भास्कराचार्य पर संस्कृत निबंध (Essay on Bhaskaracharya in Sanskrit)
भास्कराचार्य पर संस्कृत निबंध: भास्कराचार्यः (१११४-११८५) एक: महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म विजयपुर नगरे अभवत्। सह्यपर्वतसमीपस्थः ग्रामः एतस्य जन्मस्थलम्। भास्कराचार्यस्य पितुः नाम महेश्वरः इति। पिता एव एतस्य विद्यागुरु आसीत्। एषः क्रि.श.११ शतकस्य पूर्वार्धे आसीत् इति विदुषाम् अभिप्रायः। भास्कराचार्यस्य कृतीनां व्याख्यानानि यावन्ति सन्ति तावन्ति व्याख्यानानि ज्योतिश्शास्त्रस्य अन्यस्य कस्यापि ग्रन्थस्य न सन्ति।
भास्कराचार्यस्य नाम्नः श्रवणात् एव सर्वे ‘लीलावती’ इति ग्रन्थं स्मरन्ति। किन्तु लीलावती इति स्वतन्त्रः ग्रन्थः न। ‘सिद्धान्तशिरोमणिः’ इत्येतस्य ग्रन्थस्य कश्चन भागः सः। ‘भास्कराचार्यस्य लीलावतीनामिका विधवा पुत्री आसीत्। तस्याः खेदस्य निवारणार्थं तेन यत् गणितं बोधितं तत् लीलावती इति नाम्ना एव ख्यातम् अभवत्’ इति कथा श्रूयते। ‘लीलावती’ भागः पाटीगणितं (अङ्कगणितं) निरूपयति। सङ्कलनव्यवकलनादीनि, गणितस्य सर्वाणि अङ्गानि च प्रतिपादयति लीलावतीभागः। भास्काराचार्यस्य अपरः ग्रन्थः ‘करणकुतूहलम्’ इति। अत्र पञ्चाङ्गनिर्माणार्थम् आवश्यकाः विषयाः निरूपिताः सन्ति।