Friday, 2 September 2022

भगवान विष्णु पर संस्कृत निबंध (Essay on Lord Vishnu in Hindi)

भगवान विष्णु पर संस्कृत निबंध (Essay on Lord Vishnu in Hindi)

भगवान विष्णु पर संस्कृत निबंध - 1 

विष्णुः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वपालनहारः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति।  विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। सः अत्यन्तः दयालुः अस्ति। स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते।  सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।

भगवान विष्णु पर संस्कृत निबंध - 2  

विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञ‌ायते। विष्णोः नाभेः कमलः जातः यत्र ब्रह्मा स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। पद्मपुराणस्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः द्रौपदी गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।

भगवान विष्णु पर संस्कृत निबंध (Essay on Lord Vishnu in Hindi)
भगवान विष्णु

महाकविः कालिदासः रघुवंशमहाकाव्ये विष्णोः स्वरूपवर्णनं करोति यत्, सुतकामेष्टिप्रवृत्तिसमये निर्ज्जराः रावणेन पीडिताः सन्तः ग्रीष्मातुराः पान्थाः छायातरुमिव भगवन्तं विष्णुम् अभिजगग्मुः। ते देवाः सागरं प्रापुः विष्णुश्च बुबुधे, तथा हि गम्यस्याव्यासङ्गः भविष्यन्त्याः कार्यसिद्धेः चिह्नं हि। देवाः शेषस्य शरीरे समुपविष्टं तस्य शेषस्य फणामण्डलस्य उद्रश्मिभिः मणिभिः द्योतितदेहं तं हरिं ददृशुः। उत्पले समुपविष्टायाः श्रियाः दुकूलव्यवहितमेखले आस्तीर्णपाणिपल्लवे अङ्के निक्षिप्तपदं विष्णुं ददृशुः। विकसितकमलनेत्रं प्रातःकालिकसूर्यतुल्यपीताम्बरधरं योगिगम्यं शरत्सम्बन्धिदिवसमिव स्थितिम्। कान्त्यानुरञ्जितश्रीवत्सलाञ्छनं लक्ष्म्या विलासदर्पणं सागराणां सारं कौस्तुभाख्यं मणिं विशालवक्षसा धारयन्तं वृक्षाकारैः दिव्यालङ्कारभूषितैः भुजैः उपलक्षितमत एव पयोमध्यादाविर्भूतं द्वितीयं कल्पद्रुममिव स्थितम्। दैत्याङ्गनाकपोलभित्तीनां मदरागहार्रभिः सविग्रहैः सुदर्शनादिभिः शस्त्रैः उदीरितजयशब्दम्। त्यक्तहीशअवरवैरेण वज्रप्रहारचिह्नधारिणाञ्जलियुक्तेन अनुद्धतेन तार्क्ष्येण उपासितम्। योगनिद्रावसाने प्रसनैः पावनैः अवलोकनैः सुखशयनपृच्छकान्भ-ग्वादीनृपीननुकम्पयन्तम्। अथ दर्शनावसाने देवाः दैत्यानां नाशकाय तस्मै परमेश्वराय प्रणिपत्य स्तुतियोग्यं वाङ्गमनसपरमेनं परमेश्वरम् अस्तुवन्।

स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

तेन दश अवताराः गृहीताः । ते

  1. मत्स्यः - प्रलयसमये नारायणः सोमकनामकं राक्षसं हत्वा जीविनः अपालयत्।
  2. कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
  3. वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
  4. नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत्।
  5. वामनः - दानशूरस्य बले: गर्वहरणं कृत्वा तम् पातालं प्रति प्रेषितवान्।
  6. परशुरामः - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
  7. रामः - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
  8. कृष्णः - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
  9. बौद्धः - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
  10. कल्किः - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।

विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।


SHARE THIS

Author:

I am writing to express my concern over the Hindi Language. I have iven my views and thoughts about Hindi Language. Hindivyakran.com contains a large number of hindi litracy articles.

0 comments: