक्षी वर्तते। रक्तवर्णीयशिरसः बकस्य भारम् १२ के.जि परिमितं भवति। पुरूषस्त्रीपक्षिणोः तथा महान् भेदः न दृश्यते परन्तु पुरुषपक्षी आकारे बृहत्तरः भवति। बकस्य कशेरुः श्वासकोशेन सम्बद्धः भवति, येन दूरं डयितुं साहाय्यं भवति।
अण्टार्क्टिकां दक्षिण अमेरिकां च अतिरिच्य विश्वे सर्वत्र बकाः निवसन्ति। पूर्व-एशिया बकानां मुख्यम् आवासस्थानं वर्तते, यत्र बकानां सप्त प्रभेदाः दृश्यन्ते। आफ्रिकायां पञ्चषाः बकानां प्रभेदाः दृश्यन्ते। आस्ट्रेलिया-यूरोप्-उत्तर-अमेरिकाखण्डेषु बकानां प्रभेदद्वयं विद्यते। यत्र आद्रतायुक्तः विशालः प्रदेशः भवति तत्र वसन्ति। केचन बकाः आद्रयुक्तप्रदेशे उशित्वा शावकान् भोजयितुं तृणयुक्तप्रदेशं गच्छन्ति। गर्भधारणावधौ बकाः आर्द्रतायुक्तप्रदेशे एव तिष्ठन्ति। कतिचनप्रभेदास्तु तृणयुक्तप्रदेशे एव नीडं निर्माय वसन्ति।
बकाः समूहरूपेण तिष्ठन्ति। खादनसमये परस्परं दत्त्वा खादन्ति। बकशावकाः कदाचित् आहारार्थं कूजनं कृत्वा सूचनां यच्छन्ति। बकः सस्याहारं मांसाहारं च खादति। भूमौ अन्विष्य धान्यानि लघु कीटान् च खादन्ति। जलात् मीनान् च गृह्णन्ति।