उपनिषदां महत्वम्। Upanishad ka Mahatva in Sanskrit : उपनिषद्- शब्दार्थः उप-नि-उपसर्गपूर्वकात् विशरण-गत्यवसादनार्थकात्। षद्लृ (सद्) धातोः क्विपि उपनिषत्-शब्दो निष्पद्यते। उप-समीपे नि-निश्चयेन, सद्स्थानम् इति, तत्त्वज्ञानार्थ गुरोः समीपे सविनयं स्थिति: उपनिषद् इत्युच्यते। तत्त्वज्ञानप्रतिपादनाद् एतद्विषयका ग्रन्था अपि उपनिषद इत्युच्यन्ते। उपनिषद्-शब्दार्थों ब्रह्मविद्येत्यपि गृह्यते। सद्धातोः अर्थत्रयम् आश्रित्य उपनिषच्छब्दार्थो निरूप्यते यद् या संसारबीजभूताम्। अविद्यां नाशयति, यया ब्रह्मप्राप्तिः ब्रह्मज्ञानं वा भवति, यया च मानव-दु:खावसादो भवति, सा उपनिषदिति।
उपनिषद्- शब्दार्थः उप-नि-उपसर्गपूर्वकात् विशरण-गत्यवसादनार्थकात्। षद्लृ (सद्) धातोः क्विपि उपनिषत्-शब्दो निष्पद्यते। उप-समीपे नि-निश्चयेन, सद्स्थानम् इति, तत्त्वज्ञानार्थ गुरोः समीपे सविनयं स्थिति: उपनिषद् इत्युच्यते। तत्त्वज्ञानप्रतिपादनाद् एतद्विषयका ग्रन्था अपि उपनिषद इत्युच्यन्ते। उपनिषद्-शब्दार्थों ब्रह्मविद्येत्यपि गृह्यते। सद्धातोः अर्थत्रयम् आश्रित्य उपनिषच्छब्दार्थो निरूप्यते यद् या संसारबीजभूताम्। अविद्यां नाशयति, यया ब्रह्मप्राप्तिः ब्रह्मज्ञानं वा भवति, यया च मानव-दु:खावसादो भवति, सा उपनिषदिति। अतएव श्रीशंकराचार्यः अविद्यानाशनं दु:खनिरोधं ब्रह्मप्राप्ति च, इत्यर्थत्रयम् आश्रित्य उपनिषशब्दं ब्रह्मविद्याद्योतकत्वेन स्वीकरोति। गौण्या वृत्त्या च ब्रह्मविद्याप्रतिपादक ग्रन्था अपि उपनिषच्छब्दवाच्याः।
उपनिषद संख्या- यद्यपि उपनिषदां संख्या शतद्वयपर्यन्तं मन्यते, तथापि तत्र एकादशोपनिषद एव मुख्यत्वेन मन्यन्ते। तद्यथा-ईश-केन-कठ-प्रश्न-मुण्डकमाण्डूक्यतैत्तिरीय-ऐतरेय-छान्दोग्य-बृहदारण्यक-श्वेताश्वतराः। श्रीशंकराचार्योऽपि एतासामेव भाष्यमकरोत्। प्रत्येका उपनिषत् केनापि वेदेन संबद्धा वर्तते।
विषयानुसारम् 108 उपनिषदां षट्सु भागेषु विभाजनं क्रियते। (1) वेदान्त विषयसंबद्धाः-24, (2) योगसिद्धान्तसंबद्धाः-20, (3) सांख्यसिद्धान्तसंबद्धाः-17 (4) वैष्णवसिदान्तसंबद्धाः-14, (5) शैवसिद्धान्तसंबद्धाः-15, (6) शाक्तसिद्धान्तसंबद्धाः-18
उपनिषदा महत्त्वम् - उपनिषदां महत्त्वं न केवलं भारतीयैः, अपितु पाश्चात्त्यैरपि मनीषिभिनिर्विवादम् उरीक्रियते। उपनिषदो हि भवाब्धिसंतारिकाः, आधि-व्याधि-संतप्त-मानस-संतर्षिकाः, मायामोह-निबद्ध-जीवाधिविनाशन-हेतवः, तात्त्विक-ज्ञानप्रभा-संतानेन मानवान्त:करण-प्रदीपिकाः, सुख-शान्तिसाधिकाः, अभ्युदयनिःश्रेयसावातिहेतवश्च सन्ति। अध्यात्ममीमांसाया देदीप्यमान-रत्नभूता इमाः। सर्वेष्वपि भारतीयेषु दर्शनेषु आसां प्रभावः स्फुटमवलोक्यते। सर्वैरपि मनीषिभिः, धर्मप्रवर्तकैः, तत्त्वज्ञः, आचारशिक्षकः धर्मशास्त्रकारश्च उपनिषदा महत्त्वं स्वीयदृष्ट्या स्वीक्रियते। भारत-सर्वस्वभूता इमा उपनिषदो न केवलं स्वप्रभया भारतमेव विद्योतयन्ति, अपितु सकलमपि भुवनं तरणिवदाभया भासयन्ति।
भारतीयसंस्कृतौ अध्यात्मतत्त्वस्य समन्वयस्य श्रेयः उपनिषदामेव। एता हि दु:खाधिव्याधि-विशीर्ण-जगद्-दु:खनिवृत्त्य, पापविमुक्तये, आनन्दावाप्तये, निर्वाणप्राप्तये च राजमार्ग प्रदर्शयन्ति। जराधिव्याधि-पीडितो मानवः स्वाभीष्ट-लक्ष्य-प्राप्तये उपनिषदामेव शरणं कामयते। अतएव उपनिषदां देशे विदेशे च शतमुखं स्तुतिः संश्रूयते।
उपनिषत्सु अध्यात्मम् - उपनिषदो हि अध्यात्मविद्यायाः स्रोत:स्वरूपाः। एतदुद्भूता नानानिर्झरिण्यो नानाशास्त्र-धर्मशास्त्र-आचारशास्त्र-नीतिशास्त्रादि-रूपेण सकलमपि भुवनं भागीरथीप्रवाह इव पावयन्ति। अध्यात्मप्रधानायां प्रस्थानत्रय्याम् उपनिषदो मूर्धन्यभूताः। प्रस्थानत्रय्याम् अन्यद् द्वयं ग्रन्धरत्नं गीता ब्रह्मसूत्रं चेति परिगण्यते। वस्तुतो गीता ब्रह्मसूत्रं चेति इयमपि उपनिषदाश्रयमेव। एवं प्रस्थानत्रय्याम् उपनिषद एव परमप्रमाणत्वेन संग्राह्याः।
मुण्डकोपनिषदि वेदादीनां गणना अपराविद्यायां वर्तते, उपनिषदां पराविद्यायाम्। अपरा विद्या लौकिकविषयप्रधाना, परा च ब्रह्मज्ञानप्रधाना। अतएवोच्यते-
तत्रापरा ऋग्वेदो यजुर्वेदः, अथ परा यया तदक्षरमधिगम्यते।
उपनिषदां महत्त्वमवधार्यैव 17 तम-शताब्द्यां दाराशिकोहो नाम राजकुमारः 50 उपनिषदा पारसीकभाषायाम् अनुवादं विदधे। तन्मूलकमेव त्वेल दुपेरां-नाकफ्रेंचविदुषा विहितं लेटिनभाषानुवादम् अधीत्य शर्मण्यदेशीयो विद्वान् प्रसिद्धदार्शनिकः शोपेनहावर-महाभाग उपनिषदां गुणानुवादं कुर्वन्नाह-एता उपनिषदो मम जीवनस्य शान्ति-साधिकाः, मरणानन्तरं चापि शान्तिसाधिका भविष्यन्ति।
It has been the solace of my life and will be the solace of my death.
उपनिषदां विषयाः - उपनिषत्सु भारतीयतत्त्वज्ञानां सात्त्विकचिन्तनस्य प्रायशः सकलोऽपि संग्रहः समुपस्थाप्यते। उपनिषत्सु मुख्यत्वेन वर्णिता विषयाः समासतः सन्ति- किं ब्रह्म, के ईश्वरः, जीवात्मनः किं स्वरूपम्, जीवात्मनः किं लक्ष्यम्, जीवो ब्रह्मणो भिन्नोऽभित्रो वा, कथं च भिन्नत्वम् अभिन्नत्वं वा, सृष्टे: मूलरूपं किम्, कथं जगतः प्रादुर्भावः, कथं जगतः प्रलयः, अध्यात्मज्ञानस्य आवश्यकता, अध्यात्मेन कि साध्यते, अध्यात्मेन च कथं मोक्षावाप्तिः, कानि च मोक्षस्य साधनानि, निवृत्तिमार्गस्य काऽऽवश्यकता, ज्ञानमार्गेण किं साध्यते, ब्रह्मसाक्षात्कारस्य के लाभाः, इत्यादयः।
उपनिषदां महत्त्वबोधकाः केचन विषया अत्र समासत उपस्थाप्यन्ते। विनश्वरे जगति एक सत् अविनश्वरं च वस्तु ब्रह्मैव, तदेव जीवनेऽन्वेषितव्यम्।
अस्थूलमनवहस्वमदीर्घम् अरसमगन्धम्-अस्मिन्नु खल्वक्षरे गाग्र्याकाश ओतश्च प्रोतश्च।—बृहदारण्यक० 3.8.8।
तस्य ब्रह्मणः सत्तयैव वाक्वक्षुमेन आदिक स्वकर्म कर्तुं प्रभवन्ति।
यन्मनसा न मनुते, येनार्मनो मतम् । तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते।
जीवनेऽस्मिन् यदि ब्रह्मज्ञानं न स्यात् तर्हि जीवनं निष्फलमेव । तत्त्वज्ञानेन ब्रह्मदर्शनेन च जीवो मुक्तिं लभते-
इह चेदवेदीदथ सत्यमस्ति, न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचिन्त्य धीराः, प्रेत्यास्माल्लोकादमृता भवन्ति।।
कठोपनिषदि ब्रह्मप्राप्तः साधु साधनं वर्ण्य॑ते। रूपकम् आश्रित्याभिधीयते यत्शरीरेऽस्मिन् आत्मा रथी, शरीरं रथः, बुद्धिः सारथिः, मन: प्रग्रहः, इन्द्रियाणि हयाः, संयमेनेन्द्रियाश्वान् वशे कृत्वा रथिनम् आत्मानं प्रेक्षेत-
आत्मानं रथिनं विद्धि, शरीरं रथमेव तु।
बुद्धि तु सारथिं विद्धि, मनः प्रग्रहमेव च॥
इन्द्रियाणि हयान्याहुर्विषयांस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं, भोक्तेत्याहुर्मनीषिणः।।
ब्रह्मणोऽनिर्वचनीयत्वम् आश्रित्यैव उपनिषत्सु नेति-नेति प्रोच्यते। ब्रह्मसाक्षात्कार एव उपनिषदां चरमं लक्ष्यम्। ब्रह्मसाक्षात्कारेणैव सर्वपापनिरोधो मोक्षावाप्तिश्च-
तमेव विदित्वातिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय। (श्वेताश्व० 3.8)
उपनिषत्सु वेदाभिमतः जैतवादोऽपि प्रस्तूयते। तत्रैक ईश्वरः अभोक्ता साक्षिरूपश्च, द्वितीयो जीवः कर्मफलभोक्ता, तृतीया प्रकृतिश्च अचेतना। दृष्टान्तरूपेण प्रकृतिः वृक्षः, जीवेश्वरौ च तत्रस्थौ पक्षिणौ।
द्वा सुपर्णा सयुजा सखाया, समानं वृक्ष परिषस्वजाते।
तयोरन्यः पिप्पलं स्वावत्यनश्नन्नन्योऽभिचाकशीति ।।
वेदान्तप्रतिपादितस्य ‘तत्त्वमसि' इति महावाक्यस्य मूलं छान्दोग्योपनिषदि प्राप्यते-
तत् सत्यं स आत्मा तत्त्वमसि श्वेतकेतो।
भगवद्गीतायां मुख्यतः प्रतिपादितस्य निष्कामकर्मयोगस्य मूलम् ईशोपनिषदि प्राप्यते-
कुर्वन्नेवेह कर्माणि, जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति, न कर्म लिप्यते नरे।।
विश्वबन्धुत्वस्योपदेश ईशोपनिषदि उपलभ्यते-
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं, ततो न विजुगुप्सते॥
ज्ञानकर्ममार्गयोः समन्वयेनैव सुखसाधनत्वं सिध्यति-
अविद्यया मृत्यु तीत्व, विद्ययाऽमृतमश्नुते।
उपनिषत्सु वेदानां सारभागः सरलयाऽभिव्यक्त्या प्रश्नोत्तररूपेण आख्यायिकासमन्वयेन च रुचिरां शैलीम् आश्रित्य प्रतिपाद्यते। उपनिषद एता: जीवने शान्तिप्रदायिकाः, आधिव्याधिनिरोधिकाः, मनसः शान्तिदाः, आत्मनश्च प्रसादिकाः, अविद्यान्धतमसविनाशनात् ज्ञानप्रभाप्रसारिकाः, सर्वशास्त्रमूर्धन्यत्वेन समादृताश्च सन्तीति एतासां महत्त्वम् अक्षुण्णं निर्विवादं च।
COMMENTS