चन्द्रमा पर संस्कृत निबंध (Essay on Moon in Sanskrit) चन्द्रः (Moon) भूमेः एकमात्र-उपग्रहः अस्ति। चन्द्रस्य निर्माणं ४५२.७+- १ कोटि वर्षात् पूर्वं जात
चन्द्रमा पर संस्कृत निबंध (Essay on Moon in Sanskrit)
चन्द्रमा पर संस्कृत निबंध: चन्द्रः (Moon) भूमेः एकमात्र-उपग्रहः अस्ति। चन्द्रस्य निर्माणं ४५२.७+- १ कोटि वर्षात् पूर्वं जातम्। आकाशस्य शोभा चन्द्रमसा भवति। यदा रात्रौ अन्धकारं भवति तदा चन्द्रमा: निज प्रकाशेण अन्धकारं दूरं करोति। बालका: चन्द्रमसं मातुलचन्द्र: कथयन्ति। चन्द्रमा: शान्ते: शीतलताया: च प्रतीक: अस्ति। चन्द्रमा: पूर्णिमायां पूर्णं भवति तथा च अमावस्यां पूर्णरूपेण लुप्तं भवति। चन्द्रमा: शुकल्पक्षे अमावस्याया: पश्चाद् प्रतिदिनं वर्धति यावत् स: पूर्णरूपेण पूर्णं न भवति। पूर्णिमायाया: रात्रौ चन्द्रमा: पूर्णं भवति तत् पश्चाद् स: प्रतिदिनं अल्पं भवति।
सूर्यस्य अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम् अस्माकं दृष्ट्या। भूमिः स्वं परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते। अन्ये ग्रहाः इव चन्द्रेण अपि स्थिरनक्षत्रमार्गे परिपूर्णं भ्रमणं कर्तुं २७ दिनानि ७ घण्टाः ४३ निमेषाः स्वीक्रियन्ते। तन्नाम २७.३२१७ दिनानि स्वीकरोति। अयम् एव नक्षत्रमासः इति उच्यते। भूमौ स्थित्वा ये अवलोकयन्ति तेषां दृष्ट्या चन्द्रः एकस्मात् नक्षत्रात् प्रस्थाय वृत्तं समाप्य तत्रैव प्रत्यागन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं शक्यते। एषः कालः २७.३२१७ सौरदिनसमानः भवति।
सामान्यतः चान्द्रमानः नाम अमावास्यतः अमावास्यपर्यन्तं विद्यमानः २९.५३०५८८७ सौरदिनानि इत्यर्थः। अयं कालः नक्षत्रमासात् अधिका वर्तते। चन्द्रस्य परिभ्रमणावसरे सूर्यः अपि सञ्चरति इत्यतः प्रथमामावास्यातः द्वितीयामावास्याप्राप्तिः विलम्बायते। भूमेः गुरुत्वाकर्षणशक्तिम् अपि यदि परिगणयेम तर्हि चन्द्रस्य कक्षा दीर्घवृत्ताकारकः भवति। अन्येषां ग्रहाणाम् उपरि रवेः आकर्षणकारणतः अस्यां कक्षायां लघु परिवर्तनं दृश्यते। भूमितः चन्द्रस्य दूरं भवति २,३८,००० मैल्-परिमितम्। इदमन्तरं २२,१०,४६० तः २,५२,७०० मैल्-परिमितं विस्तृता भवति। भूमिं परितः भ्रमन् चन्द्रः एकस्मात् समीपप्रदेशात् प्रस्थाय तत्रैव प्रत्यागमनाय यं समयं स्वीकरोति सः कालः "एनोमलिस्टिक् मासः" (anomalistic month) इति कथ्यते। अयं कालः २७.५५४६ सौरदिनसमं भवति। चन्द्रस्य कक्षा भूचक्रात् अधिकतरं नाम ५ डिग्रि १५ कोणे नत्वा भ्रमति।
COMMENTS