शिक्षक दिवस पर संस्कृत निबंध (Essay on Teachers Day in Sanskrit) शिक्षक दिवसः सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के आभारतम् आचर्यते। इदं दिनं डॉ. सर्वपल्
शिक्षक दिवस पर संस्कृत निबंध (Essay on Teachers Day in Sanskrit)
शिक्षक दिवस पर संस्कृत निबंध: शिक्षक दिवसः सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के आभारतम् आचर्यते। इदं दिनं डॉ. सर्वपल्ली राधाकृष्णन्-महोदयस्य जन्मदिनम्। सः कश्चित् उत्तमः शिक्षकः आसीत् यः शिक्षणक्षेत्रम् अतीव प्रीणाति स्म। तस्य सम्माने तस्य जन्मदिनाङ्के शिक्षकदिनम् आचर्यते।
शिक्षक दिवसस्य महत्त्वम्
शिक्षणम् एव मानवतां बोधयति। शिक्षणेन विना मानवजीवनं पशुवदेव। प्राचीने काले अस्माकं देशे गुरुप्रणाल्या शिक्षणं प्रचलति स्म। गुरूणाम् आश्रमाः/गुरुकुलानि आसन्, येषु गुरवः छात्रेभ्यः शिक्षणं यच्छन्ति स्म। किन्तु इदानीं जनसङ्ख्यायाः वर्धनात्, पाश्चात्यसंस्कृत्याः प्रभावेन च शिक्षणपद्धतिः परिवर्तिता अस्ति। वर्तमानकाले प्रतिनगरं प्रतिग्रामं शिक्षणप्रदानार्थं शैक्षणिकसंस्थाः सन्ति। तथापि सर्वेभ्यः शिक्षणं न प्राप्यते। शिक्षणाय विद्यालयानां निर्माणं, छात्राणां, भवनानां, शिक्षकाणां च प्रबन्धनं प्रशासनस्य कर्तव्यम्, उत्तरदायित्वं च अस्ति। किन्तु तेषु शिक्षकः प्रमुखः, महत्वपूर्णः च अस्ति। शिक्षकाः चरित्रवन्तः, लोभरहिताः, परोपकारिणः भवन्ति चेत् छात्रान् सम्यक्तया मानवतायाः पाठं पाठयितुं शक्नुवन्ति। प्राचीनकाले सर्वेऽपि गुरवः उपर्युक्तस्वभाववन्तः आसन्। वर्तमानकालः धनप्रधानः अस्ति इत्यतः शिक्षकेभ्यः अपि वेतनस्य अत्यावश्यकता वर्तते। शिक्षक एव प्रत्येकं जनं मौलिकजीवनम् अध्यापयति। अतः शिक्षकाणां सम्माननाय शिक्षकदिवसस्य आचरणस्य परम्परा प्रारब्धा।
शिक्षकदिवसस्य इतिहासः
जनाः सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के शिक्षकदिवसम् आचरन्ति। स्वतन्त्रभारतस्य द्वितीयराष्ट्रपतेः डॉ. सर्वपल्ली राधाकृष्णन् इत्याख्यस्य जन्मदिनम् एव शिक्षकदिवसः कथ्यते। तस्य पिता शिक्षकः आसीत्। सः स्वयमपि उत्तमः शिक्षकः आसीत्। राधाकृष्णन् इत्याख्यस्य व्यक्तिगतजीवनं, साधना, अनेकानां विषयाणां गहनाध्ययनं, शिक्षणस्य कुशलता इत्यादयः आदर्शशिक्षकस्य सात्विकं स्वरूपम् अस्ति। सः स्वस्य प्रतिजन्मदिवसे योग्यानां शिक्षकाणां सम्मानं करोति स्म। अतः सर्वकारेणापि सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के योग्यानां शिक्षकाणां सम्माननस्य परम्परायाः प्रारम्भः कृतः। अस्मिन् दिवसे शैक्षणिकसंस्थाः विद्यालयेषु विशिष्टशिक्षकाणां सम्माननं कुर्वन्ति।
शिक्षकदिवसस्य आचरणम्
शिक्षकदिवसे शिक्षणसंस्थाः सांस्कृतिकोत्सवं आयोजयन्ति। अस्मिन् दिवसे शालासु, विद्यालयेषु स्पर्धाः भवन्ति। तासु स्पर्धासु विद्यार्थिनः उत्साहपूर्वकं भागं गृह्णन्ति, स्वशिक्षकान् आनन्दयन्ति च। महाविद्यालयेषु, विश्वविद्यालयेषु च शिक्षकदिवसे योग्यानां पदवीधरछात्राणां शिक्षकत्वेन चयनं भवति। शिक्षकाः तादृशान् छात्रान् प्रेरयित्वा अन्यत्र पाठनार्थं प्रेषयन्ति।
शिक्षकाणां सम्माननम्
शिक्षकदिवसे शैक्षणिकसंस्थाः केवलं पुष्पमाला, प्रमाणपत्रं दत्त्वा श्रेष्ठशिक्षकान् सम्मानयन्ति। किन्तु अन्यां कामपि विशिष्टव्यवस्थां न ददति। वर्तमानकाले कोऽपि जनः शिक्षकस्य महत्वं न जानाति। अतः जनान् शिक्षकस्य महत्वं बोधयित्वा शिक्षकेभ्यः सर्वत्र उत्तमस्थानं कल्पनीयम्। शिक्षकाणामपि दायित्वमस्ति यत् तैः आदर्शचरित्रानुसारं समाजस्य मार्गदर्शनं करणीयम्। शिक्षकैः धूम्रपानं, मदिरापानं, अन्यत् दुर्व्यसनं वा न करणीयम्। शिक्षकैः विशेषशिक्षणवर्गाः न चालनीयाः। तैः छात्रेभ्यः विद्यालये एव सम्पूर्णशिक्षणं दातव्यम्। श्रेष्ठशिक्षकाः सदैव सम्मानं प्राप्नुवन्ति।
Related Article :
शिक्षक दिवस पर संस्कृत श्लोक (Sanskrit Shlok on Teachers Day)
COMMENTS