बाघ पर संस्कृत निबंध (Essay on Tiger in Sanskrit)
बाघ पर संस्कृत निबंध: प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः। भारते पुराणकथासु विग्रहेषु च व्याघ्रो (बाघ) विशेषगौरवभाक् दृश्यते। कालीदेव्याः वाहनरूपः अस्ति व्याघ्रः। सिंहः व्याघ्रः चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव। एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम्। एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते। महाभारते नलदमयन्त्योः कथायां गोमुखव्याघ्रः इत्येषः शब्दप्रयोगः दृश्यते। बौद्धग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते।
प्राचीनभारते केषाञ्चन राजवंशानां लाञ्छनरूपेण व्याघ्रः विद्यते। कर्णाटकस्य होय्सलवंशस्य लाञ्छनरूपेण विद्यमानं व्याघ्राणां दुण्डुशिल्पम् अत्यन्तं वैशिष्ट्यपूर्णमस्ति। चोळराजाः नाणकेषु व्याघ्रचिह्नम् उपयुक्तवन्तः सन्ति। प्रपञ्चस्य बहुषु देशेषु व्याघ्रः राष्ट्रस्य प्रमुखप्राणित्वेन परिगण्यते। कोरियाजनैः व्याघ्रः मृगराजः इत्युच्यते। चीनादेशे गृहाणां भित्तेः उपरि व्याघ्रचित्राणि दृश्यन्ते। ते तान् 'सांस्कृतिकसम्पत्तिः' इति मन्यन्ते।
दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः। दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः। उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः।
अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते। आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति। तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति।